________________
उद्देशक: ५, मूलं - १८५, [भां. ५९७३]
३२७
सवृन्तिका पादकेसरिका धारयुतं वा परिहर्तुं वा ।। अथ केयं सवृन्ता पादकेसरिका ? इत्याह[भा. ५९७४] लाउयपमाणदंडे, पडिलेहणिया उ अग्गए बद्धा । सा केसरिया भन्नइ, सनालए पायपेहट्ठ ॥
वृ-यत्राभिनवसङ्कटमुखे अलाबुनि हस्तो न माति तस्यालाबुनो यद् उच्चत्वं तत्प्रमाणो दण्डः क्रियते, तस्याग्रभागे बद्धा या प्रत्युपेक्षणिका सा पादकेसरिका सवृन्ता भण्यते । सा च कारणगृहीतस्य सनालस्य पात्रस्य प्रत्युपेक्षणार्थं गृह्यते । तां यदि निर्ग्रन्थ्यो गृह्णन्ति तदा चतुर्गुरु, सैव च प्रतिसेवनादिका विराधना । निर्ग्रन्थानामप्युत्सर्गतो न कल्पते। द्वितीयपदे सनालमलाबुकं तया प्रत्युपेक्ष्य ततो मुखं क्रियते ॥
मू. (१८८) नो कप्पइ निग्गंथीणं दारुदंडयं पायपुंछणं धारित्तए वा परिहरित्तए वा । मू. (१८९) कप्पइ निग्गंथाणं दारुदंडयं जाव परिहरित्तए वा ।
वृ- अस्य व्याख्या - यत्र दारुमयस्य दण्डस्याग्रभागे ऊर्णिका दशिका बध्यन्ते तद् दारुदण्डकं पादप्रोञ्छनमुच्यते । तद् निर्ग्रन्थीनां न कल्पते, निर्ग्रन्थानां तु कल्पते ।। अत्र भाष्यम्ते चेव दारुदंडे, पाउंछणगम्मि जे सनालम्मि । दुहवि कारणगहणे, चप्पडए दंडए कुजा ॥
[भा. ५९७५ ]
वृ-ये सनाले पात्रेदोषा उक्तास्त एव दारुदण्डकेऽपि पादप्रोञ्छनके भवन्ति । 'द्वयोरपि च' सनालपात्र-दारुदण्डकयोः कारणे निर्ग्रन्थीनामपि ग्रहणं भवति । तत्र च ग्रहणे कृते 'चप्पडकान्' चतुष्पलान् दण्डकान् कुर्यात् ॥
मू. (१९०) नो कप्पइ निग्गंथाण वा निग्गंधीण वा अन्नमन्नस्स मोयं आइयत्तए वा आइमित्तए वा, नन्नत्थ गाढाऽ गाढेसु रोगायंकेसु ।
वृ- अस्य सम्बन्धमाह[भा. ५९७६ ]
बंभवयपालणट्ठा, गतोऽहिगारो तु एगपक्खम्मि ।
तस्सेव पालणट्ठा, मोयाऽऽरंभो दुपक्खे वी ॥
वृ- ब्रह्मव्रतपालनार्थमेकस्मिन् संयतीलक्षणे पक्षे पूर्वसूत्रेषु योऽधिकारः स गतः, समर्थित इत्यर्थः । सम्प्रति तु 'तस्यैव' ब्रह्मव्रतस्य पालनार्थं 'द्विपक्षेऽपि संयत संयतीपक्षद्वयविषये मोकसूत्रारम्भः क्रियते ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा ‘अन्योन्यस्य' परस्परस्य मोकमापातुं वा आचमितुं वा । किं सर्वथैव ? न इत्याह- गाढाः -अहिविषविसूचिकादयः अगाढाश्च ज्वरादयो रोगातङ्कास्तेभ्योऽन्यत्र न कल्पते, तेषु तु कल्पत इत्यर्थः । एष सूत्रार्थः ॥ सम्प्रति नियुक्तिविस्तरः
[भा. ५९७७ ] मोएण अन्नमन्नस्स आयमणे चउगुरुं च आणाई । मिच्छत्ते उड्डाहो, विराधना भावसंबंधो ॥
वृ- 'अन्योन्यस्य' संयतः मोकेन संयती वा संयतानां मोकेन निशाकल्प इकति कृत्वा रात्रौ यद्यामचति तदा चतुर्गुरु, आज्ञादयश्च दोषाः, मिथ्यात्वं च भवेद् न यथावादी तथाकारीति कृत्वा । यद्वा कश्चिदभिनवधर्मा तद् निरीक्ष्य मिध्यात्वं गच्छेत्-अहो ! अमी समला इति । उड्डाहश्च भोगिनी - घाटिकादिज्ञापने भवति । विराधा च संयमस्यात्मनो वा भवति । तत्र संयमविराधना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org