________________
३२८
बृहत्कल्प-छेदसूत्रम् - ३-५/१९०
तेन स्पर्शेनैकतरस्य भावसम्बन्धो भवेत्, ततश्च प्रतिगमनादयो दोषाः । आत्मविराधना तु "चिंतेइ दडुमिच्छइ" इत्यादिक्रमेण ज्वर- दाहादिका ।। किञ्च
[भा. ५९७८] दिवसं पिता न कप्पइ, किमु निसि मोएण अन्नमन्नस्स । इत्थंगते किमन्नं, न करेज्ज अकिञ्चपडिसेवं ॥
"
वृ-दिवसेऽपि तावन्न कल्पते अन्योन्यस्य मोकेनाऽऽचमितुं किं पुनः 'निशि' रात्रौ ? | 'इत्थङ्गते हि' परस्परं मोकाचमनेऽपि कृते किं नाम तदकृत्यमस्ति यस्य प्रतिसेवां न कुर्याताम् ॥ [ भा. ५९७९] वुत्तुं पि ता गरहितं, किं पुन घेत्तुं जे कर बिलाओ वा । घासपइट्ठो गोणो, दुरक्खओ सस्स अब्भासे ॥
- वक्तुमपि तावदेतद् मोकाचमनं गर्हितं किं पुनः संयत्याः कराद् 'बिलाद् वा' भगादित्यर्थः मोकं ग्रहीतुम् ? । अपि च घासः चारी तस्याश्चरणार्थं गौः प्रविष्टः सन् 'सस्याभ्यासे' धान्यमूले चरन् दूरक्षो भवति, धान्यमदन् दुःखेन रक्ष्यत इत्यर्थः, एवमयमपि संयत्या मोकेनाचमन् प्रसङ्गतः शेषामपि क्रियां कुर्वन् न वारयुतिं शक्य इति भावः ॥
[भा. ५९८० ]दिवसओ सपक्खे लहुगा, अद्धाणाऽऽ गाढ गच्छ जयणाए । रत्तिं च दोहि लहुगा, बिइयं आगाढ जयणाए ।
वृ-दिवसतः 'सपक्षेऽपि' संयतः संयतानां संयती वा संयतीनां मोकेन यदि आचमति तदा चतुर्लघु । शैक्षाणां तदवलोकनादन्यथाभावो भवेत् । गृहस्थ-परतीर्थिकाञ्चोड्डाहं कुर्युः ॥
कथम् ? इत्याह
[ भा. ५९८१ ] अट्ठिसरक्खा वि जिया, लोए नत्थेरिसऽन्नधम्मेसु । सरिसेण सरिससोही, कीरइ कत्थाइ सोहेज्जा ।।
वृ- अहो ! अमीभिः श्रमणकैरेवं मोकेनाचमद्भिरस्थिसरजस्का अपि जिताः, अस्मिल्लोकेऽन्ये बहवो धर्म विद्यन्ते परं कुत्रापि ईध्शं शौचं न दृष्टम् । सद्दशेन च सद्दशस्य या शोधि क्रियते सा किं कुत्रचित् 'शोधयेत्' शुद्धं कुर्यात् ? अशुचिना धाव्यमानमशुचि न शुध्यतीति भावः ॥ द्वितीयपदे अध्वनि वर्तमानस्य गच्छस्यापरस्मिन् वा आगाढे कारणे यतनया दिवा स्वपक्षमोकेनाचमेत् । अथ रात्रौ निष्कारणे मोकेनाचमति ततश्चतुर्लघु 'द्वाभ्यामपि तपः- कालाभ्यां लघु । “रत्तिं दवे वि लहुग”त्ति पाठान्तरम्, तत्र रात्रौ द्रवं पानकमाचमनार्थं यदि परिवासयति ततश्चतुर्लघु, सञ्चयपनकसम्मूर्च्छनादयश्चानेकविधा दोषाः । आह च बृहद्भाष्यकृत-रत्तिं दवपरिवासे, लहुगा दोसा हवंतऽनेगविहा । इति । द्वितीयपदे आगाढे कारणे यतनया रात्रावपि मोकेनाचमेद् द्रवं वा परिवासयेत् ॥ तत्राध्वनि द्वितीयपदं व्याचष्टे
[भा. ५९८२ ]
निच्छुभई सत्थाओ, भत्तं वारेइ तक्करदुगं वा । फासुदवं च न लब्भइ, सा वि य उच्चिट्ठविजा उ ॥
वृ-यदि अध्वनि प्रतिपन्नं गच्छं प्रत्यनीकसार्थवाहादि सार्थाद् निष्काशयति, भक्तं वा वारयति, यद्वा 'तस्करद्विकम्' उपधि-शरीस्तेनद्वयमुपद्रोतुमिच्छति; तत्र कस्यापि साधोराभिचारुका विद्या समस्ति यया परिजपितया स आवर्त्यते, स च साधुस्तदानीं संज्ञालेपृत्पुतः, प्राशुकं च द्रवं तत्र न लभ्यते, साऽपि चोच्छिष्टविद्या, ततो मोकेनाचम्यतां परिजपेत् ॥ अथागाढपदं व्याख्याति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org