________________
उद्देशक : ५, मूलं- १९०, [भा. ५९९३]
३३१
साधूनां ददाति भणति च स्तोकमेवेदमौषधमेतावदेवासीत्, नातः परमन्यदस्तीत्यर्थः, अतः 'लघु' शीघ्रं नयत । किमर्थमित्थं कथयति ? इत्याह- मा सागारिकः 'ममापि एतदौषधं प्रयच्छत' इत्येवं मार्गयेत् । यदा तु 'नास्त्यतः परम्' इति प्रतिषेधः कृतस्तदा व्यवच्छेदः कृतो भवति, भूयो मार्गयतीत्यर्थः ॥
[भा. ५९९४] न वि ते कहंति अमुगो, खइओ न वि ताव एय अमुईए । घेत्तुं नयनं खिष्पं, ते वि य वसहिं सयमुर्वेति ॥
वृ-ते साधवो न कथयन्ति, यथा-अमुकः साधुरहिना स्वादितः । ता अप्यार्यिका न कथयन्ति, यथा एतन्मोकममुकस्याः सत्कमिति । गृहीत्वा च क्षिप्रं नयनं कर्तव्यम् । पूर्वोक्तेन च विधिना ते ‘स्वकाम्’ आत्मीयां वसतिम् उपयान्ति ।। आह-'यदि' अमुकः साधुर्दष्टः, अमुकस्या वा मोकमिदम्' इति कथ्यते ततः को दोषः ? इत्याह
[ भा. ५९९५ ]
जायति सिनेहो एवं भिन्नरहस्सत्तया य वीसंभो ।
तम्हा न कहेयव्वं, को व गुमो होइ कहिएणं ॥
वृ- एवं कथ्यमाने तयोः स्नेहो जायते, भिन्नरहस्यता च भवति, रहस्ये च भिन्ने विश्रम्भो भवति । यत एते दोषास्तस्माद्न कथयितव्यम् । को वा गुणस्तेन कथितेन भवति ? न कोऽपीत्यर्थः । यदा संयती दीर्घजातीयेन दष्टा भवति तदाऽयं विधिः
[ भा. ५९९६ ] सागारिसहिय नियमा, दीवगहत्था वए जईनिलयं । सागरयं तु बोहे, सो विजई स एव य विही उ ।।
वृआर्यिका नियमात् 'सागारिकसहिताः शय्यातरसहायाः सभये च दीपकहस्ता यतीनां निलयं व्रजेयुः । स च संयतीसागारिक इतरं संयतसागारिकं बोधयति । सोऽपि प्रतिबुद्धः साधून् बोधयति । अत्रापि स एव विधिर्मोकदाने द्रष्टव्यः ॥
मू. (१९१) नो कप्पइ निग्गंथाण वा निग्गंधीण वा पारियासियस्स आहारस्स जाव तयप्पमाणमित्तमवि भूइप्पमाणमित्तमवि बिदुप्पमाणमित्तमवि आहारं आहारित्तए, नन्नत्थ आगाढेसु रोगायंकेसु ॥
वृ- अस्य सूत्रस्य सम्बन्धमाह
[भा. ५९९७] उदिओऽयमनाहारो, इमं तु सुत्तं पडुच्च आहारं । अत्थे वा निसि मोयं; पिज्जति सेसं पिमा एवं ॥
वृ- 'अ' मोकलक्षणोऽ नाहारः पूर्वसूत्रे 'उदितः' भणितः, इगदं तु सूत्रं आहारं प्रतीत्यारभ्यते । अर्थतो वा 'निशि मोकं पीयते' इत्युक्म् अतः शेषमपि आहारादिकमेवं मा रात्रौ आहारयेदिति प्रस्तुतं सूत्रमारभ्यते ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा ‘परिवासितस्य’ रजन्यां स्थापितस्याहारस्य मध्यात् त्वक्प्रमाणमात्रमपि भूतिप्रमाणमात्रमपि बिन्दुप्रमाणमात्रमपि यावदाहारमाहर्तुम् । इह त्वक्प्रमाणमात्रं नाम-तिलतुषत्रिभागमात्रमुतञ्चाशनस्य घटते, भूतिप्रमाणमात्रं सक्तुकादीनां नेयम्, बिन्दुप्रमाणमात्रं पानकस्य । इदमेवापवदति - आगाढेभ्यो रोगा SSतभ्योऽन्यत्र न कल्पते, तेषु पुनः कल्पते इति सूत्रार्थः ॥ अथ निर्युक्तिविस्तरः[भा. ५९९८] परिवासियआहारस्स मग्गणा आहारो को भवे अनाहारो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org