SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ उद्देश : ६, मूलं - २१५, [भा. ६४१९ ] ततः ‘आलोचित-प्रतिक्रान्तः' गुरूणामालोच्य प्रदत्तमिध्यादुष्कृतः संयतः शुद्धो भवति ॥ छहं जीवनिकायाणं, अप्पज्झो उ विराहतो । आलोइय-पडिक्कतो, मूलच्छेज्जं तु कारए ॥ [भा. ६४२०] वृषण्णां जीवनिकायानां "अप्पज्झो "त्ति स्ववशो यदि दर्पेणाSS कुट्टिकया वा विराधको भवति तत आलोचित-प्रतिक्रान्तं तं मूलच्छेद्यं प्रायश्चित्तं कारयेत् । वाशब्दोपादानाद् यदि तपोऽर्हप्रायश्चित्तमापन्नस्ततः तपोऽर्हमेव दद्यात्, तत्रापि यद् मासलघुकादिकमापन्नस्तदेव दद्यात् । अथ हीनादिकं ददाति ततो दोषा भवन्तीति दर्शयति [भा. ६४२१] जं जो उ समावन्नो, जं पाउग्गं व जस्स वत्थुस्स । तं तस्स उ दायव्वं, असरिसदाने इमे दोसा ॥ वृ- 'यत्' तपोऽर्हं छेदार्हं वा प्रायश्चित्तं यः समापन्नः, यस्य वा 'वस्तुनः' आचायदिरसहिष्णु-प्रभृतेर्वा 'यत्' प्रायश्चित्तं 'प्रायोग्यम्' उचितं तत् तस्य दातव्यम् । अथासध्शम् - अनुचितं ददाति तत इमे दोषाः ॥ [भा. ६४२२ ]. अप्पच्छित्ते य पच्छित्तं, पच्छित्ते अतिमत्तया । धम्मस्साऽऽ सायणा तिव्वा, मग्गस्स य विराधना ॥ वृ- 'अप्रायश्चित्ते' अनापद्यमानेऽपि प्रायश्चित्ते यः प्रायश्चित्तं ददाति प्राप्ते वा प्रायश्चित्ते यः ‘अतिमात्रम्' अतिरिक्तप्रमाणं प्रायश्चित्तं ददाति सः 'धर्मस्य' श्रुतधर्मस्य तीव्रामाशातनां करोति, 'मार्गस्य च ' मुक्तिपथस्य सम्यग्दर्शनादेः विराधनां करोति ॥ किञ्च - [भा. ६४२३] उस्सुत्तं ववहरंतो, कम्मं बंधति चिक्कणं । संसारं च पवड्ढेति, मोहनिजं च कुव्वती ॥ वृ- 'उत्सूत्रं ' सूत्रोत्तीर्णं राग-द्वेषादिना 'व्यवहरन्' प्रायश्चित्तं प्रयच्छन् 'चिक्कणं' गाढतरं कर्म बध्नाति, संसारं च 'प्रवर्द्धयति' प्रकर्षेण वृद्धिमन्तं करोति, 'मोहनीयं च ' मिथ्यात्वमोहादिरूपं करोति । इदमेव सविशेषमाह [भा. ६४२४] उम्मग्गदेसणाय, मग्गं विप्पडिवातए । परं मोहेन रंजितो, महामोहं पकुव्वती ॥ वृ- 'उन्मारदशनया च' सूत्रोत्तीर्णप्रायश्चित्तादिमार्प्ररूपणया 'मार्ग' सम्यग्दर्शनादिरूपं विविधैः प्रकारैः प्रतिपातयति-व्यवच्छेदं प्रापयति । तत एवं परमपि मोहेन रञ्जयन् महामोहं प्रकरोति । तथा च त्रिंशति महामोहस्थानेषु पठ्यते - "नेयाउयस्स मग्गस्, अवगारम्मि वट्टई ।" यत एवमतो न हीनाधिकं प्रायश्चित्तं दातव्यमिति ।। गतं ज्येष्ठद्वारम् । अथ प्रतिक्रमणद्वारमाह [भा. ६४२५] सपडिक्कमणो धम्मो, पुरिमस्स इ पच्छिमस्स य जिनस्स । मज्झिमयाण जिनानं, कारणजाए पडिक्कमणं ॥ ४१७ वृ- 'सप्रतिक्रमणः ' उभयकालं षड्विधावश्यककरणयुक्तो धर्म पूर्वस्य पश्चिमस्य च जिनस्य तीर्थे भवति, तत्तीर्थसाधूनां प्रमादबहुलत्वात् शठत्वाच्च । मध्यमाना तु जिनानां तीर्थे 'कारणजाते' तथाविधेऽपराधे उत्पन्ने सति प्रतिक्रमणं भवति, तत्तीर्थसाधूनामशठत्वात् प्रमादरहितत्वाच्च ॥ अथास्या एव पूर्वार्द्धं व्याचष्टे - [भा. ६४२६] गमनाऽऽगमन वियारे, सायं पाओ य पुरिम-चरिमाणं । 20 27 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy