________________
उद्देश : ५, मूलं - १९१, [भा. ६००४]
३३३
बिभीतकादिकम् एतत् सर्वमनाहारो भवतीति चूर्णि । निशीथचूर्णी तु "या निम्बादीनां 'छल्ली' त्वग् यच्च तेषामेव निम्बोलिकादिकं फलं यच्च तेषामेव मूलम्, एवमादिकं सर्वमप्यनाहारः" इति व्याख्यातम् । “सेसं” ति ‘शेषम्' आहारः । तस्याहारस्य परिवासितस्य यदि तिलतुषत्वग्मात्रमप्याहरति, सक्तुकादीनां शुष्कचूर्णानामेकस्यामङ्गुयावती मूर्तिमात्रा लगति तावन्मात्रमपि यदि अश्नाति, तोयस्य-पानस्य बिन्दुमात्रमपि यद्यापिबति तदा चतुर्गुरु, आज्ञा च तीर्थकृतां कोपिता भवति । एते चापरे दोषाः - [भा. ६००५]
मिच्छत्ता ऽसंचइए, विराधना सत्तु पाणजाईओ ।
सम्मुच्छणा य तक्कण, दवे य दोसा इमे होंति ।
वृ- अशनादि परिवास्यमानं दृष्ट्वा शैक्षोऽन्यो वा मिथ्यात्वं गच्छेत्, उड्डाहं वा कुर्यात् - अहो ! अमी असञ्चयिकाः। परिवासिते तु संयमा-ऽऽत्मविराधना भवति । सक्तुकादिषु धार्यमाणेषु ऊरणिकादयः प्राणजातयः सम्मूर्च्छन्ति, पूपलिकादिषु लालादिसम्मूर्च्छना च भवति, उन्दरो वा तंत्र 'तर्कणम्' अभिलाषं कुर्वन् पार्श्वतः परिभ्रमनं माराजारादिना भक्ष्यते, एवमादिका संयमविराधना । आत्मविराधना तु तत्राशनादौ लालाविषः सर्वो लालां मुञ्चेत्, त्वग्विषो वा जिघ्रन् निश्वासेन विषीकुर्यात्, उन्दरो वा लालां मुञ्चेत् । द्रवे चाहारे एते वक्ष्यमाणा दोषा भवन्ति ।। अथ "मिच्छत्तमसंचइय" त्ति पदं व्याख्याति
[भा. ६००६] सेह गिहिणा व दिट्ठे, मिच्छत्तं कहमसंचया समणा । संचयमिणं करेंती, अन्नत्थ वि नून एमेव ॥
वृ- शैक्षेण गृहिणा वा केनापि तत्राशनादौ परिवासिते दृष्टे मिथ्यात्वे भवेत्-एवंविधं सञ्चयं ये कुर्वन्ति कथं ते श्रमणा असञ्चया भवन्ति ? । यथा “सर्वस्माद् रात्रिभोजनाद् विरमणम्" इत्यभिग्रहं गृहीत्वा लुम्पन्ति तथा 'नून्' मिति वतिर्कयाम्यहम् - "अन्यत्रापि " प्राणिवधादावेवमेव समाचरन्ति ।। अथ 'द्रवे दोषा अमी भवन्ति' इति पदं व्याचष्टे
[भा. ६००७]
निद्धे दवे पणीए, आवजण पान तक्कणा झरणा ।
आहारे दिट्ठ दोसा, कप्पर तम्हा अनाहारो ॥
वृ- इह वक्ष्यमाणे अभ्यङ्गनसूत्रे भणितं यद् घृतादिकं तैल-वसावर्जितं अद्रवं भवति तदेव स्निग्धमुच्यते । यत् तु सौवीरद्रवादिकं अलेपकृतं यच्च दुग्ध-तैल-वसा - द्रवघृतादिकं लेपकृतं तदुभयमपि द्रवमित्युच्यते ॥ तथा चाह
[भा. ६००८] सुत्तभणियं तु निद्धं, तं चिय अदवं सिया अतिल्ल-वसं । सोवीरग-दुद्घाई, दवं अलेवाड लेवाडं ॥
वृ- व्याख्यातार्था । प्रणीतं नाम- गूढस्नेहं घृतपूरादिकं आर्द्रखाद्यकम्, यद्वा बहि स्नेहेन प्रक्षितं मण्डकादि अपरं वा स्नेहावगाढं कुसणादि प्रणीतमुच्यते । तथा चाह
[भा. ६९०९]
गूढसिनेहं उल्लं, तु खज्जगं मक्खियं व जं बाहिं ।
नेहागाढं कुसणं, तु एवमाई पणीयं तु ॥
वृ- गतार्था । एवंविधे स्निग्धे द्रवे प्रणीते च रात्रौ स्थापिते कीटिकादयः प्राणजातीया आपद्यन्ते, पतन्तीत्यर्थः, तत्र गृहकोलिकादितर्कणपरम्परा वक्तव्या । "झरणा य" त्ति स्यन्दमाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org