________________
२१६
बृहत्कल्प-छेदसूत्रम् - ३-४/१२५
स चाचार्यो दाक्षिण्येन तर्कग्रन्थाप्रवीणतया वा तूष्णीकस्तिष्ठति, तां च तदीयां प्रज्ञापनामसहमानः कश्चिद् विनेयश्चिन्तयति-अन्यं गणं गत्वा दर्शनप्रभावकानि शास्त्रणि पठामि येनामून् निरुत्तरान् करोमि । एवं विचिन्त्य स तथैव गुरुनापृच्छय तैर्विसर्जितो गच्छति ॥ इदमेव भावयति[भा. ५४२७] लोए विअ परिवादो, भिक्खुगमादी य गाढ चमदिंति । विप्परिणमंति सेहा, ओभाभिजंति सड्डा य ॥
वृ- भिक्षुकादीनां स्वसिद्धान्तं शिर उद्घाट्य प्ररुपयतामपि यदा सूरयो न किमपि ब्रुवते ततो लोकेऽपिच परिवादो जातः- एते ओदनमुण्डा न किमपि जानते, अमी तु सौगताः सर्वमवबुध्यन्ते । एवं ते भिक्षुकादयः परिवादं श्रुत्वा गाढतरं जैनशासनं चमढयन्ति, शैक्षाश्च विपरिणमन्ति, श्राद्धाश्च रक्तपटोपासकैरपभ्राज्यन्ते - एते श्वेतभिक्षवो बठरशिरोमणयश्चाटुकारिणः, यद्यस्ति सामर्थ्य ततोऽस्माकमुत्तरं प्रयच्छन्तु। अथवा तैः भिक्षुकादिभिः स्थलिकायामाचार्यस्यापि वण्टको निबद्धो वर्तते, भाग इत्यर्थः ॥ ततः
[ भा. ५४२८] रसगिद्धो व थलीए, परतित्थियतज्जणं असहमाणो । गमनं बहुस्सुतत्तं, आगमनं वादिपरिसा उ ॥
वृ- स आचार्यस्तस्यां स्थलिकायां 'रसगृद्धः' स्निग्ध-मधुराहारलम्पटः सामर्थ्ये सत्यपि न किञ्चिदुत्तरं प्रयच्छति । एवमादिकां परतीर्थिकतर्जनामसहमानः शिष्य आचार्यं विधिना पृष्टवा ‘निर्गतः’ अन्यगणगमनं कृतवान्, तत्र च तर्कशास्त्राणि श्रुत्वा बहुश्रुतत्वं तस्य सञ्जज्ञे, ततो भूयः स्वगच्छे आगमनम् आगतेन च पूर्वमाचार्या द्रष्टव्याः, ततोऽन्यस्यां वसतौ स्थित्वा या तत्र वादमार्गकुशला पर्षत् तां परिचितां कृत्वा राज्ञो महाजनस्य च पुरतः परतीर्थिकान् निष्पिष्टप्रश्रनव्याकरणान् करोति ॥
[भा.५४२९] वायपरायणकुविया, जति पडिसेहंति साहु लठ्ठे च । अह चिरनुगओ अम्हं, मा से पवत्तं परिहवेह ॥
वृ- वादे पराजयेन कुपिताः सन्तो यदि ते भिक्षुकादय आचार्यस्य तं वण्टं प्रतिषेधयन्ति ततः 'साधु' सुन्दरं 'लष्टं च' अभीष्टं जातमिति । अथ तत्र कोऽपि ब्रूयात्-एतस्य को दोषः ? चिरमनुगत एषोऽस्माकम् मा पूर्वप्रवृत्तं दातव्यस्य परिहापयत ॥ ततः को विधिः ? इत्याह
[भा. ५४३०] काऊण य प्पणामं, छेदसुतस्सा दलाह पडिपुच्छं । अन्नत्थ वसहि जग्गण, तेसिं च निवेदनं काउं ॥
वृ- गुरोः पदकमलस्य प्रमाणं कृत्वा वक्तव्यम्-छेदश्रुतस्य प्रतिपृच्छां मम प्रयच्छत । अत्र चागीतार्था शृण्वन्ति ततोऽन्यस्यां वसतौ गच्छावः । एवमुक्तोऽपि यदि तस्या वसतेर्न निर्गच्छति तत्राख्यानिकादिकथापनेन चिरं रात्रौ गुरवो जागरणं कारापणीयाः, 'तेषां च' अगीतार्थानाम् 'वमाचार्यमेवं नेष्यामः, भवद्भिर्बोलो न कर्तव्यः' इति निवेदनं कृत्वा गन्तव्यम् ॥ इदमेव व्याचष्टे[ भा. ५४३१] सद्दं च हेतुसत्यं, अहिजओ छेदसुत्त नई मे ।
एत्थ य मा असुतत्था, सुणिज्ज तो अन्नहिं वसिमो ॥
वृ- 'शब्दशास्त्रम्' ऐन्द्रादिकं 'हेतुशास्त्रं' सम्मत्यादिकम् एवमादिकं शास्त्रमधीयानस्य 'छेदसूत्र' निशीथादिकं सूत्रतोऽर्थतस्तदुभयतो वा मम नष्टं तस्य प्रतिपृच्छां मे प्रयच्छत । 'अत्र च' वसतौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org