________________
३७४
बृहत्कल्प-छेदसूत्रम् -३-६/२०५
यस्य सन्ति स श्रमणगुणमुक्तयोगी संसारप्रवर्धको भवति । ततो यः संयमदुर्बलो विहृतवान् स एव शोच्यः, भवदीयस्तु म्रात्रादि कालगतो ढश्चारित्रे ततः स परलोकेऽपि सुगतिभागिति न करणीयः शोकः ॥ सम्प्रति "जड्डादितिरिक्ख" इत्यस्य व्याख्यानार्थमाहजड्डादी तेरिच्छे, सत्थे अगनीय थणिय विज्जू य । ओमेडिसणता, चरियं पुव्वं परूवेउं ॥
[भा. ६२०४]
वृ- जड्डुः- हस्ती, आदिशब्दात् सिंहादिपरिग्रहः, तान् तिरश्चो ध्ष्ट्वा । किमुक्तं भवति ? - गजं वा मदोन्मत्तं सिंहं वा गुञ्जन्तं व्याघ्रं वा तीक्ष्णनखर - विकरालमुखं दृष्ट्वा काऽपि निर्ग्रन्थी भयतः क्षिप्तचित्ता भवति । काऽपि पुनः 'शस्त्राणि' खड्गादीन्यायुधानि ध्ष्ट्वा, इयमत्र भावना केनापि परिहासेनोद्गीर्ण खयं कुन्तं क्षुरिकादिक वाध्ष्टवा काऽपि 'हा ! मामेष मारयति' इति सहसा क्षिप्तचित्ता भवति । एवम् ‘अग्नी' प्रदीपनके लग्ने 'स्तनिते वा' मेघगर्जिते श्रुते विद्युतं वा दृष्ट्वा भयतः क्षिपतचित्ता भवेत् । एवंविधायां भयेन क्षिप्तचितायां को विधि ? इत्याह- 'अवमा' तस्य अपि लघुतरं क्षुल्लिका सा वक्ष्यमाणनीत्या तस्य सिंहादेः प्रतिभेषणां करोति, तत इतरा भयं मुञ्चतीति । या तु वादे पराजिताऽपमानतः क्षिप्तचित्तीभूता तस्याः प्रगुणीकरणार्थं यता चरिकया सा पराजिता तां पूर्वं 'प्ररूप्य' प्रज्ञाप्य तदनन्तरं तया स्वमुखोच्चरितेन वचसा क्षिप्तचित्ततोत्तारियतव्या ॥ अथापमनातः क्षिप्तचित्ततां भावयति
[भा. ६२०५ ] अवहीरिया व गुरुणा, पवत्तिनीए व कम्मि वि पमादे । वातम्मि वि चरियाए, परातियाए इमा जयणा ॥
वृ- 'गुरुणा' आचार्येणावधीरिता, अथवा प्रवर्तिन्या कस्मिंश्चित् प्रमादे वर्तमाना सती गाढं शिक्षिता भवेत् ततोऽपमानेन क्षिप्तचित्ता जायेत । यदि वा चरिकया वादे पराजिता इत्यपमानतः क्षिप्तचित्ता स्यात् । तस्यां च भयेन क्षिप्तचित्तायामियं यतना ॥
[ भा. ६२०६] कन्नम्मि एस सीहो, गहितो अह धारिओ य सो हत्थी । खुड्डुलतरिया तुज्झं, ते वि य गमिया पुरा पाला ॥
वृ- इह "पदैकदेशे पदसमुदायोपचारात्" "पाला" इत्युक्ते हस्तिपालाः सिंहपाला वा द्रष्टव्याः । तेऽपि 'पुरा' पूर्वं 'गमिताः' प्रतिबोधिताः कर्तव्याः, यथा - अस्माकमेका क्षुल्लिका युष्मदीयं सिंहं हस्तिनं वा दृष्ट्वा क्षोभमुपागता, ततः सा यथा क्षोभं मुञ्चति तथा कर्तव्यम् । एवं तेषु प्रतिबोधितेषु साक्षिप्तचित्तीभूता तेषामन्तिके नीयते, नीत्वा च तासां मध्ये या तस्या अपि क्षुल्लिकाया लघुतरी तया स सिंहः कर्णे धार्यते, हस्ती वा तया धार्यते । ततः सा क्षिप्तचित्ता प्रोच्यते-त्वत्तोऽपि या 'क्षुल्लकतरा' अतिसयेन लघुस्तया एष सिंहः कर्णे घृतः, अथवा हस्ती अनया घाटितः, त्वं तु बिभेषि किं त्वमेतस्या अपि भीरुर्जाता ? धाष्टर्यमवलम्ब्यतामिति ॥
[भा. ६२०७]
सत्थऽग्गी थंभेतुं पणोल्लणं नस्सते य सो हत्थी ।
थेरी चम्म विकड्डण, अलायचक्कं तु दोसुं तु ॥
वृ- यदि शस्त्र यदि वाऽग्निं दृष्टवा क्षिप्ता भवेत् ततः शस्त्रमग्निं च विद्यया स्तम्भित्वा तस्य पादाभ्यां प्रनोदनं कर्तव्यम्, भणितव्यं च तां प्रति- एषोऽस्माभिरग्नि शस्त्र च पादाभ्यां प्रणुन्नः, त्वं तु ततोऽपि विभेषीति । यदि वा पानीयेनार्द्रीकृतहस्तादिभि सोऽग्नि स्पृश्यते, भण्यते च - एतस्मादपि तव किं भयम् ? । तथा यतो हस्तिनस्तस्या भयमभूत् स हस्ती स्वयं पराङ्मुखो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org