SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २७४ बृहत्कल्प-छेदसूत्रम् -३-५/१४६ च सारणादिना स्थिरतरो भवति, अत एव 'धन्याः' धर्मधनं लब्धारः शिष्या गुरुकुलवासं 'यावत्कथया' यावजीवं न मुञ्चन्ति॥किञ्च[भा.५७१४] मीतावासो रई धम्मे, अनाययणवज्जणा। निग्गहो य कसायाणं, एयं धीराण सासनं ॥ वृ- गच्छे 'मीतावासो भवति' आचार्यादिभयमीतैः सदैवाऽऽसितव्यम्, न किमप्यकृत्यं प्रतिसेवितुं लभ्यत इति भावः । 'धर्मे च' वैयावृत्य-स्वाध्यायादिरूपे रतिर्भवति, 'अनायतनस्य च' स्त्रीसंसर्गप्रभृतिकस्य वर्जनं भवति, कषायाणां चोदीर्णानां आचार्यादीनामनुशिष्टया 'निग्रहः' विध्यापनं भवति। धीराणां तीर्थकृतामेतदेव शासनम्' आज्ञा, यथा-गुरुकुलवासोनमोक्तव्यः। अपिच[भा.५७१५] जइमं साहुसंसग्गि, न विमोक्खसि मोक्खसि। उज्जतो व ते निच्चं, न होहिसिन होहिसि॥ वृ-यदि एनां साधुसंसर्गि 'न विमोक्ष्यसि न परित्यक्ष्यसि ततः 'मोक्ष्यसि' मुक्तो भविष्यसि। यदिच 'तपसि' अनशनादौ सुखलम्पटतयानोधतोभविष्यसिततोऽव्याबाधसुखीन भविष्यसि। [भा.५७१६] सच्छंदवत्तिया जेहिं, सग्गुणेहिं जढा जढा। अप्पणो ते परेसिंच, निचं सुविहिया हिया॥ वृ-यैः साधुभिः स्वच्छन्दवर्तिता जढा' परित्यक्ता । कथम्भूता? सद्भि-शोभनानादिभिर्गुणैः 'जढा' रहिता, आत्मनः 'परेषांच' षण्णांजीवनिकायानांनित्यंते सुविहिता हिताइतिप्रकटार्थम्। [मा.५७१७] जेसिंचाऽयं गणे वासो, सज्जणानुमओ मओ। दुहाऽवाऽऽराहियं तेहिं, निव्विकप्पसुहं सुहं॥ वृ- 'येषां च साधूनाम् 'अयम्' इत्यात्मनाऽनुभूयमानो गणे वासः 'मतः' अभिरुचितः कथम्भूतः? सज्जनाः-तीर्खतरादयस्तेषामनुमतः सज्जनानुमतः । तैः' साधुभिः 'निर्विकल्पसुखं' निरुपमसौख्यं सुखम्' इति सुखेनैव द्विधाऽप्याराधितम्, तद्यथा-श्रमणसुखं निर्वाणसुखं च । अत्र श्रमणसुखं निरुपममित्थं मन्तव्यम् नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ।। निर्वाणसुखं तु निरुपमंप्रतीतमेवेति॥ [भा.५७१८] नवधम्मस्स हि पाएण, धम्मे न रमती मती। ___ वहए सो वि संजुत्तो, गोरिवाविधुरंधुरं॥ वृ-नवधर्मणो हि प्रायेण धर्मे' श्रुत-चारित्ररूपे न रमते मति, परं गच्छे वसतस्तस्यापि धर्मे रतिर्भवति । तथा चाह- सोऽपि' नवधर्मा साधुभिः संयुक्तः संयमधुरामविधुरां वहेति । गौरिव द्वितीयेन गवा संयुक्तः ‘अविधुरां' अविषमां 'धुरं' शकटभारंवहति, एकस्तु वोढुं न शक्नोति। [भा.५७१९] एगागिस्स हि चित्ताई, विचित्ताइंखणे खणे। उप्पजंति वियंते य, वसेवं सज्जने जने ॥ वृ- एकाकिनो हि 'चित्तानि' मनांसि "विचित्राणि' शुभा-ऽशुभाध्यवसायपरिणतानि क्षणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy