SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उद्देश : ४, मूलं- १२५, [भा. ५४३१] 'अश्रुतार्था' शैक्षा अपरिणामका वामा शृणुयुः, ततोऽन्यस्यां वसतौ वसामः । एवमन्यव्यपदेशेन निष्काशयति ॥ अथ तस्या वसतेः क्षेत्राद्वा निर्गन्तुं नेच्छति ततोऽयं विधि : [भा. ५४३२] खित्ताऽऽरक्खिनिवेयण, इयरे पुव्वं तु गाहिया समणा । विओ सो अचिरं, जह निज्जूंतो न चेतेती ॥ २१७ वृ-‘आरक्षिकः' दाण्डपाशिकस्तस्य निवेदनं क्रियते "खित्त” त्ति अस्माकं क्षिप्तचितः साधुः समस्ति तं वयमर्धरात्रे वैद्यसकाशं नेष्यामः, स यदि नीयमानः 'ह्रियेऽहं ह्रियेऽहम्' इत्यारटेत् ततो युष्माभिर्न किमपि भणनीयम् । 'इतरे' अगीतार्था श्रमणाः पूर्वमेव ग्राहिताः कर्तव्याःवयमाचार्यमेवं नेष्यामः, मा बोलं कुरुध्वम् । स चाचार्यश्चिरमाख्यायिकाः कथापयित्वा जागरितः सन् यदा निर्भरं सुप्तो भवति तदा नीयते यथा नीयमानो न किञ्चित् चेतयति ॥ [भा. ५४३३] निण्हयसंसग्गीए, बहुसो भन्नंतुवेह सो कुणइ । तुह किं ति वच्च परिणम, गता ऽऽगते नीनिओ विहिणा ॥ वृ- अथ निह्नवानां संसर्ग्याऽऽचार्यो न निर्गच्छति, बहुशो भण्यमानोऽप्युपेक्षां कुरुते, अथवा ब्रूयात्-य‍ - यद्यहं निह्नवसंसर्गं करोमि ततो भवतः किं दुःखयति ? व्रज त्वं यत्र गन्तव्यम् । एवं परिणामं गुरुणां ज्ञात्वा शिष्येण 'गता - SSगतेन' अन्यं गणं गत्वा शास्त्राण्यधीत्य भूय आगतेन निह्नवान् पराजित्याचार्यः 'विधिना' अनन्तरोक्तेन निष्काशितः कर्तव्यः ॥ [भा.५४३४] एसा विही विसज्जिए, अविसज्जिए लहुग दोस आणादी । सिं पि हुंति लहुगा, अविहि विही सा इमा होइ ।। वृ- एष विधिर्गुरुणा विसर्जिते शिष्येमन्तध्यः । अविसर्जितस्य तु गच्छतश्चतुर्लघु दोषाश्चाज्ञादयः । 'तेषामपि' प्रतीच्छतां चतुर्लघुकाः । एषोऽविधिरुक्तोऽतो विधिना गन्तव्यम् ॥ स चायं विधिर्भवति[भा. ५४३५] दंसणनिंते पक्खो, आयरि-उज्झाय-सेसगाणं च । एक्केक पंच दिवसे, अहवा पक्खेण सव्वे वि ॥ वृ- दर्शनप्रभावकाणां शास्त्राणामर्थाय निर्गच्छत एक पक्षमाचार्योपाध्याय शेषसाधूनां आपच्छनकालो भवति । तद्यथा - आचार्य पञ्च दिवसानापृच्छयते, यदि न विसर्जयति तत उपाध्यायेऽपि पञ्च दिवसान्, शेषसाधवोऽपि पञ्च दिवसान् । अथवा पक्षेण सर्वेऽपि पृच्छयन्ते । किमुक्तं भवति ? - दिने सर्वेऽपि पृच्छयन्ते यावत् पक्षः पूर्ण इति ॥ [भा. ५४३७] [भा. ५४३८ ] [भा. ५४३६ ] एतविहिआगतं तू, पडिच्छ अपडिच्छणे भवे लहुगा । अहवा इमेहिं आगत, एगागि (दि) पडिच्छणे गुरूगा || एगे अपरिणए या, अप्पाहारे य थेरए । गिलाणे बहरोगी य, मंदधम्मे य पाहुडे ॥ एतारिसं विओसज्ज, विप्पवासो न कप्पई । सीस-पडिच्छा - SSयरिए, पायच्छित्तं विहिज्जई ॥ बिइयपदमसंविग्गे, संविग्गे चैव कारणागाढे । नाऊण तरसभावं, होइ उ गमनं अनापुच्छा ॥ वृ-गाथाचतुष्टयमपि गतार्थम् ॥ गतं दर्शनार्थं गमनम् । अथ चारित्रार्थमाह [भा. ५४३९] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy