________________
उद्देशक : ६, मूलं-२१५, [भा. ६४५५ ]
४२३
स्थापना-शैक्षस्थापनाकल्परूपे जिनकल्प-स्थविरकल्परूपे वा 'दशविधे च प्रायश्चित्ते' आलोचनादौ पाराञ्चिकान्ते सर्वेऽपि ते 'परिनिष्ठिताः' परिज्ञायां परां निष्ठां प्राप्ताः ।। अप्पणो आउगं से, जाणित्ता ते महामुनी । परक्कमं च बल विरियं, पच्चवाते तहेव य ॥
[भा. ६४५६ ]
वृ- आत्मन आयुः शेषं सातिशयश्रुतोपयोगेन ज्ञात्वा ते महामुनयः, 'बलं' शारीरं सामर्थ्यम्, 'वीर्य' जीवशक्ति, तदुभयमपि दर्शितस्वफलं पराक्रमः, एतान्यात्मनो विज्ञायामुं कल्पं प्रतिपद्यन्ते । 'प्रत्यपायाः' जीवितोपद्रवकारिणो रोगादयस्तानपि 'तथैव' प्रथममेवाभोगयन्ति, किं प्रतिपन्नानां भविष्यन्ति ? न वा ? इति । यदि न भवन्ति ततः प्रतिपद्यन्ते, अन्यथा तु नेति ॥ आपुच्छिऊण अरहंते, मग्गं देखेंति ते इमं ।
[भा. ६४५७]
पमाणाणि य सव्वाई, अभिग्गहे य बहुविहे ||
वृ- 'अर्हतः ' तीर्थकृत आपृच्छ्य ते तेषामनुज्ञयाऽमुं कल्पं प्रतिपद्यन्ते । 'तेच' तीर्थकृतस्तेषां प्रस्तुतकल्पस्य 'इमम्' अनन्तरमेव वक्ष्यमाणं 'मार्ग' सामाचारीं देशयन्ति । तद्यथा प्रमाणानिच सर्वाणि, अभिग्रहांश्च बहुविधान् । एतान्येव व्याचष्टे -
[भा. ६४५८]
गणोवहिपमाणाई, पुरिसाणं च जाणि तु ।
दव्वं खेत्तं च कांच, भावमन्ने य पज्जवे ॥
कृ- गणप्रमाणान्युपधिप्रमाणानि पुरुषाणां च प्रमाणानि यानि प्रस्तुते कल्पे जघन्यादिभेदादनेकधा भवन्ति, यच्च तेषां 'द्रव्यम्' अशनादिकं कल्पनीयम्, यच्च 'क्षेत्रं' मासकल्पप्रायोग्यं वर्षावासप्रायोग्यं वा, यश्चैतयोरेव मासकल्प-वर्षावासयोः प्रतिनियतः कालः, यश्च 'भावः' क्रोधनिग्रहादिरूपः, येच 'अन्येऽपि' निष्प्रतिकर्मतादयो लेश्या ध्यानादयो वा पर्यायास्तेषां सम्भवन्ति तान् सर्वानपि भगवन्तस्तेषामुपदिशन्ति ॥ [ भा. ६४५९]
पंचहिं अग्गहो भत्ते, तत्थेगीए अभिग्गहो ।
उवहिणो अग्गहो दोसुं, इयरो एक्कतरीय उ ॥
-
वृ- भक्ते उपलक्षणत्वात् नके च संसृष्टा ऽ संसृष्टारव्यमाद्यमेषणाद्वयं वर्जयित्वा पञ्चभिः उपरितनीभिरेषणाभि ' आग्रह : ' स्वीकारः । तत्रापि 'एकस्याम्' एकतरस्यामभिग्रहः, एकया कयाचिद् भक्तमपरया पानकमन्वेषयन्तीत्यर्थः । आह च बृहद्भाष्यकृत्
संस माइयाणं, सत्तण्हं एसणाण उ ।
इल्लाहि उ दोहिं तु, अग्गहो गह पंचहिं ॥
तत्थ वि अन्नयरीए, एगीए अभिग्गहं तु काऊणं । ति ।
उपधिः-वस्त्रादिरूपस्तस्य उद्दिष्ट-प्रेक्षा-अन्तरा-उज्झितधर्मिकाख्याः पीठिकायां व्याख्याता याश्चतस्र एषणास्तत्र 'द्वयोः' उपरितनयोः 'आग्रह:' स्वीकारः । 'इतरः' अभिग्रहः स एकतरस्यामुपरितन्यां भवति, यदा चतुर्थ्या न तदा तृतीयायाम् यदा तृतीयायां न तदा चतुर्थ्या गृह्णन्तीति भावः ॥ कदा पुनस्तेऽमुं कल्पं प्रतिपद्यन्ते ? इत्याह
[ भा. ६४६० ]
अइरोग्यम्मि सूरे, कप्पं देसिंति ते इमं ।
आलोइय-पडिक्कंता, ठावयंति तओ गणे ||
वृ- अचिरोद्गते सूर्ये 'ते' भगवन्तः कल्पमिमं 'देशयन्ति' स्वयं प्रतिपत्त्याऽन्येषां दर्शयन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org