________________
३६०
बृहत्कल्प-छेदसूत्रम् -३-६/१९७ वृ-इह प्रायश्चित्तंद्विधा-उद्धातमनुद्धातंच।उद्धातं-लघुकम्, तच्च लघुमासादि।अनुद्धातिकंगुरुकम्, तच्च गुरुमासादि।तदुभयमपि द्विधा-मिश्रंचशब्दाद्अमिश्रंच।मिश्रनाम-लघुमासादिकं तपः-कालयोरेकतरेण द्वाभ्यां वा गुरुकम्, गुरुमासादिकंवा तपस कालेन वा द्वाभ्यांवा लघुकम्। अमिश्रं तु लघुमासादिकं तपः-कालाभ्यां द्वाभ्यामपि लघुकम्, गुरुमासादिकं वा द्वाभ्यामपि गुरुकम् । उभयमपि च तपः-कालविशेषरहितंपुनरपि द्विधा-प्रसङ्गि अप्रसङ्गिच । प्रसङ्गि नामयद् अभीक्ष्णप्रतिसेवारूपेण शङ्का-भोजिका-घाटिकादिपरम्परारूपेण वा प्रसङ्गेन युक्तम्, तद्विपरीतमप्रसङ्गि। भूयोऽप्येतदेकैकं द्विधा-आपत्तिप्रायश्चित्तंदानप्रायश्चित्तं च । एतत्सर्वमपि प्रायश्चित्तं द्विपक्षेऽपि' श्रमणपक्षे श्रमणीपक्षे च वस्तु प्रतीत्य मन्तव्यम्। वस्तुनाम-आचार्यादीकं प्रवर्तिनीप्रभृतिकं च, ततो यस्य वस्तुनो यत् प्रायश्चित्तं योग्यं तत् तस्य भवतीति भावः । एष प्रायश्चित्तप्रस्तार उच्यते ।। “सम्मंअपडिपूरेमाणे"त्ति पदं व्याचष्टे[भा.६१३२] जारिसएणऽभिसत्तो, स चाधिकारी न तस्स ठाणस्स ।
सम्मं अपूरयंतो, पञ्चंगिरमप्पणो कुणति ॥ वृ- ‘याशेन' द१रमारणादिनाऽभ्याख्यानेन ‘सः' साधुः ‘अभिशप्तः' अभ्याख्यातः स तस्यस्थानस्य 'नाधिकारी' न योग्यःअप्रमत्तत्वात्; अतोऽभ्याख्यानं दत्त्वा सम्यग् 'अप्रतिपूरयन्' अनिर्वाहयन् आत्मनःप्रत्यङ्गिरांकरोति, तं दोषमात्मनो लगयतीत्यर्थः॥ कृता विषमपदव्याख्या भाष्यकृता । सम्प्रति नियुक्तिविस्तरः[भा.६१३३] छच्चेव य पत्थारा, पाणवह मुसे अदत्तदाने य।
अविरति-अपुरिसवाते, दासावातंच वतमाणे॥ वृ-षडेवप्रस्ताराः भवन्ति तद्यथा-प्राणवधवादं मृषावादवादंअदत्तादानवादमविरतिकावादमपरुषवादं दासवादं च वदति इति । तत्र प्राणवधवादे प्रस्तारं तावदभिधित्सुराह[भा.६१३४] दद्दुर सुणए सप्पे, मूसग पाणातिवादुदाहरणा।
एतेसिं पत्थारं, वोच्छामि अहानुपुव्वीए॥ वृ-प्राणातिपाते एतानि 'उदाहरणानि' निदर्शनानि भवन्ति-दर्दुरःशुनकः सर्पो मूषकश्चेति। "एतेषाम्' एतद्विषमयमित्यर्थः 'प्रस्तारं प्रायश्चित्तरचनाविशेषं यथानुपूर्व्या वक्ष्यामि॥
तत्र दर्दुरविषयं तावदाह[भा.६१३५] ओमो चोदिजंतो,दुपहियादीसु संपसारेति।
अहमविनंचोदिस्सं, न य लमति तारिसं छेड़ें। वृ-'अवमः' अवमरालिको रालिकेन दुःप्रत्युपेक्षितादिषु स्खलितेषु भूयोभूयो नोद्यमानः 'सम्प्रसारयति' मनसि पर्यालोचयति-अहमपि “णं" एनं रालिकंनोदयिष्यामि। एवं पर्यालोच्य प्रयत्नेन गवेषयन्नपि ताशं छिद्रं रानिकस्य न लभते॥ [भा.६१३६] अन्नेण घातिए दगुरम्मि दट्ठचलणं कतं ओमो।
उद्दवितो एस तुमे, न मि त्ति बितियं पिते नत्थी॥ वृ-अन्यदा च भिक्षादिपर्यटने अन्येन केनापि ददुरे घातिते रालिकेन च तस्योपरि 'चलनं' पाद कृतं दृष्टवाऽवमो ब्रवीति-एष दर्दुरस्त्वयाऽपद्रावितः । रालिको वक्ति-तमयाऽपद्रावितः।
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org