________________
३६३
उद्देशकः ६, मूलं-१९७, [भा. ६१४८] मोदका गृहीता इति । शेषं प्राग्वत् ॥अथाविरतिकावादे प्रस्तारमाह[भा.६१४९] रातिनितवाइतेनं, खलिय-मिलिय-पेल्लणाए उदएणं।
देउल मेहुन्नम्,ि अब्भक्खाणं कुडंगे वा ॥ वृ- कश्चिदवमरानिको रत्नाधिकेनाभीक्ष्णं शिष्यमाणश्चिन्तयति-एषः रत्नाधिकवातेन' 'रलाधिकोऽहम्' इति गर्वेण मांदशविधचक्रवालसामाचार्यामस्खलितमपिकषायोदयेनतर्जयति, यथा-हे दुष्टशैक्षक ! स्खलितोऽसीति । तथा मां निम्नतरमपि पदं पदेन विच्छिन्नं सूत्रमुच्चारयन्तं 'हा दुष्टशैक्ष ! किमिति मिलितमुच्चारयसि ?' इति तर्जयति । तथा “पेल्लण"त्ति अन्यैः साधुभिर्वार्यमाणोऽपि कषायोदयतोमा हस्तेन प्रेरयति।अथवैषा सामाचारी-रत्नाधिकस्य सर्वं क्षन्तव्यमिति, ततस्तथा करोमि यथा एष मम लघुको भवन्ति । ततोऽन्यदा द्वावपि भिक्षाचर्याय गतौ, तौ च तृषितौ बुभुक्षितौ चेत्येवं चिविन्तवन्तौ-अस्मिन् आर्यादेवकुले 'कुडङ्गेवा' वृक्षविषमे प्रथमालिकां कृत्वा पानीयं पास्याम इति; एवं चिन्तयित्वा तौ तदभिमुखं प्रस्थितौ । अत्रान्तरेऽवमरत्नाधिकः परिव्राजिकामेकांतदभिमुखमागच्छन्तीं देष्टवास्थितः, लब्दएष इदानीम्' इति चिन्तयित्वा तं रत्नाधिकं वदति-अहो ज्येष्ठार्य! कुरु त्वं प्रथमालिकां पानीयं वा, अहं पुनः संज्ञां व्युत्स्रक्ष्यामि ॥ एवमुक्त्वा त्वरितं वसतावागत्य मैथुनेऽभ्याख्यानं दातुंयथा आलोचयति तथा दर्शयति[भा.६१५०] जेट्ठजेण अकजं, सज्जं अज्जाघरे कयं अजं ।
उवजीवितो य भंते!, मए विसंसट्ठकप्पोऽत्य ।। वृ- ज्येष्ठार्येणाद्य ‘सद्यः' इदानीमार्यागृहे कृतं 'अकार्य मैथुनसेवालक्षणम्, ततो भदन्त ! तत्संसर्गतो मयाऽपि ‘संसृष्टकल्पः' मैथुनप्रतिसेवा 'अत्र' अस्मिन् प्रस्तावे उपजीवितः॥
अत्राप्ययं प्रायश्चित्तप्रस्तारः[भा.६१५१] वच्चति भणाति आलोय निकाए पुच्छिए निसिद्धे य।
साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे॥ [भा.६१५२] मासो लहुओ गुरुओ, चउरो लहुगा यहोति गुरुगाय।
छम्मासा लहु-गुरुगा, छेदो मूलं तह दुर्गच ॥ वृ-अवमरात्निको निवृत्त्य गुरुसकाशं व्रजति लघुमासः।आगम्य च गुरून् भणति-ज्येष्ठार्येण मया चाकृत्यमासेवितम्, अतोममतावद्महाव्रतान्यारोपयत;एवंरलाधिकस्यलघूभवनाभिप्रायेण भणतो गुरुमासः । रत्नाधिक आगतः सूरिणा भणितः-किं स्वया संसृष्टकल्प आसेवितः ? स प्राह-नासेवितः, ततश्चतुर्लघु । इतरो निकाचयति चतुर्गुरु इत्यादा प्राग्वद् द्रष्टव्यम् ।।
गतोऽवितरिकावादः । अथापुरुषवादमाह[भा.६१५३] तइओ त्ति कधं जाणसि, दिट्ठा नीयो से तेहि मी वुत्तो।
वट्टति ततिओ तुब्मं, पव्वावेतुं मम वि संका।। . वृ-कोऽपि साधुस्ततैव छिद्रान्वेषी भिक्षातो निवृत्य रत्नाधिकमुद्दिश्याऽऽचार्य भणति-एष साधुः ‘तृतीयः' त्रैराशिकः । आचार्य प्राह-कथं जानासि ? । स प्राह-मयैतस्य निजका दृष्टाः तैरहमुक्तः-वर्तते युष्माकं तृतीयः प्रव्राजयितुम् ?; ततो ममापि हृदये शङ्का जाता ॥अपि च
Jain Education International
1
For Private & Personal Use Only
Forer
www.jainelibrary.org