________________
३२०
बृहत्कल्प-छेदसूत्रम् -३-५/१६६ मू. (१६६) कप्पइ से उवस्सयस्स अंतोवगडाए संघाडिपडिबद्धाए पलंबियबाहियाए समतलपाइयाए ठिचा आयावणाए आयावित्तए॥
वृ-नो कल्पते निर्ग्रन्थ्या बहिग्रामस्य वा यावत् सनिवेशस्य वा 'ऊर्ध्वम्' उर्वाभिमुखौ बाहू 'प्रगृह्य प्रगृह्य' कर्षण गृहीत्वा कृत्वेत्यर्थः सूर्याभिमुख्याः एकपादिकायाः' एकं पादमूर्ध्वमाकुञ्चयापरमेकं पादं भुवि कृतवत्या एवंविधायाः स्थित्वा आतापनयाऽऽतापयितुम् । किन्तुकल्पते "से" तस्या उपाश्रयस्यान्तर्वगडायां प्रलम्बितबाहायाः समतलपादिकायाः स्थित्वा आतापनया आतापयितुमिति सूत्रार्थः ।। अथ भाष्यम्[भा.५९४५] आयावणा य तिविहा, उक्कोसा मज्झिमा जहन्नाय।
उक्कोसा उ निवन्ना, निसन्न मज्झा ठिय जहन्ना ।। वृ-आतापना त्रिविधा-उत्कृष्टा मध्यमा जघन्या च । तत्रोत्कृष्टा निपना, निपन्नः-शयितो यां करोतीत्यर्थः । मध्यमा निषन्नस्य । जघन्या "ठिय" त्ति ऊर्ध्वस्थितस्य ।। पुनरेकैका त्रिविधा[भा.५९४६] तिविहाहोइ निवन्ना, ओमत्थिय पास तइयमुत्ताणा।
उक्कोसुक्कोसा उक्कोसमज्झिमा उक्कोसगजहन्ना॥ वृ-या निपन्नस्योत्कृष्टातापना सा त्रिविधा भवति-उत्कृष्टोत्कृष्टा उत्कृष्टमध्यमा उत्कृष्टजघन्या च। तत्र यद् अवाङ्मुखं निपत्य आतापना क्रियते सा उत्कृष्टोत्कृष्टा । या तु पार्वतः शयानैः क्रियते सा उत्कृष्टमध्यमा । या पुनरुत्तानशयनेन विधीयते सा तृतीया' उत्कृष्टजघन्या ।। [भा.५९४७] मज्झुक्कोसा दुहओ, विमंज्झिमा मज्झिमाजहन्ना य।
अहमुक्कोसाऽहममज्झिमाय अहमाहमा चरिमा । वृ-निषन्नस्य यामध्यमातापना सा त्रिधा-मध्यमोत्कृष्टा "दुहओविमज्झिम"त्तिमध्यममध्यमा मध्यमजघन्याच। ऊर्ध्वस्थितस्य याजघन्यासाऽपित्रिधा-अधमोत्कृष्टाअधममध्यमाअधमाधमा च चरिमेति । अधमशब्दो जघन्यवाचकोऽत्र द्रष्टव्यः ॥एतासामिदं स्वरूपम्[भा.५९४८] पलियंक अद्ध उक्कुडुग, मो यतिविहा उ मज्झिमा होइ।
. तइया उ हत्यिसुंडेगपाद समपादिगा चेव ।। वृ-मध्यमोत्कृष्टा पर्यङ्कासनसंस्थिता, मध्यममध्यमा अर्द्धपर्यङ्का, मध्यमजघन्याउत्कटिका। कचिदादर्श पूर्वार्द्धमित्यं दृश्यते-“गोदोहुक्कड पलियंक मोउतिविहा उ मज्झिमा होइ" ति, तत्र मध्यमोत्कृष्टा गोदोहिका, मध्यममध्यमा उत्कटिका, मध्यमजघन्या पर्यकासनरूपा । मोशब्दः पादपूरणे। एषा त्रिविधामध्यमा भवति । यातु तृतीया' स्थितस्य झघन्योत्कृष्टादिभोदात्रिधा भणितासाजघन्योत्कृष्टा 'हस्तिशुण्डिका' पुताभ्यामुपविष्टस्यैकपादोत्पाटनरूपा, जघन्यमध्यमा 'एकपादिका' उत्थितस्यैकपादेनावस्थानम्, जघन्यजघन्या 'समपादिका' समतलाभ्यां पादाभ्यां स्थित्वा यद् ऊर्ध्वस्थितैराताप्यते ॥ कथं पुनः शयितस्योत्कृष्टातापना भवति? इति उच्यते[भा.५९४९] सव्वंगिओ पतावो, पताविया धम्मरस्सिणा भूमी।
नय कमइ तत्थवाओ, विस्सामो नेव गत्ताणं॥ वृ-भूमौ निवन्नस्य सर्वाङ्गीणः 'प्रतापः' प्रकर्षेण तापो लगति, धर्मरश्मिना च भूमि प्रकर्षण अत्यन्तंतापिता, नच तत्र' भूमौ वायुः क्रमते' प्रचरि,नच 'गात्राणाम् अङ्गानां विश्रामोभवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org