________________
३१८
बृहत्कल्प-छेदसूत्रम् -३-५/१६२
'एवम्' अनेनैव सूत्रेम निवारितो मन्तव्यः ।। कुतः? इत्याह[भा.५९३६] अजियम्मि साहसम्मी, इत्थी न चए अचेलिया होउं।
साहसमन्नं पिकरे, तेनेव अइप्पसंगण॥ वृ-'साध्वसे' भये तरुणादिकृतोपसर्गसमुत्थेऽजिते सतिअचेलिका भवितुं 'स्त्री' निर्ग्रन्थीन शक्नुयात् । अथभवति ततः 'तेनैव अतिप्रसङ्गेन' अचेलतालक्षणेन अन्यदपि' चतुर्थसेवादिकं साहसं कुर्यात् । तथा[भा.५९३७] कुलडा विताव नेच्छति, अचेलयं किमु सई कुले जाया।
धिक्काथुक्कियाणं, तित्थुच्छेओ दुलभ वित्ती॥ कृ-कुलटाऽपितावनेच्छत्यचेलताकिंपुनः कालेजाता 'सती' साध्वी? ।अचेलताप्रतिपन्नानां चार्यिकाणां धिक्कारथुक्कितानां' लोकापवादजुगुप्सितानां तीर्थोच्छेदो दुर्लभा च वृत्तिर्भवति, न कोऽपि प्रव्रजतिन वा भक्त-पानादिकंददातीत्यर्थः॥ [भा.५९३८] गुरुगा अचेलिगाणं, समलं च दुगंछियं गरहियंच।
होइ परपत्थणिज्जा, बिइयं अद्धाणमाईसु॥ वृ-अत एव यद्यार्यिका अचेलिका भवन्ति ततस्तासां चतुर्गुरुकाः आज्ञादयश्च दोषाः । तथा चेलरहितां संयती 'समलां' मलदिग्धदेहां दृष्टवालोकः 'जुगुप्सितं' जुगुप्सांकुर्यात्-आः काश्म्, इहलोके एवेश्यवस्था परलोके तु पापतरा भविष्यति, 'गर्हितं च गहाँ प्रवचनस्य कुर्यात्असारं सर्वमेतद् दर्शनमिति । अचेलिकाच परस्य प्रार्थनीया भवति । अत्र द्वितीयपदमध्वादिषु विविक्तानां मन्तव्यम् ॥अपि च[भा.५९३९] पुनरावत्ति निवारण, उदिन्नमोहो व १ पेल्लेज्जा ।
. पडिबंधो गमनाई, डिंडियदोसाय निगिणाए॥ वृ-अचेलामा दृष्ट्वा प्रव्रज्याभिमुखानामपि कुलस्त्रणां पुनरावृत्तिर्भवति, प्रव्रज्यां न गृह्णीयुरित्यर्थः। अन्योवा कश्चिद निवारणं कुर्यात्-किमेतासांकापालिनीनां समीपे प्रव्रजितेन? इति । यद्वा कश्चिदुदीर्णमोहस्तामप्रावृतां दृष्टवा कर्मगुरुकतया प्रेरयेत् । साऽपि तत्रैव प्रतिबन्ध कुर्यात् प्रतिगमनादीनि वा विदध्यात् । 'डिण्डिमदोषाश्च' गर्भोत्पत्तिप्रभृतयो भवेयुः । यत एते नग्नाया दोषा अतोऽचेलया न भवितव्यम् । द्वितीयपदे संयत्योऽध्वनि स्तेनैर्विविक्तास्ततो न किमपि वस्त्रं भवेत्, आदिशब्दाद् क्षिप्तचित्ता यक्षाविष्टा वा वस्त्रणि परित्यजेत्, एवमचेलाऽपि 'भवतीति॥
मू. (१६३) नो कप्पइ निग्गंथीए अपाइयाए हुंतए॥ वृ-नो कल्पते निर्ग्रन्थ्याः ‘अपात्रायः' पात्ररहिताया भवितुमिति सूत्रार्थ ॥अथ भाष्यम्[भा.५९४०] गोणे साणे व्व वत्, ओभावण खिसणा कुलघरे य।
नीसह खइयलज्जा, सुण्हाए होति दिटुंतो॥ वृ- पात्रकमन्तरेण यत्र तत्र समुद्देशनीयम् ततो लोको ब्रूयात्-यथा गौर्यत्रैव चारिं प्राप्नोति तत्रैवालजश्चरति, यथा वा श्वानो यत्रैव स्वल्पमप्याहारं लभते तत्रैव निस्रपो भुङक्ते, एवमेता अपि गो-श्वानसश्यो यत्रैव प्राप्नुवन्ति तत्रैवलोकस्य पुरतः समुद्दिशन्ति, अहो! अमूभिर्गोव्रतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org