SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३२६ बृहत्कल्प-छेदसूत्रम् -३-५/१८३ गृह्यते, तस्य च विषाणं छित्त्वा परिष्ठाप्यते । एवं छिन्ने विषाणे स्थविराया अन्यस्या वा कल्पते॥ [भा.५९७०] जंतुन लब्बइछेत्तुं, तं थेरीणं दलंति सविसाणं । छायंति य से दंडं, पाउंछण मट्टियाए वा ।। वृ-यत् 'तु'पुनश्छेत्तुंन लभ्यतेततः सविषाणमपितदासनस्थविरसाध्वीनांसाधवःप्रयच्छन्ति, तदीयं च दण्डं पादप्रोञ्छनेन घनं छादयन्ति, तेन वेष्टयित्वा स्थूलतरं कुर्वन्तीत्यर्थः; मृत्तिका वा परिवेष्टयन्ति । निर्ग्रन्थानां सविषाणमपि कल्पते ॥ कुतः? इत्याह[भा.५९७१] समणाण उ ते दोसा, न होति तेन तु दुवे अनुनाया। पीढं आसनहेडं, फलगंपुन होइ सेजट्ठा॥ वृ-श्रमणानां पुनः 'ते' पादकर्मादयो दोषा न भवन्ति ततः 'द्वे अपि' पीढ-फलके सविषाणे अप्यनुज्ञाते। तत्र पीठमासनहेतोः फलकं पुनः शय्यार्थ' शयननिमित्तं वर्षासु गृह्यते॥ अथ किमर्थं वर्षासु तत्रोपवेशनं शयनं वा क्रियते ? इत्याह[भा.५९७२] कुच्छण आय दयट्ठा, उज्झायगमरिस-वायरक्खट्ठा। पाणा सीतल दीहा, रक्खट्ठा होइ फलगंतु॥ वृ-आर्द्रायां भूमौ स्थाप्यमानाया निषद्यायाः कोथनं भवति, शीतलायां च भूमावुपविशतां धान्यं न जीर्यति ततो ग्लानत्वेन आत्मविराधना, 'दयार्थं च' जीवदयानिमित्तं वर्षासु भूमौ नोपवेष्टव्यम्, “उज्झायगं"ति भूमेरार्द्रभावेन मलिनीभूतस्योपधेर्जुगुप्सनीयता स्यात्, अर्शासि वाक्षुभ्येयुः, वातोवाऽधिकतरं प्रकुप्येत्, तत एतेषां रक्षार्थंपीठकं ग्रहीतव्यम् । तथा शीतलायां भूमौ बहवः कुन्थु-पनकप्रभृतयःप्राणिनः सम्मूठेयुः ततो भूमौ शयानानां तेषां विराधना भवति, दीर्घजातीया व भूमेर्निर्गत्य दशेयुः, उपलक्षणमिदम्, तेनोपधिकोथनाऽजीर्णातादयोऽपि दोषा भवन्ति, एतेषां रक्षार्थं वर्षासु फलकं गृह्यते ॥ मू. (१८४) नो कप्पइ निग्गंथीणं सवेंटगं लाउयंधारित्तए वा परिहरित्तए वा। म. (१८५) कप्पइ निग्गंथाणं सवेंटगं लाउयं थारित्तए वा परिहरित्तए वा ॥ वृ-अस्य व्याख्या सुगमा।नवरम्-‘सवेण्टकं नालयुक्तंअलाबुकंतनिर्ग्रन्थीनांन कल्पते। निर्ग्रन्थानांतु कल्पते ।। अत्र भाष्यम्[भा.५९७३] तेचेव सवेंटम्मिं, दोसा पादम्मिजे तु सविसाणे। अइरेग अपडिलेहा, बिइय गिलाणोसहट्ठवणा ॥ वृत एव ‘सवृन्तेऽपि' सनालेऽपि अलाबुभये पात्रे दोषा मन्तव्या ये सविषाणे आसने पादकर्मादय उक्ताः। द्वितीयपदेतुधारयेऽपि।तत्राध्वनिधृतंवा तैलं वा सुखेनैवापरिगलदुह्यते, ग्लानाया वायोग्यं तत्रौषधंप्रक्षिप्तमास्ते। तच्च सवृन्तकंप्रवर्तिनी स्वयंसारयति।निर्ग्रन्थानामपि निष्कारणे न कल्पे । यदि धारयन्ति ततोऽतिरिक्तोपकरणदोषः, सवृन्तके च प्रत्युपेक्षणा न शुध्यति । द्वितयपदे ग्लानस्य योग्यमौषधं तत्र स्थापनीयमिति कृत्वा ग्रहीतव्यम् । मू. (१८६) नो कप्पइ निग्गंथीणं सवेंटियं पादकेसरियंधारित्तए वा परिहरित्तए वा। मू. (१८७) कप्पइ निग्गंथाणं सवेंटियं पादकेसरियं धारित्तए वा परिहरित्तए वा। वृ-नोकल्पते निर्ग्रन्थीनांसवृन्तिका पादकेसरिका धारयितुंवापरिहर्तुंवा । कल्पते निर्ग्रन्थानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy