________________
उद्देशक: ५, मूलं- १६३, [भा. ५९४०]
३१९
श्वानव्रतं वा प्रतिपन्नम्; एवमपभ्राजना भवति । "खिंसणा कुलघरे य'त्ति तास्तथाभुञ्जाना दृष्टवा तदीयकुलगृहे गत्वा लोकः खिंसां कुर्यात्, यथा-युष्मदीया दुहितरः स्नुषा वा याः पूर्वं चन्द्रसूर्यकिरणैरप्यस्पृष्टगात्रास्ताः साम्प्रतं सर्वलोकपुरतो गा इव चरन्त्यो हिण्डन्ते । एवमुक्ते ते भूयस्ताः स्वगृहमानयन्ति । “नीसट्टं” अत्यर्थं च 'स्वादितं' भक्षणं लोकस्य पुरतः कुर्वाणासु लोको ब्रूयात्अहो ! बहुभक्षका अमूः स्त्रणां च लज्जा विभूषणं सा चैतासां नास्तीति । अत्र च लज्जायां स्नुषादृष्टान्तो भवति । स च द्विधा - प्रशस्तोऽप्रशस्तश्च ।। प्रशस्तं तावदाह
[ भा. ५९४१] उच्चासणम्मि सुण्हा, न निसीयइ न वि य भासए उच्चं । नेव पगासे भुंजइ, गूहइ वि य नाम अप्पाणं ॥
वृ-यथा 'स्नुषा' वधूरुच्चे आसने न निषीदति, नापि 'उच्च' महता शब्देन भाषते, न च प्रकाशे. भूभागे भुङ्क्ते, आत्मीयं च नाम 'गूहति' न प्रकटयति, एवं संयतीभिरपि भवितव्यम् ॥ अप्रशस्तस्नुषा ध्ष्टान्तः पुनरयम्
[भा. ५९४२ ] अहवा महापदानं, सुहा ससुरो य इक्कमेक्कस्स । दलमाणाणि विनासं, लज्जानासेण पावंती ॥
वृ- ' अथवा ' प्रकारान्तरेण स्नुषादृष्टान्तः क्रियते 'महापदानि' विकृष्टतराणि पदानि स्नुषा श्वसुरश्चैकैकस्य परस्परं प्रयच्छन्तौ यथा लज्जानाशेन विनाशं प्राप्नुतः तथा संयत्यपि निर्लज्ज विनर्श्यति इत्यक्षरार्थः । भावार्थस्त्वयम् एगस्स धिजाइयस्स भज्जाए मयाए पुत्तेण से अट्ठियाणि 'माय'त्ति काउं गंगं नीयाणि । इयरेहि सुण्हा-ससुरेहिं हास खिड्डाइयं करेंतेहिं निल्लत्तणओ निस्सेणि आरुहित्ता अमिप्पायपुव्वगं विगिट्ठतराई पयाई देंतेहिं एक्कमेक्कस्स सागारियं पडुप्पा इयं । दो वि विनट्ठाई । एवं निल्लज्जाए विणासो हुज्जा ।। द्वितीयपदमाह
[भा. ५९४३ ] पायासइ तेनहिए, झामिय वूढे व सावयभए वा । बोहिभए खित्ताइव, अपाइया हुज बिइयपदे ॥
वृ- पात्रस्याभावे, स्तेनकेन वा हृतेऽग्निना वा ध्यामिते दकपूरेण वा व्यूढे पात्रे, श्वापदभये बोधिकभये वा शीघ्रं पात्राणि परित्यज्य नष्टा सती, क्षिप्तचित्ता वा आदिशब्दाद् यक्षाविष्टा वा 'अपात्रिका' पात्ररहिता द्वितीयपदे भवेत् ॥
मू. (१६४) नो कप्पइ निग्गंथीए वोसट्टकाइयाए हुंतए ।
वृ- नो कल्पते निर्ग्रन्थ्याः 'व्युत्सृष्टकायिकायाः' परित्यक्तदेहाया भवितुमिति सूत्रार्थः ॥ [भा. ५९४४ ] वोसट्टकाय पेल्लण-तरुणाई गहण दोस ते चेव ।
दव्वावइ अगणिम्मिय, सावयभय बोहिए बितियं ॥
वृ- व्युत्सृष्टकायिका नाम- 'दिव्याद्युपसर्गा मया सोढव्याः' इत्यभिग्रहं गृहीत्वा शरीरं व्युत्सृज्य समयप्रसिद्धेनाभिभवकायोत्सर्गेण स्थिता, तथास्थितायाश्चोदीर्णमोहप्रेरण-तरुणग्रहणादयस्त एव दोषा मन्तव्याः । द्वितीयपदे तु द्रव्यापदि अग्निसम्भ्रमे श्वापदभये बोधिकभये वा गाढतरे उपस्थिते व्यत्सृष्टकायाऽपि भवेत् ॥
मू. (१६५) नो कप्पइ निग्गंथीए बहिया गामस्स वाजाव सन्निवेसस्स वा उड्डुं बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहीए एगपाइयाए ठिच्चा आयावणाए आयावित्तए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org