________________
उद्देशक : ६, मूलं-२१३, [भा. ६२८५]
३९१
मां ग्लानां सतीं प्रतिचरिष्यति' इतिनिमित्तं द्व्यक्षरिका दीक्षिता भवति, सा च पश्चाद् दायकैः प्रतिगृह्येत तस्या वोत्तमार्थप्रतिपन्नाया मूलं 'आयान्ती' आगच्छन्ती बोधिकादिना स्तेनेन यदि ह्रियते अतस्तां प्रति अर्थजातसूत्रावकाशः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-सा च प्राग्वत् ॥ साम्प्रतमर्थजातशब्दव्युत्पत्तिप्रतिपादनार्थमाह
[भा. ६२८६ ]
अद्वेण जीए कज्जं, संजातं एस अट्ठजाता तु । तं पुन संजमभावा, चालिजंती समवलंबे ॥
वृ- 'अर्थेन' अर्थितया सञ्जातं कार्यं यया यद्वा अर्थेन द्रव्येण जातम् उत्पन्नं कार्यं यस्याः सा अर्थजाता, गमकत्वादेवमपि समासः । उपलक्षणमेतत्, तेनैवमपि व्युत्पत्ति कर्तव्या - अर्थ - प्रयोजनं जातोऽस्या इत्यर्थः जाता । कथंपुनरस्या अवलम्बनं क्रियते ? इत्याह- 'तां पुनः ' प्रथमव्युत्पत्तिसूचितां संयमभावात् चाल्यमानां द्वितीय तृतीयव्युत्पत्तिपक्षे तु द्रव्याभावेन प्रयोजनानिष्पत्त्या वा सीदन्तीं 'समवलम्बेत' साहाय्यकरणेन सम्यग् धारयेत्, उपलक्षणत्वाद् गृह्णीयादपि ।। अथ नियुक्तिकारो येषु स्थानेषु संयमस्थिताया अप्यर्थजातमुत्पद्यते तानि दर्शयितुमाह
[भा. ६२८७ ] सेवगभज्जा ओमे, आवन्न अनत्त बोहिये तेने । एतेहि अट्ठजातं, उप्पज्जति संजमठिताए ॥
वृ- 'सेवकभार्यायां ' सेवकभार्याविषयम्, एवम् 'अवमे' दुर्भिक्षे, “आवन्ने” ति दासत्वप्राप्तायाम्, “अनत्ते”ति ऋणार्तायां परं विदेशगमनादुत्तमर्णेनानाप्तायाम्, तथा 'बोधिका' अनार्या म्लेच्छाः 'स्तेनाः' आर्यजनपदजाता अपि शरीरापहारिणस्तैरपहरणे च, एतैः कारणैरर्थतं संयमस्थिताया अपि उत्पद्यते । एष निर्युक्तिगाथासङ्क्षेपार्थः । साम्प्रतमेनामेव विवरीषुः सेवकभार्याद्वारमाह[भा. ६२८८] पियविप्पयोगदुहिया, निक्खंता सो य आगतो पच्छा । अगिलाणिं च गिलाणिं, जीवियकिच्छं विसज्जेति ॥
वृ- कोऽपि राजादीनां सेवकः, तेन राजसेवाव्यग्रेणात्मीया भार्या परिष्ठापिता, ततः सा प्रियविप्रयोगदुःखिता 'निष्क्रान्ता' तथारूपाणां स्थविराणामन्तिके प्रव्रजिता, स च पुरुषः पश्चात् तयाऽर्थी जातस्ततस्तस्याः सकाशमागतः पुनरपि तां मार्गयति ततः को विधि ? इत्याहअग्लानामपि तां ‘ग्लानां' ग्लानवेषां कुर्वन्ति, विरेचनादीनि च तस्याः क्रियन्ते, ततोऽसौ 'जीवितकृच्छ्रां' 'कृच्छ्रेणेयं जीवति' इतिबुद्धया विसर्जयति । अत्रैव द्वितीयमुदाहरणमाह[भा. ६२८९ ] परिग्गहियागणियाऽविसज्जिया सामिणा विनिक्खता ।
बहुगं मे उवउत्तं, जति दिज्जति तो विसज्जेमि ॥
वृ- न विद्यते परिग्रहः कस्यापि यस्याः साऽपरिग्रहा, सा चासौ गणिका चापरिग्रहगणिका, सायेन सममुषितवतीस देशान्तरं गतः, ततस्तेन अविसर्जिता सती 'विनिष्क्रान्ता' प्रव्रजिता । अन्यदा च स स्वामी समागतो भणति बहुकं 'मे' मदीयं द्रव्यमनया 'उपयुक्तम्' उपयोगं नीतम्, भुक्तमित्यर्थः, तद् यदि दीयते ततो विसृजामि । एवमुक्ते यत् कर्तव्यं स्थविरैस्तदाह[भा. ६२९० ] सरभेद वन्नभेदं, अंताणं विरेयणं वा वि । वरधनुग पुस्सभूती, गुलिया सुहुमे य झाणम्मि ।।
वृ-गुटिकाप्रयोगतस्तस्या- स्वरभेदं वर्णभेदं वा स्थविराः कुर्वन्ति यथा सं तां न प्रत्यभिजानाति । यदि वा ग्रामान्तरादिप्रेषणेन 'अन्तर्धानं' व्यवधानं क्रियते । अथवा तथाविधौषधप्रयोगतो विरेचनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org