SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ६, मूलं-२१५, [भा. ६४४३] ४२१ वृ-अष्टादशभेदाः 'पुरुषे पुरुषविषयाः, विंशतिः स्त्रियः, दश नपुंसकाः, एतानष्टचत्वारिंशतमनलान् शैक्षान् यो न दीक्षते स एष कल्प-कल्पवतोरभेदात् शैक्षस्थापनाकल्प उच्यते ॥ [भा.६४४४] आहार-उवहि-सेजा, उग्गम-उप्पादनेसणासुद्धा। जो परिगिण्हति निययं, उत्तरगुणकप्पिओ स खलु ॥ वृ-य आहारोपधि-शय्या उद्गमोत्पादनैषणाशुद्धाः 'नियतं' निश्चितं परिगृह्णाति स खलूत्तरगुणकल्पिको मन्तव्यः ।। एतेषु सशकल्पेन सह किं कर्तव्यम् ? इत्याह[भा.६४४५] सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्टतरए वा। साहूहिं संथवं कुजा, नाणीहि चरित्तगुत्तेहिं । वृ-'सहक्कल्पः' स्थितकल्प-स्थापनाकल्पादिभिरेककल्पवर्ती सद्दक्छन्दः' समानसामाचारीकः 'तुल्यचारीत्रः' समानसामायिकादिसंयमः विशिष्टतरोवा' तीव्रतरशुभाध्यवसायविशेषेणोत्कृष्टतरेषु संयमस्थानकण्डकेषु वर्तमानः, ईशा ये ज्ञानिनश्चारित्रगुप्ताश्च तैः सह 'संस्तवं' परिचयमेकत्र संवावादिकं कुर्यात् ॥ [भा.६४४६] सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्ठतरए वा । ____ आदिज्ज भत्त-पानं, सतेन लाभेन वा तुस्से॥ वृ-यः सद्दक्कल्पः सद्दक्छन्दस्तुल्यचारित्रो विशिष्टतरो वा 'तेन' एवंविधेन साधुनाऽऽनीतं भक्त-पानमाददीत्, ‘स्वकीयेन वा आत्मीयेनलाभेन तुष्येत्, हीनतरस्तकंन गृह्णीयात्॥तदेवमुक्ता छेदोपस्थापनीयकल्पस्थिति । अथ निर्विशमान-निर्विष्टकायिककल्पस्थितिद्वयं विवरीषुराह[भा.६४४७] परिहारकप्पं पवक्खामि, परिहरंति जहा विऊ । आदी मज्झऽवसाने य, आनुपुट्विं जहक्कम ॥ वृ-परिहारकल्पं प्रवक्ष्यामि, कथम् ? इत्याह-यथा 'विद्वांसः' विदितपूर्वगतश्रुतरहस्यास्तं कल्पं परिहरन्ति' धातूनामनेकार्थत्वाद्आसेवन्ते।कथं पुनः वक्ष्यसि ? इति अत आह-'आदौ' तप्रथमतया प्रतिपद्यमानानां मध्ये' प्रतिपन्नानाम् 'अवसाने' प्रस्तुतकल्पमाप्तौ या आनुपूर्वी' सामाचार्या परिपाटि तां यथाक्रमं प्रवक्ष्यामीति सण्टङ्कः॥ तत्र कतरस्मिन् तीर्थे एष कल्पो भवति? इति जिज्ञासायामिदमाह[भा.६४४८] भरहेरवेसुवासेसु, जता तित्थगरा भवे। पुरिमा पच्छिमा चेव, कप्पं देसेंति ते इमं ॥ वृ-भरतैरावतेषु वर्षेषु दशस्वपि यदा तृतीय-चतुर्थारकयोः पश्चिमे भागे पूर्व पश्चिमाश्च तीर्थकरा भवेयुः तदा ते भगवन्तः ‘इमं प्रस्तुतं कल्पं 'दिशन्ति' प्ररूपयन्ति, अर्थादापन्नम्मध्यमतीर्थकृतां महाविदेहेषु च नास्ति परिहारकल्पस्थितिरिति ॥आह यदि एवं ततः[भा.६४४९] केवइयं कालसंजोगं, गच्छो उ अनुसज्जती। तित्थयरेसु पुरिमेसु, तहा पच्छिमएसुय॥ वृ-कियन्तं कालसंयोगंपरिहारकल्पिकानां गच्छ: पूर्वेषु पश्चिमेषुच तीर्थकरेषु अनुसजति' परम्परयाऽनुवर्तते? ॥ एवं शिष्येण पृष्टे सति सूरिराह[भा.६४५०] पुव्वसयसहस्साई, पुरिमस्स अनुसज्जती। वीसग्गसो य वासाई, पच्छिमस्सानुसज्जती ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy