________________
उद्देशक : ५, मूलं-१४६, [भा. ५७१९]
२७५ क्षणे उत्पद्यन्ते व्ययन्तेच, यत एवमतः ‘सज्जने सुसाधुजनसमूहरूपेजने वसेदिति। एते गुणागच्छे वसतामुक्ताः॥एवं गच्छनिर्गतस्य प्रस्तुतसूत्रसम्भव उक्तः । सम्प्रति गच्छान्तर्गतस्य तमाह[भा.५७२०] अहवा निग्गयस्सा, भिक्ख वियारे य वसहि गामे य ।
जहि ठाणे साइज्जति, चउगुरु बितियम्मि एरिसगो॥ वृ-'अथवा' इति न केवलं गच्छाद निर्गतस्य प्रायश्चित्तं किन्तु गच्छादनिर्गतस्यापि भिक्षाचर्यां विचारभूमिं वा गतस्य वसतौ वा तिष्ठतो ग्रामबहिर्वा यत्र स्थाने देवः स्त्रीरूपेण निर्ग्रन्थं गृह्णाति तत्र वद्यसौ स्यादयति तदा तस्यापि चतुर्गुरु । एतावता प्रथमसूत्रं व्याख्यातम् । द्वितीयसूत्रेऽपि यत्र देवी स्त्ररूपं विकुळ निर्ग्रन्थं गृह्णीयादित्युक्तं तत्राऽपीश एव गमः॥
अथ निर्ग्रन्थीसूत्रद्वयं व्याख्याति[भा.५७२१] एसेव गमो नियमा, निग्गंथीणं पिहोइ नायव्यो।
नवरं पुन नाणत्तं, पुव्वं इत्थी ततो पुरिसो॥ वृ- एष एव गमो निर्ग्रन्थीनामपि ज्ञातव्यः । नवरमत्र नानात्वम्-पूर्वं “देवी य पुरिसरूवं विउव्वित्ता निग्गंथिं पडिगाहेजा" इति स्त्रसूत्रम्, ततः “देवे य पुरिसरूवं" इत्यादिकं द्वितीयं पुरुषसूत्रम् । अनयोरपि सम्भवो धर्मकथादिभिव्यातैिर्गणानिर्गमने तथैव मन्तव्यो यावत्ता अप्यार्यिका देवकुलिकायां स्थिताः । ततः- [भा.५७२२] विगुरुब्बिऊण रूवं, आगमनं डंबरेण महयाए।
जिन-अज्ज-साहुभत्ती, अज्जपरिच्छा विय तहेव ॥ वृ-सम्यग्दृष्टिदेवतायाः पुरुषरूपं विकुळआगमनम् । ततो महताआडम्बरेण देवकुलिकायाः पार्वेसार्थमावास्य मायया श्राद्धवेषं विधाय वन्दनकं विस्तरेण कृत्वा भणति-युष्माभिः काचित् पुराणिका संयती वा विषयपराजिता दृष्टा? युष्माकंवा यद्यर्थस्ततो भोगान् भुञ्जीमहि, भुञानाश्च जिनचैत्यानामार्यिकाणां साधूनांच भक्ति करिष्यामस्ततो निस्तरिष्यामः । एवमार्यापरीक्षाऽपि तथैव मन्तव्या यथा निर्ग्रन्थानामुक्ता॥
अथ किमर्थं निर्ग्रन्थेषु प्रथमं देवसूत्रं निर्ग्रन्थीषु च प्रथमं देवीसूत्रम् ? इत्याह[भा.५७२३] वीसत्थया सरिसए, सारुप्पं तेन होइ पढमंतु।
पुरिसुत्तरिओ धम्मो, निग्गंथो तेन पढमंतु॥ वृ- ‘सशे' स्वपक्षजातौ 'विश्वस्तता' विश्वासो भवति तेन प्रथममुभयोरपि पक्षयोः सारूप्यसूत्रमभिहितम् । 'पुरुषोत्तरो धर्म' इति कृत्वा च प्रथमं निर्ग्रन्थानां सूत्रद्वयमुक्तम्, ततो निर्ग्रन्थीनाम् ॥ एतेषु विशेषतो विराधनामाह[भा.५७२४] खित्ताइ मारणं वा, धम्माओ भंसणं करे पंता।
भद्दाए पडिबंधो, पडिगमनादी व नितीए। वृ-याप्रान्तदेवतासातंसाधुंप्रतिसेवनापरिणतंक्षिप्तचित्तादिकं कुर्यात्, मारणंधर्माभ्रंशनं वा कुर्वीत । या भद्रा तस्यामसौ प्रतिबन्धं कुर्यात्, निर्गच्छन्त्यां वा तस्यां प्रतिगमनादीनि स विदधीत । अत्रेदं द्वितीयषदम्__ [भा.५७२५] वितियं अछित्तिकरो, बहुवक्खेवे गणम्मि पुच्छित्ता ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org