________________
४२०
बृहत्कल्प-छेदसूत्रम् -३-६/२१५
अस्थिताः प्रतिपत्तव्याः । एवमेव च महाविदेहेषु ये स्थविरकल्पिका जिनकल्पिकाश्च तेऽप्यस्थितकल्पिकाः प्रतिपत्तव्याः॥
गतं पर्युषणाकल्पद्वारम् । अथैतस्मिन् दशविधे कल्पे यः प्रमाद्यति तस्य दोषमभिधित्सुराह[भा.६४३७] एवं ठियम्मि मेरं, अट्ठियकप्पे यजो पमादेति।
सो वट्टति पासत्थे, ठाणम्मितगं विवजेज्जा। वृ-'एवम्' अनन्तरोक्तनीत्या या स्थितकल्पेऽस्थितकल्पेच मर्यादा' सामाचारी भणितातां मर्यादां यः 'प्रमादयति' प्रमादेन परिहापयतिसः पार्श्वस्थे' पार्श्वस्थसत्केस्थानेवर्तते; ततस्तकं विवर्जयेत्, तेन सह दान-ग्रहणादिकं सम्भोगं न कुर्यादिति भावः ।। कुतः? इत्यत आह[भा.६४३८] पासत्थ संकिलिटुं, ठाणं जिन वुत्तं थेरेहि य।
तारिसंतु गवसंतो, सो विहारे न सुज्झति ॥ वृ- 'पार्श्वस्थ पार्श्वस्थसत्कं 'स्थानम्' अपराधपदं 'संक्लिष्टम्' अशुद्धं 'जिनैः' तीर्थकरैः 'स्थविरैश्च' गौतमादिभिःप्रोक्तम्, ततस्ताशंस्थानं गवेषयन् ‘सः' यथोक्तसाचमाचारीपरिहापयिता विहारे न शुध्यति, नासौ संविग्नविहारीति भावः॥ [भा.६४३९] पासत्थ संकिलिटुं, ठाणं जिन वुत्तं थेरेहि य ।
तारिसंतु विवजेतो, सो विहारे विसुज्झति॥ वृ-पार्श्वस्थं स्थानं संक्लिष्टं जिनैः स्थविरैश्च प्रोक्तम्, ततस्ताशं स्थानं विवर्जयन् ‘सः' यथोक्तसामाचारीकर्ता विहारे 'विशुध्यति' विशुद्धो भवति । यतश्चैवमतः[भा.६४०] जो कप्पठितिं एयं, सद्दहमाणो करेति सट्ठाणे ।
तारिसं तु गवेसेज्जा, जतो गुणाणं न परिहानी॥ वृ- यः ‘एनाम्' अनन्तरोक्तां कल्पस्थितिं श्रद्दधानः स्वस्थाने करोति । स्वस्थानं नामस्थितकल्पेऽनुवर्तमाने स्थितकल्पसामाचारीम् अस्थितकल्पे पुनरस्थितकल्पसामाचारीकरोति। 'ताशं' संविग्नविहारिणं साधु 'गवेषयेत् तेन सहैकत्र सम्भोगं कुर्यात्, 'यतः' यस्माद् ‘गुणानां' मूलगुणोत्तरगुणानां परिहाणिर्न भवति ॥ इदमेव व्यक्तीकर्तुमाह[भा.६४४१] ठियकप्पम्मिदसविधे, ठवणाकप्पे य दुविहमनयरे।
उत्तरगुणकप्पम्मिय, जो सरिकप्पो स संभोगो । वृ-'स्थितकल्पे' आचेलक्यादौ दशविधे स्थापनाकल्पे च' वक्ष्यमाणे द्विविधान्यतरस्मिन् उत्तरगुणकल्पे च यः 'सद्दक्कल्पः' तुल्यसामाचारीकः सः 'सम्भोग्यः' सम्भोक्तुमुचितः॥अत्र दशविधः स्थितकल्पोऽनन्तरमेवोक्तः । स्थापनाकल्पादिपदानि तु व्याख्यातुकाम आह[भा.६४४२] ठवणाकप्पो दुविहो, अकप्पठवणा य सेहठवणा य।
पढमो अकप्पिएणं, आहारादी न गिण्हावे॥ वृ-स्थापनाकल् द्विविधः-अकल्पस्थापनाकल्पः शैक्षस्थापनाकल्पश्च । तत्र 'अकल्पिकेन' अनधीतपिण्डैषणादिसूत्रार्थेन आहारादिकं 'न ग्राहयेत्' नाऽऽनाययेत्, तेनानीतं न कल्पत इत्यर्थः । एष प्रथमोऽकल्पस्थापनाकल्प उच्यते॥ [भा.६४४३] अट्ठारसेवपुरिसे, वीसं इत्थीओ दस नपुंसा य ।
दिक्खेति जो न एते, सेहट्ठवणाए सो कप्पो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org