SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ६, मूलं-२१५, [भा. ६४३१ ] अस्थितकल्पः स्थितकल्पश्च । तत्र मध्यमसाधूनां मासकल्पोऽस्थितः, पूर्व-पश्चिमानां तु स्थितः । ततः पूर्व-पश्चिमाः साधवो नियमाद् ऋतुबद्धे मासं मासेन विहरन्ति । मध्यमानां पुनरनियमः, कदाचिद् मासमपूरयित्वाऽपि निर्गच्छन्ति कदाचित्तुं देशोनपूर्वकोटीमप्येकत्र क्षेत्रे आसते ।। गतं मासकल्पद्वारम् । अथ पर्युषणाद्वारमाह [ भा. ६४३२] ४१९ पज्जोसवणाकप्पो, होति ठितो अट्ठितो य थेराणं । एमेव जिनानं पि य, कप्पो ठितमट्ठितो होति ॥ वृ- पर्युषणाकल्पः स्थविरकल्पिकानां जिनकल्पिकानां च भवति । तत्र स्थविराणां स्थितोऽस्थितश्च भवति । एवमेव जिनानामपि स्थितोऽस्थितश्च पर्युषणाकल्पः प्रतिपत्तव्यः ॥ इदमेव भावयति [ भा. ६४३३] चाउम्मासुक्कोसे, सत्तरिराइंदिया जहन्त्रेणं । ठितमट्टितमेगतरे, कारणवच्चासितऽन्नयरे ॥ वृ- उत्कर्षतः पर्युषणाकल्पश्चतुर्मासं यावद् भवति, आषाढपूर्णिमायाः कार्तिकपूर्णिमां यावदित्यर्थः । जघन्यतः पुनः सप्ततिरात्रिन्दिवानि, भाद्रपदशुक्ल पञ्चम्याः कार्तिकपूर्णिमां यावदित्यर्थः । एवंविधे पर्युषणाकल्पे पूर्व-पश्चिमसाधवः स्थिताः । मध्यमसाधवः पुनरस्थिताः । ते हि यदि वर्षारात्रो भवति मेघवृष्टिरित्यर्थः, तत एकत्र क्षेत्रे तिष्ठन्ति अन्यथा तु विहरन्ति । पूर्वपश्चिमा अपि ‘अन्यतरस्मिन् अशिवादौ कारणे समुत्पन्ने 'एकतरस्मिन्' मासकल्पे पर्युषणाकल्पे वा 'व्यत्यासितं ' विपर्यस्तमपि कुर्यु । किमुक्तं भवति ? - अशिवादिभि कारणैऋतुबद्धेमासमूनमधिकंवा तिष्ठेयुः, वर्षास्वपि तैरेव कारणैश्चतुर्मासमपूरयित्वाऽपि निर्गच्छन्ति परतो वा तत्रैव क्षेत्रे तिष्ठन्ति ॥ इदमेवाह [भा. ६४३४] थेराण सत्तरखलु, वासासु ठितो उड्डुम्मि मासो उ । वच्चासितो तु कज्जे, जिनान नियमऽट्ठ चउरो य ॥ वृ- 'स्थविराणां' स्थविरकल्पिकानां प्रथम-पश्चिमतीर्थकरसत्कानां सप्तिर्दिनानि खलुशब्दो जघन्यत इत्यस्य विशेषस्य द्योतनार्थ, वर्षासु पर्युषणाकल्पो भवति । तेषामेव ऋतबद्धे मासमेकमेकत्रावस्थानरूपो मासकल्पः स्थितो भवति । 'कार्ये पुनः' अशिवादी 'व्यत्यासितः' विपर्यस्तोऽपि भवति, नाधिकप्रमाण इत्यर्थः । 'जिनानां तु' प्रथम चरमतीर्थकरसत्कजिनकल्पिकानामृतुबद्धे नियमादष्टौ मासकल्पा वर्षासु चत्वारो मासा अन्यूनाधिकाः स्थिकल्पतया मन्तव्याः, निरपवादानुष्ठानपरत्वादेषामिति भावः ॥ [भा. ६४३५] दोसाऽसति मज्झिमगा, अच्छंती जाव पुव्वकोडी वि । विचरंति अ वासासु वि, अकद्दमे पाणरहिए य ।। वृ- ये तु 'मध्यमाः' अस्थितकल्पिकाः साधवस्ते दोषाणाम् अप्रीतिक-प्रतिबन्धादीनां असतिअभावे पूर्वकोटीमप्येकत्र क्षेत्रे आसते । तथा वर्षास्वपि 'अकर्दमें' प्रम्लानचिक्खल्ले प्राणरहिते च भूतल जाते सति 'विचरन्ति विहरन्ति ऋतुबद्धेऽपि यदि अप्रीतिकावग्रहो वसतेव्यार्घातो वा भवेत् ॥ [भा. ६४३६ ] भिन्नं पि मासकप्पं, करेंति तनुगं पि कारणं पप्प । जिनकप्पिया वि एवं एमेव महाविदेहेसु ॥ वृ- तत एवमादिकं 'तनुकमपि' सूक्ष्ममपि कारणं प्राप्य मासकल्पं भिन्नमपि कुर्वन्ति, अपूरयित्वा निर्गच्छन्तीत्यर्थः । जिनकल्पिका अपि मध्यमतीर्थकरसत्का एवमेव मासकल्पे पर्युषणाकल्पे च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy