________________
३३२
-
बृहत्कल्प-छेदसूत्रम् -३-५/१९१ ___आहारो एगंगिओ, चउब्विहो जंवऽतीइ तहिं॥ वृ-परिवासितस्याहारस्य 'मार्गणा' विचारणा कर्तव्या। तत्र शिष्यः प्राह-वयं तावदेतदेवन जानीमः-को नामाहारः ? को वाऽनाहारः ? इति । सूरिराह-'एकाङ्गिकः' शुद्ध एव यः क्षुधां शमयति स आहारो मन्तव्यः । स चाशनादिकश्चतुर्विधः, यद्वा तत्राहारेऽन्यद् लवणादिकं 'आतियाति' प्रविशति तदप्याहारो मन्तव्यः॥अथैकाङ्गिकं चतुर्विधमाहारं व्याचष्टे[मा.५९९९] कूरो नासेइ छुहं, एगंगी तक्क-उदग-मज्जाई।
खाइमे फल-मंसाई, साइमे महु-फाणियाईणि ॥ वृ-अशने कूरः “एकाङ्गिकः'शुद्ध एव क्षुधं नाशयति। पाने तक्रोदक-मद्यादिकमेकाङ्गिकमपि तृषं नाशयति आहारकार्यं च करोति । खादिमे फल-मासादिकं स्वादिमे मधु-फाणितादीनि केवलान्यप्याहारकार्यं कुर्वन्ति ॥ “जं वऽईइ तहिं" ति पदं व्याख्यातिबा (६०००] जंपुन खुहापसमणे, असमत्थेगंगि होइलोणाई।।
तंपिय होताऽऽहारो, आहारजुयं व विजुतं वा ।। वृ-यत् पुनरेकाङ्गिकंक्षुधाप्रशमनेऽसमर्थं परमाहारे उपयुज्यते तदप्याहारेण संयुक्तमसंयुक्तं वा आहारो भवति । तच्च लवणादिकम् । तत्राशने लवण-हिङ्गु-जीरकादिकमुपयुज्यते॥ [भा.६००१] उदए कप्पूराई, फलि सुत्ताईण सिंगबेर गुले।
नय तानि कविंति खुहं, उवगारित्ता उ आहारो॥ वृ-उदके कर्पूरादिकमुपयुज्यते, आम्रादिफलेषु सुत्तादीनि द्रव्याणि, 'शृङ्गबेरे च' शुण्ठयां गुल उपयुज्यते । न चैतानि कर्पूरादीनि क्षुधां क्षपयन्ति, परमुपकारित्वादाहार उच्यते । शेषः ‘सर्वोऽप्यनाहारः॥ [भा.६००२] अहवा जं भुक्खत्तो, कद्दमउवमाइ पक्खिवइ कोट्टे ।
___ सव्वो सो आहारो, ओसहमाई पुनो भइतो॥ वृ-अथवा बुभुक्षया आर्त यत् कर्दमोपभया मृदादिकं कोठे प्रक्षिपति । कर्दमोपमा नाम"अपि कर्दमपिण्डानां, कुर्यात् कुक्षि निरन्तरम् ।" स सर्वोऽप्यार उच्यते । औषधादिकं पुनः 'भक्त' विकल्पितम्, किञ्चिदाहारः किञ्चिच्चानाहार इत्यर्थः । तत्र शर्करादिकमौषधमाहारः, सर्पदष्टादेमृत्तिकादिकमौषधमनाहारः॥ . [भा.६००३] जंवा भुक्तस्स उ, संकसमाणस्स देइ अस्सातं ।
सव्वो सो आहारो, अकामऽनिलैंचऽनाहारो॥ वृ- यद् वा द्रव्यं बुभुक्षार्तस्य ‘सङ्कषतः' ग्रसमानस्य कवलप्रक्षेपं कुर्वते इत्यर्थः 'आस्वादं' रसनालादकं स्वादं प्रयच्छति स सर्व आहारः । यत् पुनः ‘अकामम्' अम्हवहरामीत्येवमनभिलषणीयम् ‘अनिष्टं च' जिह्वाया अरुच्यम् ईशं सर्वमनाहारो भण्यते॥
तच्चानाहारिममिदम्[भा.६००४] अनहारो मोय छल्ली, मूलं च फलं च होतऽणाहारो।
सेस तय-भूइ-तोयं बिंदुम्मि व चउगुरू आणा॥ वृ-'मोकं कायिकी 'छल्ली' निम्बादित्वग् 'मूलंच' पञ्चमूलादिकं फलंच' आमलक-हरीतक
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org