________________
उद्देशक : ६, मूलं- २०५, [भा. ६२०७]
३७५
गच्छन् दर्श्यते, यथा-यतस्त्वं बिभेषि स हस्ती 'नश्यति' नश्यन् वर्तते ततः कथं त्वमेवं भीरोरपि भीरुर्जाता ? । तथा या गर्जितं श्रुत्वा भयमग्रहीत् तं प्रति उच्यते - स्थविरा नभसि शुष्कं चर्म विकर्षति; एवं चोक्त्वा शुष्कचर्मण आकर्षणशब्दः श्राव्यते, ततो भयं जरयति । तथा यदि अग्नेः स्तम्भनं न ज्ञायते तदा 'द्वयोः' अग्नौ विद्युति च भयं प्रपन्नाया अलातचक्रं पुनः पुनरकस्माद् दर्श्यते यावदुभयोरपि भयं जीर्णं भवति ॥
अथ वादे पराजयादपमानतः क्षिप्तचित्तीभूताया यतनामाह
[भा. ६२०८] एईए जिता मि अहं, तं पुन सहसा न लक्खियं नाए । धिक्कतकतितव लज्जाविताए पउणायई खुड्डी ॥
[भा. ६२०९] तहविय अठायमाणे, सारक्खमरक्खणे य चउगुरुगा । आणाणो य दोसा, विराधन इमेहिं ठाणेहिं ॥
वृ-यथा चरिकया सा पराजिता सा प्रज्ञाप्यते यथोक्तं प्राक् । ततः साऽऽगत्य वदति- एतयाऽहं वादे जिताऽस्मि, 'तत् पुनः' स्वयंजयनमनया सहसा न लक्षितम्, ततो मे लोकस्य पुरतो जयप्रवादोऽभवत् । एवमुक्ते सा चरिका धिक्कृ तं धिक्कारस्तत्कैतवेन तद्व्याजेन 'लज्जाप्यते' लज्जा ग्राह्यते, लज्जां च ग्राहिता सती साऽपसार्यते । ततः क्षिप्ता भण्यते किमिति त्वमपमानं गृहीतवती ? वादे हि ननु त्वयैषां पराजिता, तथा च त्वत्समक्षमेव एषा धिक्कारं ग्राहितेति । एवं यतनायां क्रियमाणायां यदि सा क्षुल्लिका प्रगुणीभवति ततः सुन्दरम् ॥ 'तथापिच' एवं यतनायामपि च क्रियमाणायाम् ‘अनवतिष्ठति' अनिवर्तमाने क्षिप्तचित्तत्वे संरक्षणं वक्ष्यमाणयतनया कर्तव्यम् । अरक्षणे प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, विराधना चामीभि 'स्थानैः प्रकारैर्भवति । तान्येवाह
[ भा. ६२१०]
छक्कायाण विराधन, झामण तेने निवायणे चेव ।
अगड विसमे पडेज व, तम्हा रक्खंति जयणाए ।
वृ- तया क्षिप्तचित्तया इतस्ततः परिभ्रमन्त्या षन्नां कायानां पृथिवीकयिकादीना विराधना क्रियते । 'ध्यामनं' प्रदीपनकं तद वा कुर्यात् । यदि वा स्तैन्यम्, अथवा निपातनमात्मनः परस्य वा विधीयते । 'अवटे' कूपेऽथवाऽन्यत्र विषमे पतेत् । तदेवमसंरक्षणे इमे दोषास्तस्माद् रक्षन्ति 'यतनया' वक्ष्यमाणया ।। साम्प्रतमेनामेव गाथां व्याचिख्यासुराह
[ भा. ६२११] सस्सगिहादीणि दहे, तेनेज्ज व सा सयं व हीरेजा । मारण पिट्टणमुभए, तद्दोसा जं च सेसाणं ॥
वृ- सस्यं धान्यंतद्भृतं गृहं सस्यगृहं तदादीनि, आदिशब्दात् शेषगृहा-ऽऽपणादिपरिग्रहः, 'दहेत्' क्षिप्तचित्ततयाऽग्निप्रदानेन भस्मसात्कुर्यात्, एतेन ध्यामनमिति व्याख्यातम् । मारणं पिट्टनमुभयस्मिन् स्यात्, किमुक्तं भवति ? - सा क्षिप्तचित्तत्वेन परवशा इव स्वयमात्मानं मारयेत् पिट्टयेद्वा, यदि वा परं मारयेत् पिट्टयेद्वा, सा वा परेण मार्यते पिट्यते वेति । “तद्दोसा जं च सेसाणं" इति तस्याः क्षिप्तचित्ताया दोषाद् यच्च 'शेषाणां' साध्वीनां मारणं पिट्टनं वा । तथाहिसाक्षिप्तचित्ता सती यदा व्यापादयति पिट्टयति तदा परे स्वरूपमजानानाः शेषसाध्वीनामपि घात-प्रहारादिकं कुर्यु तन्निमित्तमपि प्रायश्चित्तमरक्षणे द्रष्टव्यम् । शेषाणि तु स्थानानि सुगमानीति न व्याख्यातानि ॥ यदुक्तं "तस्माद् रक्षन्ति यतनया" इति तत्र यतनामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org