SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ६, मूलं - १९६, [भा. ६१२८] [भा. ६१२८ ] खामिय-वोसवियाई, उप्पाएऊण दव्वतो रुट्ठो । कारणदिक्खिय अनलं, आसंखडिउ त्ति धाडेति । वृ-यः कारणे अनलो दीक्षितस्तेन समं समापिते कार्ये क्षामित-व्युत्सृष्टान्यधिकरणान्युत्पाद्य 'द्रव्यतः ' दुष्टभावं विना 'रुष्टः' कुपितः, बहि कृत्रिमान् कोपविकारान् दर्शयन्नित्यर्थः, आसङ्खडिकोऽयं इति दोषमुत्पाद्य तमनलं शैक्षं 'घाटयति' गच्छाद् निष्काशयति ॥ ३५९ मू. (१९७) छ कप्पस्स पत्थारा पन्नत्ता, तं जहा-पाणाइवायस्स वायं वयमाणे, मुसावायस्स वायं वयमाणे, अदिन्नादाणस्स वायं वयमाणे, अविरइयावायं वयमाणे, अपुरिसवायं वयमाणे, दासवायं वयमाणे । इच्चेते छ कप्पस्स पत्थारे पत्थरित्ता सम्मं अप्पडिपूरेमाणे तट्ठाणपत्ते सिया ॥ वृ- अस्य सूत्रस्य सम्बन्धमाह [ भा. ६१२९] तुल्लहिकरणा संखा, तुल्लहिगारो व वादिओ दोसो । अहवा अयमधिगारो, सा आवत्ती इहं दानं ॥ वृ- 'द्वयोरपि' अनन्तर- प्रस्तुतसूत्रयोस्तुल्याधिकरणा सङ्ख्या, समानः षट्सङ्खयालक्षणोऽधिकार इत्यर्थः । यद्वा वाचिको दोषस्तुल्याधिकारः, उभयोरपि सूत्रयोर्वचनदोषोऽधिकृत इति भावः । अथवाऽयमपरोऽधिकार उच्यते- 'सा' पूर्वसूत्रोक्ता शोधिरापत्तिरूपा, इह तु तस्या एव शोधेर्दानमधिक्रियते ।। अनेम सम्बन्धेनायातस्यास्य व्याख्या कल्पः साधुसमाचारस्तस्य सम्बन्धेन तद्विशुद्धिकारणत्वात् 'प्रस्ताराः ' प्रायश्चित्तरचनाविशेषाः षट् प्रज्ञप्ताः । तद्यथा प्राणातपातस्य ‘वादं’ वार्तां वाचं वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्येकः १ । एवं मृषावादस्यवादं वदति द्वितीयः । अदत्तादानस्य वादं वदति तृतीयः । अविरति अब्रह्म, यद्वा न विद्यते विरतिरस्याः सा अविरतिका- स्त्री तद्वादं वदति चतुर्थः । अपुरुषः नपुंसकस्तद्वादं वदति पञ्चमः । दासवादं वदति षष्ठः । 'इति' इत्युपप्रदर्शने । एवंप्रकारानेतान् षट् कल्पस्य 'प्रस्तारान्' प्रायश्चित्तरचनाविशेषान् 'प्रस्तीर्य' अभ्युपगमत आत्मनि प्रस्तुतान् विधाय 'प्रस्तारयिता वा' अभ्याख्यानदाता साधुः सम्यग् 'अप्रतिपूरयन्' अभ्यख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुमशक्नुवन् तस्यैवप्राणातिपातादिकर्तुरिव स्थानं प्राप्तस्तत्स्थानप्राप्तः स्यात्, प्राणातिपातादिकारीव दण्डनीयो भवेदिति भावः । अथवा प्रस्तारान् 'प्रस्तीर्य' विरचय्याऽऽचार्येणाभ्याख्यानदाता 'अप्रतिपूरयन्' अपरापरप्रत्ययवचनैस्तमर्थं सत्यमुकुर्वन् तत्स्थानप्राप्तः कर्तव्य इति शेषः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तरमारभते तत् पदं प्रापणीय इति भावः । एष सूत्रार्थः ॥ अथ भाष्यकारो विषमपदव्याख्यामाह [भा. ६१३०] पत्थारो उ विरचना, सो जोतिस छंद गणित पच्छित्ते । पच्छित्तेन तु पगयं, तस्स तु भेदा बहुविगप्पा ॥ वृ- प्रस्तारो नाम विरचना, स्थापना इत्यर्थः । स च चतुर्द्धा - ज्योतिषप्रस्तारः छन्दः प्रस्तारो गणितप्रस्तारः प्रायश्चित्तप्रस्तारश्चेति । अत्र प्रायश्चित्तप्रस्तारेण प्रकृतम् । 'तस्य च ' प्रायश्चित्तस्यामी 'बहुविकल्पाः' अनेकप्रकारा भेदा भवन्ति ॥ तद्यथा [भा. ६१३१] उग्घातमनुग्घाते, मीसे यपसंगि अप्पसंगी य । आवजण दानाई, पडुच्च वत्युं दुपक्खे वी ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy