________________
४२२
बृहत्कल्प-छेदसूत्रम् - ३-६/२१५
वृ- पूर्वशतसहस्राणि 'पूर्वस्य' ऋषभस्वामिनस्तीर्थे परिहारकल्पोऽनुसजति । 'पश्चिमस्य तु' श्रीवर्द्धमानस्वामिनस्तीर्थे 'विंशत्यग्रशः' कतिपयविंसतिसङ्ख्यापरिच्छिन्नानि वर्षाणि परिहारकल्पोऽनुसजति । तत्र ऋषभस्वामिनस्तीर्थे यानि पूर्वशतसहस्राण्युक्तानि तानि देशाने द्वे पूर्वकोटी मन्तव्ये । कथम् ? इति चेद् उच्यते-इह पूर्वकोट्यायुषो मनुष्या जन्मत आरभ्य सञ्जाताष्टवर्षा प्रव्रजिताः, तेषां च नवमे वर्षे उपस्थापना सञ्जता, एकोनविंशतिवर्षपर्यायाणां च दृष्टिवाद उद्दिष्टः, तस्य वर्षेण योगः समाप्तिं नीतः, एवं नव विंशतिश्च मिलिता एकोनत्रिंशद् वर्षाणि भवन्ति, एतावत्सु वर्षेषु गतेषु ऋषभस्वामिनः पार्श्वे परिहारकल्पं प्रतिपन्नाः, तत एकोनत्रिंशद्वर्षन्यूनां पूर्वकोटीं परिहारकल्पे तैरनुपालिते सति येऽन्ये तेषां मूले परिहारकल्पं प्रतिप्रद्यन्ते तेऽप्येवमेवैकोनत्रिंशद्वर्षन्यूनां पूर्वकोटीमनुपालयन्ति, एवं देशोने द्वे पूर्वकोटी भवतः । पश्चिमस्य तु यानि विंशत्यग्रशो वर्षाण्युक्तानि तानि देशोने द्वे वर्षशते भवतः ।। तथा चाहपव्वज्ज अट्ठवास्स, दिट्ठिवातो उ वीसहिं । इति एकूणतीसाए, सयमूनं तु पच्छिमे ॥ पालइत्ता सयं ऊनं, वासाणं ते अपच्छिमे । काले देसिंति अन्नेसिं, इति ऊना तु वे सता ॥
[ भा. ६४५१]
[भा. ६४५२]
वृ- श्रीवर्द्धमानस्वामिकाले वर्षशतायुषो मनुष्याः, तत्र 'अष्टवर्षस्य' जन्मनः प्रभृति सञ्जातवर्षाष्टकस्य कस्यापि प्रव्रज्या सञ्जाता, पूर्वोक्तरीत्या च विंशत्या वर्षैर्दृष्टिवादो योगतः समर्थितः, ततः श्रीमन्महावीरसकाशे परिहारकल्पं नव जनाः प्रतिपद्य देशोनवर्षशतमनुपालयन्ति इत्येवमेकोनत्रिंशता वर्षैरूनं शतं 'पश्चिमे' पश्चिमतीर्थकरकाले भवति ।। ततस्ते वर्षाणां शतमूनं तं कल्पं पालयित्वा 'अपश्चिमे काले' निजायुषः पर्यन्तेऽन्येषां तं कल्पं दिशन्ति' प्ररूपयन्ति, प्रवर्तयन्तीति भावः । तेऽप्येवमेवैकोनत्रिंशद्वर्षन्यूनं शतं पालयन्ति । 'इति' एवं द्वे शते ऊने वर्षाणां भवत इति ॥ किमर्थं तृतीया पूर्वकोटी तृतीयं वा वर्षशतं न भवति ? इत्याह[भा. ६४५३] पडिवन्ना जिणिंदस्स, पादमूलम्मि जे विऊ । ठावयंति उ ते अन्ने, नोउ ठावितठावगा ॥
वृ- जिनेन्द्रस्य पादमूले ये विद्वांसः प्रस्तुतं कल्पं प्रतिपन्नास्त एवान्यांस्तत्र कल्पे स्थापयन्ति, न तु 'स्थापितस्थापकाः' जिनेन स्थापिता स्थापका येषां ते स्थापितस्थापकास्तेऽमुं कल्पमन्येषां न स्थापयन्ति । इदमत्र हृदयम् इयमेवास्य कल्पस्य स्थितिर्यत् तीर्थकरसमीपे वाऽमुं प्रतिपद्यन्ते, तीर्थकरसमीपप्रतिपन्नसाधुसकाशे वा, नाऽन्येषाम् । अतस्तृतीये पूर्वकोटि-वर्षशते न भवत इति ॥ अथ की ग्गुणोपेता अमी भवन्ति ? इत्याह
[भा. ६४५४ ]
सव्वे चरित्तमंतो य, दंसणे परिनिट्ठिया । नवपुव्विया जहन्नेणं, उक्कोस दसपुव्विया ।। पंचविहे ववहारे, कप्पे त दुविहम्मिय । दसविहे य पच्छित्ते, सव्वे ते परिनिट्ठिया ।।
[ भा. ६४५५ ]
वृ- सर्वेऽपि ते भगवन्तश्चारित्रवन्तः 'दर्शने च' सम्यक्त्वे 'परिनिष्ठिताः' परमकोटिमुपगताः ज्ञानमङ्गीकृत्य तु नवपूर्विणो जघन्येन, उत्कर्षतः 'दशपूर्विणः ' किञ्चिद् न्यूनदशपूर्वधरा मन्तव्याः । तथा- 'पञ्चविधे व्यवहारे' आगम श्रुताऽऽज्ञा धारणा - जीतलक्षणे 'द्विविधे च कल्पे' अकल्प
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International