________________
४१८
बृहत्कल्प-छेदसूत्रम् - ३-६/२१५
नियमेन पडिक्कमणं, अतियारो होउ वा मा वा ।।
वृ- 'गमनाऽऽगमने' चैयवन्दनादिकार्येषु प्रतिश्रयाद् निर्गत्य हस्तशतात् परतो गत्वा भूयः प्रत्यागमने, “वियारे" त्ति हस्तशतमध्येऽप्युच्चारादेः परिष्ठापने कृते, तथा 'सायं' सन्ध्यायां 'प्रातश्च' प्रभाते पूर्व-चरमाणां साधूनामतिचारो भवतु वा मा वा तथापि नियमेनैतेषु स्थानेषु प्रतिक्रमणं भवति ॥ परः प्राह
[भा. ६४२७] अतिचारस्स उ असती, ननु होति निरत्ययं पडिक्कमणं । न भवति एवं चोदग!, तत्थ इमं होति नातं तु ॥
वृ- अतिचारस्य 'असति' अभावे ननु निरर्थकं प्रतिक्रमणं भवति । सूरिराह-हे नोदक ! 'एवं' त्वदुक्तं प्रतिक्रमणस्य निरर्थकत्वं न भवति' न घटते, किन्तु सार्थकं प्रतिक्रमणम् । तत्र च सार्थकत्वे इदं 'ज्ञातम्' उदाहरणं भवति ॥
[भा. ६४२८] सति दोसे होअगतो, जति दोसो नत्थि तो गतो होति । बितियस्स हणति दोसं, न गुणं दोसं व तदभावा ॥ दोसं हंतूण गुणं, करेति गुणमेव दोसरहिते वि । ततियसमाहिकरस्स उ, रसातणं डिंडियसुतस्स ॥
[भा. ६४२९]
[भा. ६४३०] जति दोसो तं छिंदति, असती दोसम्मि निज्ञ्जरं कुणई । कुसलतिगिच्छरसायणमुवनीयमिदं पडिक्कमणं ।।
वृ- एगस्स रन्नो पुत्तो अईव वल्लहो । तेन चिंतियं-अनागयं किंचि तहाविहं रसायणं करावेमि जेन मे पुत्तस्स कयाइ रोगो न होइ त्ति । विज्जा सद्दाविया मम पुत्तस्स तिगिच्छं करेह जेन निरओ होइ । ते भांति करेमो । राया भणइ केरिसाणि तुम्ह ओसहाणि ? । एगो भणइ-मम ओसहमेरिसं
इ. रोगो अत्थि तो उवसामेइ, अह नत्थि तं चैव जीवंतं मारेइ । बिइओ भणइ-मम ओसहं जइ रोगो अस्थि तो उवसामेइ, अह नत्थि तो न गुणं न दोसं करेइ । तइओ भणइ जइ रोगो अत्थि तोउवसामेइ, अह नत्थि तो वन्न रूवजोव्वण-लावन्नत्ताए परिणमइ, अपुव्वोय रोगोन पाउब्भवइ । एवमायन्निऊण रन्ना तइयविज्रेण किरिया कारिया । एवमिमं पि पडिक्कमणं जइ अइयारदोसा अत्थि तो तेसिं विसोहिं करेति, अह नत्थि अइयारो तो चारित्तं विसुद्धं करेइ अभिनवकम्मरोगस्स य आगमं निरुंभइ ॥
अथाक्षरगमनिका प्रथमवैद्यस्यौषधेन 'सति दोषे' रोगसम्भवे उपयुज्यमानेन 'अगदः' नीरोगो भवति, यदि पुनर्दोषो नास्ति ततः प्रत्युत 'गदः' रोगो भवति । द्वितीयस्य तु वैद्यस्यैौषधं 'दोषं ' रोगं हन्ति, 'तदभावात् ' दोषाभावान्न गुणं न वा दोषं करोति । तृतीयस्य तु दोषं हत्वा गुणं करोति, दोषरहितेऽपि च 'गुणमेव' वर्णादिपुष्टयभिनवरोगाभावात्मकं करोति । ततः 'तृतीयसमाधिकरस्य' तृतीयस्य वैद्यस्य रसायनं दण्डिकसुतस्य योग्यमिति कृत्वा राज्ञा कारितम् । एवं प्रतिक्रमणमपि यदि अतिचारलक्षणो दोषो भवति ततस्तं छिनत्ति, अथ नास्ति दोषस्ततोऽसति दोषे महतीं कर्मनिर्जरां करोति । एवं 'कुशलचिकित्सस्य' तृतीयवैद्यस्य रसायनेन 'उपनीतम्' उपनयं प्रापितमिदं प्रतिक्रमणं मन्तव्यम् ॥ गतं प्रतिक्रमणद्वारम् । अथ मासकल्पद्वारमाहदुवो य मासकप्पो, जिनकप्पे चेव थेरकप्पे य । एक्केको वि यदुविहो, अट्ठियकप्पो य ठियकप्पो ॥
[भा. ६४३१]
वृ- द्विविधो मासकल्पः, तद्यथा-जिनकल्पे चैव स्थविरकल्पे च । पुनरेकैको द्विविधः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org