________________
उद्देशक : ६, मूलं- १९७, [भा. ६१३६ ]
अवमः प्राह- 'द्वितीयमपि' मृषावादव्रतं 'ते' तव नास्ति ।। एवंभणतस्तस्येयं प्रायश्चित्तरचना[ भा. ६१३७] वच्चति भणाति आलोय निकाए पुच्छिते निसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे ॥ [भा. ६१३८ ] मासो लहुओ गुरुओ, चउरो लहुगा य होंति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥
वृ- स एवमुक्त्वा ततो निवृत्त्याऽऽचार्यसकाशं व्रजति मासलघु । आगत्य भणति यथा-तेन दर्दुरो मारितः, एवंभणतो मासगुरु । योऽसावभ्याख्यातः स गुरूणां सकाशमागतः, आचार्यैश्वोक्तम्"आलोय "त्ति आर्य ! सम्यगालोचय, किं सत्यं भवता दर्दुरो मारितः ? ; स प्राह-न मारयामि, एवमुक्तेऽभ्याख्यानदातुश्चतुर्लघु। “निकाए”त्ति इतरो निकाचयति रानिकस्तु भूयोऽपि तावदेव भणति तदा चतुर्गुरु । अवमरात्निको भणति-यदि न प्रत्ययस्ततस्तत्र गृहस्थाः सन्ति ते पृच्छयन्ताम्, ततो वृषभा गत्वा पृच्छन्ति, पृष्टे च सति षड्लघु । गृहस्थाः पृष्टाः सन्तः “निसिद्धं” निषेधं कुर्वन्तिनास्माभिर्दर्दुरव्यपरोपणं कुर्वन् दृष्ट इति षड्गुरु । “साहु"त्ति ते साधवः समता आलोचयन्ति नापद्रावित इति तदा छेदः । “गिहि” त्ति अथासावभ्याख्यानदाता भणति - 'गृहस्थाः' असंयता यत् प्रतिभासते तद् अलीकं सत्यं वा ब्रुवते, एवंभणतो मूलम् । अथासौ भणति "मिलिय”त्ति गृहस्थाश्च यूयं चैकत्र मिलिता अहं पुनरेक इतिब्रुवतोऽनवस्थाप्यम् । सर्वेऽपि यूयं प्रवचनस्य बाह्या इतिभणतः पाराञ्चिकम्। एवमुत्तरोत्तरं वदतः पाराञ्चिकं यावत् प्रायश्चित्तप्रस्तारो भवति ।। अथेदमेव भावयति
[भा. ६१३९] किं आगओ सि नाहं अडामि पाणवहकारिणा सद्धिं । सम्म आलोय त्ति य, जा तिन्नि तमेव वियडेति ॥
३६१
वृ- रानिकं विना स एकाकी समायातो गुरुभिरुक्तः किमेकाकी त्वमागतोऽसि ? । स प्राहनाहं प्राणवधकारिणा सार्द्धमटामि । एवमुक्ते रानिक आगतो गुरुभिरुक्तः सम्यगालोचय, कोsपि प्राणी त्वया व्यपरोपितः ? न वा ? इति । स प्राह-न व्यपरोपितः । एवं त्रीन् वारान् यावदालोचाप्यते । यदि त्रिष्वपि वारेषु तदेव 'विकटयति' आलोचयति तदा परिस्फुटमेव कथ्यते ।
[भा. ६१४०] तुम किर दहुरओ, हओ त्ति सो वि य भणाति न मए त्ति । तेन परं तु पसंगो, धावति एक्के व बितिए वा ॥
वृ-किल इति द्वितीयस्य साधोर्मुखादस्माभिः श्रुतम् त्वया दर्दुरः 'हतः' विनाशितः । स प्राहन मया हत इति । 'ततः परम्' एवंभणनानन्तरं 'प्रसङ्गः ' प्रायश्चित्तवृद्धिरूपः 'एकस्मिन्' रानिके 'द्वितीये वा' अवमरानिके धावति । किमुक्तं भवति ? -यदि तेन रालिकेन सत्यनैव दर्दुरो व्यपरोपितः ततो यदि ‘सम्यगालोचय' इतिभण्यमानो भूयो भूयो निह्नुते तदा तस्य प्रायश्चित्तवृद्धिः । अथ तेन न व्यपरोपितः ततः 'इतरस्य' अभ्याख्यानं निकाचयतः प्रायश्चित्तं वर्द्धते ॥ इदमेव भावयति
[भा. ६१४१]
एक्कस्स मुसावादो, काउं निण्हाइणो दुवे दोसा । तत्थ वि य अप्पसंगी, भवति य एक्को व एक्को वा ॥
वृ- 'एकस्य' अभ्याख्यानदातुरेक एव मृषावादलक्षमो दोषः । यस्तु दर्दुरवधं कृत्वा निह्नुते
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org