________________
२१८
बृहत्कल्प-छेदसूत्रम् -३-४/१२५
[भा. ५४४० ] चरित्तट्ठ देसे दुविहा, एसणदोसा य इत्थिदोसा य । गच्छम्मिय सीयंते, आयसमुत्थेहिं दोसेहिं ॥
वृ-चारित्रार्थं गमनं द्विधा-देशदोषैरात्मसमुत्थदोषैश्च । देशदोषा द्विविधाः - एषणादोषाः स्त्रीदोषाश्च । आत्मसमुत्था अपि द्विधा- गुरुदोषा गच्छदोषाश्च । तत्र गच्छो यदि 'आत्मसमुत्यैः' चक्रवालसामाचारीवितथकरणलक्षणैर्दोषैः सीदेत् तत्र पक्षमापृच्छन्नास्ते, तत ऊर्ध्वं गच्छति ।। इदमेव व्याचष्टे
[भा. ५४४१ ] जहियं एसणदोसा, पुरकम्माई न तत्थ गंतव्वं । उदगपउरो व देसी, जहिं व चरिगाइसकिन्नो ॥
वृ-यत्र देशे पुरः कर्मादय एषणादोषा भवेयुः तत्र न गन्तव्यम् । यो वा उदकप्रचुरो देशः सिन्धुविषयवद् यो वा चरिकादिभिः परिव्राजिका-कापालिकी-तञ्च्चनिकादिभिर्बहुमोहाभिराकीर्णो विषयस्तत्रापि न गन्तव्यम् ॥ अथाशिवादिभिः कारणैस्तत्र गता भवेयुस्ततः
[भा. ५४४२ ] असिवाईहि गता पुन, तक्कज्जसमाणिया तओ निंति । आयरियमनिंते पुन, आपुच्छिउ अप्पण निंति ॥
वृ- अशिव- दुर्भिक्ष-परचक्रादिभिः कारणैस्तत्र गता अपि "तक्कज्जसमाणिय" त्ति प्राकृते पूर्वापरनिपातस्यातत्वात् समापिततत्कार्या, संयमक्षेत्रे यदाऽशिवादीनि स्फिटितानि भवन्तीति भावः, तदा 'ततः' असंयमक्षेत्राद् 'निर्यन्ति' निर्गच्छन्ति । यद्याचार्या केनापि प्रतिबन्धेन सीदन्तो न निर्गच्छेयुः ततो ये एको द्वौ बहवोऽसीदन्तस्ते गुरुमापृच्छ्य आत्मना निर्गच्छन्ति ॥ तत्र चायं विधिः
[भा. ५४४३]
दो से सा, इथं वज्जेज अट्ठ दिवसाई । गच्छम्मि होइ पक्खो, आयसमुत्थेगदिवसं तु ॥
वृ- एषणायामशुध्यमानायां यतनयाऽनेषणीयमपि गृह्णन् द्वौ मासौ गुरुमापृच्छन् प्रतीक्षते । अथ स्त्री-शय्यातरीप्रतिका उपसर्गयति आत्मनश्च ध्ढं चित्तं ततोऽष्टौ दिवसान् गुरुनापृच्छ्य ततस्तत् क्षेत्रं वर्जयेत् । यत्र च गच्छः सीदति तत्र पक्षमापृच्छय गन्तव्यम् । अथ स्त्रियां स्वयमध्युपपन्नस्तत ईशो आत्मसमुत्थे आगाढदोषे एकदिवसमापृच्छय गच्छति ॥
[भा. ५४४४] सेज्जयरिमाइ सएज्झए व आउत्थ दोस उभए वा । आपुच्छइ सन्निहियं, सन्नाइगतं व तत्तो उ ॥
वृ- अथात्मना शय्यातर्यादौ स्त्रियां 'सज्झिकायां वा' प्रातिवेश्मिक्यामतीवाध्युपपन्नः, 'उभयं वा' परस्परमध्युपपन्नं ततो यद्याचार्य सन्निहितस्तदा तमापृच्छ्य गच्छति । अथासन्निहितः संज्ञाभूम्याद गत आचार्यस्तदा तत एवानापृच्छया गच्छति, अपरं वा सन्निहितसाधुं भणति-मम वचनेन गुरुणामाप्रच्छनं निवेदनीयम् ॥
[ भा. ५४४५ ] एयविहिमागयं तू, पडिच्छ अपडिच्छणे भवे लहुगा । अहवा इमेहिं आगय, एगागि (दी) पडिच्छणे गुरुगा ॥ एगे अपरिणए या, अप्पाहारे य थेरए । गिलाणे बहुरोगी य, मंदधम्मे य पाहुडे ॥
[भा. ५४४६ ]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org