________________
३९०
बृहत्कंल्प-छेदसूत्रम् - ३-६/२१२
वृ- अस्य सूत्रस्य सम्बन्धमाह
[भा. ६२८१] पच्छित्तं इत्तिरिओ, होइ तवो वन्निओ य जो एस। आवकथितो पुन तवो, होति परिना अनसनं तु ॥
वृ- 'प्रायश्चित्तं' प्रायश्चित्तरूपं यद् एतत् तपोऽनन्तरसूत्रे वर्णितम् एतत् तप इत्वरं भवति, यत् पुनः परिज्ञारूपं तपोऽनशनं तद् यावत्कथिकम्, तत इत्वरतपः प्रतिपादनानन्तरं यावत्कथिकतपःप्रतिपादनार्थमधिकृतं सूत्रम् ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या- प्राग्वत् । नवरम्-भक्तं च पानं च भक्त पाने ते प्रत्याख्याते यया सा तथोक्ता । क्तान्तस्य परनिपातः सुखादिदर्शनात् ॥ अत्र भाष्यम्[भा. ६२८२]
अहं वा उं वा, समणीणं विरहिते कहेमाणो । मुच्छाए विपडिताए, कप्पति गहणं परिन्नाए ।
वृ- 'श्रमणीनाम्' अन्यासां साध्वीनां 'विरहिते' अशिवादिभि कारणैरभावे एकाकिन्या आर्यिकाया भक्त - पानप्रत्याख्याताया अर्थं वा हेतुं वा कथयतो निर्ग्रन्थस्य यदि सा मूर्च्छया विपतेत्, ततो मूर्च्छया विपतितायास्तस्याः “परिन्नाए "त्ति 'परिज्ञायाम्' अनशने सति कल्पते ग्रहणम्, उपलक्षणत्वाद् अवलम्बनं वा कर्तुम् । इदमेव व्याचष्टे
[भा. ६२८३] गीतऽज्जाणं असती, सव्वाऽसतीए व कारण परिन्ना । पानग भत्त समाही, कहणा आलोत धीरवनं ।।
वृ- गीतार्थानामार्थिकाणाम् 'असति' अभावे यदि वाऽशिवादिकारणतः सर्वासामपि साध्वीनामभावे एकाकिन्या जातया 'परिज्ञा' भक्तप्रत्याख्यानं कृतम्, ततस्तस्याः कृतभक्तपानप्रत्याख्यानायाः सीदन्त्या योग्यपानकप्रदानेन चरमेप्सितभक्तप्रदानेन च समाधिरुत्पादनीयः । 'कथना' धर्मकथना यथाशक्ति स्वशरीरानाबाधया कर्त्तव्या । तथा 'आलोकम्' आलोचनां सा दापयितव्या । यदि कथमपि चिरजीवनेन भयमुत्पद्यते, यथा-नाद्यापि म्रियते, किमपि भविष्यति इति न जानीम इति; तस्या धीरापना कर्तव्या ।।
[भा. ६२८४] जति वा न निव्वहेज्जा, असमाही वा वि तम्मि गच्छम्मि । करणिजं अन्नत्थ वि, ववहारो पच्छ सुद्धा वा ॥
वृ- यदि वा प्रबलबुभुक्षावेदनीयोदयतया कृतभक्त - पानप्रयाख्याना सा न निर्वहेत्, न यावत्कथिकमनशनं प्रतिपालयितुं क्षमा इति यावत्, असमाधिर्वा तस्मिन् गच्छे तस्या वर्तते ततोऽन्यत्र नीत्वा यद् उचितं तत् तस्याः करणीयमिति । अथ पश्चादनशनप्रत्याख्यानभङ्गविषयस्तस्याः 'व्यवहारः' प्रायश्चित्तं दातव्यः । अथ स्वगच्छासमाधिमात्रेणान्यर गता ततः सा मिथ्यादुष्कृतप्रदानमात्रेण शुद्धेति ॥
मू. (२१३) अट्ठजायम्मि निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ॥ वृ- अस्य सूत्रस्य सम्बन्धमाह
[ भा. ६२८५ ] वृत्तं हि उत्तमट्ठे, पडियरणट्ठा व दुक्खरे दिक्खा ।
इंती व तस्समीवं, जति हीरति अट्ठजायमतो |
वृ- उक्तं 'हि' यस्मात् पूर्वं पञ्चकल्पे-'उत्तमार्थे' उत्तमार्थ- पाक्सूत्राभिहितं प्रतिपत्तुकामस्य "दुक्खरे "त्ति द्व्यक्षरस्य द्वयक्षरिकाया वा दीक्षा दातव्या, यदि वा 'प्रतिचरणाय' 'एषा दीक्षिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org