________________
४३
उद्देशक ः ३, मूलं-९९, [भा. ४५८३] तथा च लोके प्राण्यङ्गत्वे समानेऽप्योदन-पकान्नादिकं भक्ष्यं मांस-वसादिकममक्ष्यम्, तक्रजलादिकं पेयं मद्य-रुधिरादिकमपेयम्, इत्यादीनि पृथग् व्यवस्थान्तराणि दृष्टानि; तथाऽत्राप्युदकसमारम्भादौ मन्तव्यानि।। गतमेकज्ञातम्, अथैकव्याकरणेन यथाधर्मोऽभिधीयतेतथादर्शयति[भा.४५८४] जंइच्छसि अप्पणतो, जंचन इच्छसि अप्पणतो।
तंइच्छ परस्स विया, एत्तियगं जिनसासनयं॥ वृ-यद्‘आत्मनः' स्वजीवस्य सुखादिकमिच्छसियच्चदुःखादिकमात्मनो नेच्छसितत् परस्यापि' आत्मव्यतिरिक्तस्य जन्तोःइच्छ,आत्मवत्परमपिपश्येतिभावः । एतावजिनशासन इयन्मात्रो जिनोपदेश इति ।। गाथया पुनरित्यं धर्म उपदिश्यते[भा.४५८५] सव्वारंभ-परिग्गहनिक्खेवो सव्वभूतसमया य ।
एकग्गमनसमाहाणया य अह एत्तिओ मोक्खो।। वृ-सर्वस्य-सूक्ष्म-बादराद्यशेषजीवविषयस्यारम्मस्य सर्वस्यच-सचित्ता-ऽचित्त-मिश्रमेदभिन्नस्य परिग्रहस्य यो निक्षेपः- संन्यासो या च सर्वभूतेषु समता या चैकाग्रमनःसमाधानता 'अथ' एष एतावान् मोक्ष उच्यते, कारणे कार्योपचाराद् एष मोक्षोपाय इत्यर्थ ॥ श्लोकेन यथा[भा.४५८६] सव्वभूतऽप्पभूतस्स, सम्मं भूताई पासओ।
पिहियासवस्स दंतस्स, पावं कम्मं न बंधई। वृ-पाठसिद्धः । ये तु संस्कृतरुचयस्तेषामित्थं गाथया श्लोकेन वा धर्मकथा क्रियते
व्रत-समित-कषायाणां, धारण-रक्षण-विनिग्रहाः सम्यक् ।
दण्डेभ्यश्चोपरमो, धर्म पञ्चोन्द्रियदमश्च।। यत्र प्राणिवधो नास्ति, यत्र सत्यमनिन्दितम् ।
यत्रात्मनिग्रहो दृष्टस्तं धर्ममभिरोचयेत् ॥ वृ-अथ किं कारणं स्थित्वा धर्म कथनीयः? इत्याशङ्कयाह[भा.४५८७] इरियावहियाऽवन्नो, सिटुंपि न गिण्हए अतो ठिच्चा।
. भद्दिड्डी पडिनीए, अभियोगे चउण्ह वि परेण ॥ वृ-ईर्यापथिकी-चङ्क्रमणक्रिया तां कुर्वन् यदि कथयति तदा लोकेऽवणों भवति-दुईष्टधर्मोणोऽमी यदेवं गच्छन्तो धर्मं कथयन्ति । अपि च-शिष्टमपि' कथितमपि धर्ममेवं श्रोता न गृह्णाति अतः स्थित्वा एकश्लोकादि कथनीयम् । अथापवादापवाद उच्यते-कश्चिद् भद्रको धर्मश्रद्धालुऋद्धिमान् धर्मं पृच्छति ततः सत्त्वानुकम्पया 'प्रवचनोपग्रहकरश्च भविष्यति' इति कृत्वा तिस्रश्चतस्त्रः पञ्च वा बहुतरा वा गाथा उपविश्य कथयितव्याः । प्रत्यनीको वा कश्चिद् व्यतिव्रजति तं प्रतीक्षमाणस्तावद् धर्मं कथयेद् यावदसौ व्यतीतो भवति । यद्वा स प्रत्यनीकः सहसा दृष्टो भवेत् ततो यः सलब्धिकः स उपशामनानिमित्तंबहुविधमुपदेशं दद्यात् । दण्डिकस्य वा अभियोगः' बलात्कारो भवेत् । किमुक्तं भवति?-एकश्लोकेन धर्मे उपदिष्टे दण्डिको यात्कथय कथय मम सम्प्रति महती श्रद्धा वर्तते; ततश्चतुर्णां श्लोकनां परतोऽपि कथयेत् ।। आहकीशी पुनः कथा कथयितव्या? कीशी वा न? इति उच्यते
[भा.४५८८] सिंगाररसुत्तुइया, मोहमई फुफुका हसहसेति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org