________________
उद्देशक :
: ३, मूलं १०४, [भा. ४७२९]
७३
यद्वाऽसावल्पश्रुतः, त्वं च ग्रहण-धारणासमर्थस्तस्य पार्श्वे गतः किं करिष्यसि ?, त्वमेव वा तं पाठयिष्यसीति । अथवा तस्य शिष्याणां निष्पत्तिरेव नास्ति, यं प्रव्राजयति स सर्वोऽपि प्रतिभज्यते म्रियते वेति । 'त्रिविधां वा' मनो-वाक्- कायभेदाद् ज्ञान-दर्शन- चारित्रभेदाद् वा त्रिप्रकारां गह वक्ष्यमाणरीत्या यदसौ करोति सा विपरिणामना मन्तव्या । एनां कुर्वतश्च तुर्गुरुकम्, न च तं शैक्षं लभते, अतो नैवं कथनीयम्, किन्तु दृष्टादिपदेषु सद्भावः कथनीयः । कथम् ? इत्याह[भा. ४७३०] जइ पुन तेन न दिट्ठा, नेव सुया पुच्छितो भणति अन्ने । जति वा गया विदेसं, तो साहइ जत्थ ते विसए ॥
वृ- योऽसौ शैक्षेण पृष्टस्तेन यदि ते सूरयो न दृष्टाः नैव श्रुतास्ततः पृष्टः सन् भणति अहं न जानामि, ‘अन्यान्’ अपरान् साधून् पृच्छ । अथ जानाति ततो यथावत् कथनीयम्। यदि विदेशं 'गतास्ततो यत्र 'विषये' देशे ते वर्त्तन्ते तं कथयति । अथ नाख्याति हीनाधिकं वाऽऽ ख्याति ततो विपरिणामना भवति ॥ [ भा. ४७३१]
सेसेसु उ सब्भावं, नातिक्खति मंदधम्मवज्जेसु । ते सावं, विप्परिणति हीनकहणे वा ॥
वृ- 'शेषेषु' ग्लानादिषु पदेषु मन्दधर्मवर्जेषु सद्भावं नाख्याति, यद्यप्यसौ ग्लानोऽल्पश्रुतो वा शिष्यनिष्पत्तिर्वा तस्य नास्ति तथापि तन्न कथनीयम् । यस्तु मन्दधर्मा पार्श्वस्थादिस्तत्र सद्भावः कथनीयः, मा संसारपारगन्तुकामः सुतरां संसारे पतिष्यतीति कृत्वा । यस्तु ज्ञा-दर्शन-चारित्रतपः सम्पन्नो वादी धर्मकथी सङ्ग्रहोपग्रहकारी तद्विषयं सद्भावं यदि 'गूहयति' अपलपति हीनकथनं वा करोति, अधिकमप्यन्याचार्येभ्यो हीनं कृत्वा कथयतीत्यर्थ, एषा विपरिणामना मन्तव्या ॥ अथ त्रिविधां गर्हां व्याचिख्यासुस्तत्स्वरूपं तावदाह
[भा. ४७३२] सीसोकंपण गरिहा, हत्थ विलंबिय अहो य हक्कारे । वेला कन्नाय दिसा, अच्छतु नामं न घेत्तव्वं ॥
वृ- गर्हा नाम शैक्षेण पृष्टः सन् शीर्षावकम्पनं करोति, हस्तौ वा धुनीते, विलम्बितानि वा करोति- हस्तौ वौष्ठौ वा विलम्बयतीत्यर्थः, यद्वा ब्रवीति - अहो ! प्रव्रज्या अहो ! प्रव्रज्या, हाकारं वा करोति-हा ! हा ! कष्टं यदेवं नष्टो लोकः, "वेल "त्ति नामापि तस्य न वर्त्ततेऽस्यां वेलायां ग्रहीतुमिति, कर्णौ वा तदीयनामग्रहणे स्थगयति, यस्यां वा दिशि स तिष्ठति तस्यां न स्थातव्यमिति ब्रवीति, उपलक्षणत्वाद् अक्षिणी वा निमीलयति, यद्वा नामापि तस्य निरन्नैर्य ग्रहीतव्यम्, अत आस्तामेतद्विषयं पृच्छादिकमिति ॥
[भा. ४७३३]
नाणे दंसण चरणे, सुत्ते अत्थे य तदुभए चेव । अह होति तिहा गरहा, कायो वाया मणो वा वि ॥
वृ-ज्ञाने दर्शने चारित्रे चेति त्रिविधा गर्हा भवति तत्र ज्ञानगर्हा नाम नटपठितेनेव किं तदीयेन ज्ञानेन ?, दर्शनगर्हा तु मिथ्याष्टिर्नास्तिकप्रायोऽसौ, चारित्रगर्हा सातिचारचारित्रोऽचारित्री वाऽसौ । अथवा सूत्रेऽर्थे तदुभये चेति त्रिविधा गर्हा-तत्र सूत्रं तस्य शङ्कित स्खलितम् अर्थं पुनरवबुध्यते १ यद्वाऽर्थं नावबुध्यते सूत्रं पुनरागच्छति २, उभयमपि वा तस्याविशुद्धं न जानाति वा किमपीति ३ । अथवा काय वाङ्-मनोभेदात् त्रिधा गर्हा-तत्र कायगर्हा तेषामाचार्याणां
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org