________________
३९२
बृहत्कल्प-छेदसूत्रम् -३-६/२१३
कार्यते येन सा ग्लानेव लक्ष्यते, ततः 'एषा कृच्छ्रेण जीवति' इति ज्ञात्वा स तां मुञ्चति । अथवा शक्ती सत्यां यथा ब्रह्मदत्तहिण्डयां धनुपुत्रेण वरधनुना मृतकवेषः कृतस्तथा निश्चला निरुच्छ्वासा सूक्ष्ममुच्छ्वसनं तिष्ठति येन मृतेति ज्ञात्वा तेन विसृज्यते । यदि वा यथा पुष्यभूतिराचार्यः सूक्ष्मे ध्याने कुशलः सन् ध्यानवशात् निश्चलः निरुच्छ्वासः स्थितः तथा तयाऽपि सूक्ष्मध्यानकुशलया सत्या तथा स्थातव्यं यथा स मृतेत्यवगम्य मुञ्चति । एतेषां प्रयोगाणामभावेअनुसिट्ठिमनुवरंतं, गर्मेति नं मित्त-नातगादीहिं । एवं पि अठायंते, करेंति सुत्तम्मि जं वृत्तं ॥
[ भा. ६२९१]
वृ- अनुशिष्टिस्तस्य दीयते । तया यदि नोपरतस्ततस्तस्य पुरुषस्य यानि मित्राणि ये च ज्ञातयस्तैः आदशब्दाद् अन्यैश्च तथाविधैः स्थविरास्तं 'गमयन्ति' बोधयन्ति येन स तस्या मुत्कलनं करोति । एवमप्यतिष्ठति तस्मिन् यदुक्तं सूत्रे तत् कुर्वन्ति । किमुक्तं भवति ? - अर्थजातमपि दत्त्वा सा तस्मात् पुरुषाद् मोचयितव्य । एतत् तस्याः सूत्रोक्तमवलम्बनं मन्तव्यम् ।। गतं सेवकभार्याद्वारम् ।
अथावमद्वारमाह
[भा. ६२९२] सकुडुंबो मधुराए, निक्खिविऊणं गयम्मि कालगतो । ओमे फिडित परंपर, आवन्ना तस्स आगमनं ॥
वृ - मथुरायां नगर्यां कोऽपि वणिक् सकुटुम्बोऽपि प्रविव्रजिषुरव्यक्तां दारिकां मित्रस्य गृहे निक्षिप्य ततः प्रव्रज्यां प्रतिपद्यान्यत्र गतः । गते च तस्मिन् स मित्रभूतः पुरुषः कालगतः । ततस्तस्य कालगमनानन्तरं 'अवमे' दुर्भिक्षे जाते सति तदीयैः पुत्रैरनाद्रियमाणा सा दारिका ततो गृहात् 'स्फिटिता' परिभ्रष्टा सती परम्परकेण दासत्वमापन्ना । तस्य च पितुर्याथाविहारक्रमं विहरतस्तस्यामेव मथुरायामागमनम् । तेन च तत् सर्वं ज्ञातम् ॥ सम्प्रति तन्मोचने विधिमाह
[भा. ६२९३ ] अनुसासन कह ठवणं, भेसण वैवहार लिंग जं जत्थ । ISSभोग गवेसण, पंथे जयणा य जा जत्थ ।।
वृ- पूर्वमनुशासनं तस्य कर्तव्यम् । ततः कथाप्रसङ्गेन कथनं स्थापत्यापुत्रादेः करणीयम् । एवमप्यतिष्ठति यद् निष्क्रामता स्थापितं द्रव्यं तद् गृहीत्वा समर्पणीयम् । तस्याभावे निजकानां तस्य वा 'भेषणं' भापनमुत्पादनीयम् । यदि वा राजकुले गत्वा व्यवहारः कार्यः । एवमप्यतिष्ठति यद्यत्र लिङ्गं पूज्यं तत्र तत्परिगृह्य सा मोचनीया । तस्यापि प्रयोगस्याभावे दूरेण उच्छिन्नस्वामिकतया दूरदेशव्यवधानेन वा यद् निधानं तस्याभोगः कर्तव्यः । तदनन्तरं तस्य ' गवेषणं' साक्षान्निरीक्षणं करणीयम् । गवेषणाय च गमने 'पथि' मार्गे यतना यथा ओघनिर्युक्तौ उक्ता तथा कर्त्तव्या । याच यत्र यतना साऽपि तत्र विधेया यथासूत्रमिति द्वारगाथासङ्क्षेपार्थः ॥ साम्प्रतमेनामेव विवरीषः प्रथमतोऽनुशासन-कथनद्वारे प्राह
[ भा. ६२९४] निच्छिन्ना तुज्झ घरे, इसिकन्ना मंच होहिती धम्मो । सेहोव विचित्तं तेनव अन्त्रेण वा निहितं ॥
वृ- एषा ऋषिकन्या तव गृहेऽवमादिकं समस्तमपि निस्तीर्णा अधुना व्रतग्रहणार्थमुपिष्ठते अतो मुञ्चैनाम्, तव भूयान् धर्मो भविष्यति । एतावता गतमनुशासनद्वारम् । तदनन्ता कथनमिति स्थापत्यापुत्रकथा कथनीया यथा स स्थापत्यापुत्रो व्रतं जिघृक्षुर्वासुदेवेन महतरं निष्क्रमणमहिम्ना निष्क्राम्य पार्श्वस्थितेन व्रतग्रहणं कारितः एवं युष्माभिरपि कर्तव्यम् ।। अथ स्थापितद्वारम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org