SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २७८ बृहत्कल्प-छेदसूत्रम् -३-५/१४७ निर्गमनं करोति ततो निर्गतस्य तस्य स्वगणे परगणे च प्रत्येकमष्टौ स्पर्द्धकानि वक्ष्यमाणानि भवन्ति ॥ खर-परुष-निष्ठुरपदानि व्याख्याति[भा.५७५१] उच्चं सरोस भणियं, हिंसग-मम्मवयणं खरं तंतू। ___अक्कोस निरुवचारिं, तमसमं निट्ठरं होती॥ वृ-'उच्चं' महता स्वरेण सरोषं यद् भणितं हिंसकंमर्मघट्टनवचनं वा तत् तु खरं मन्तव्यम् । जकारादिकं यद् आक्रोसवचनं यच्च निरुपचारि' विनयोपचाररहितंतत्परुषम्। यद् 'असभ्यं' सभाया अयोग्यं 'कोलिकस्त्वम्' इत्यादिकंवचनंत निष्ठुरंभण्यते॥ईशानि भणित्वा गच्छाद् निर्गतस्याचार्य प्रायश्चित्तविभागं दर्शयितुकाम इदमाह[भा.५७५२] अट्ठऽट्ठ अद्धमासा, मासा होतऽट्ट अट्ठसु पयारो। वासासु असंचरणं, न चेव इयरे विपेसंति॥ वृ- स्वगणे यान्याचार्यसत्कानि अष्टौ स्पर्धकानि तेषु पक्षे पक्षे अपरापरस्मिन् स्पर्द्धके संचरतोऽष्टावर्द्धमासाभवन्ति, परगणसत्केष्वप्यष्टसुस्पर्द्धकेषुपक्षेपक्षे संचरतोऽष्टावर्द्धमासाः, एवमुभयेऽपि मीलिता अष्टौ मासा भवन्ति । अष्टसु च ऋतुबद्धमासेषु साधूनां 'प्रचारः' विहारो भवतीति कृत्वा अष्टग्रहणं कृतम् । वर्षासु चतुरोमासान् तस्याधिकरणकारिणः साधोः संचरणं नास्ति, वर्षाकाल इति कृत्वा । 'इतरेऽपि' येषां स्पर्द्धके सान्तस्तेऽपितं प्रज्ञाप्य वर्षावास इति कृत्वा यतो गणादागतस्तत्र न प्रेषयन्ति । तत्र यानि स्वगणेऽष्टौ स्पर्द्धकानि तेषु सङ्क्रान्यस्य तैः स्वाध्याय-भिक्षा-भोजन-प्रतिक्रमणवेलासु प्रत्येकं सारणा कर्तव्या-आर्य ! उपशमं कुरु । यदि एवं न सारयन्ति ततो मासगुरुकम् ॥ तस्य पुनरनुपशाम्यत इदं प्रायश्चित्तम्[भा.५७५३] सगणम्मि पंचराइंदियाइं दस परगणे मणुनेसू । अन्नेसु होइ पनरस, वीसा तु गयस्स ओसने ।। वृ- स्वगणस्पर्द्धकेषु सङ्क्रान्तस्यानुपशाम्यतो दिवसे दिवसे पञ्चरात्रिन्दिवच्छेदः । परगणे 'मनोज्ञेषु' साम्भोगिकेषु सङ्क्रान्तस्य दशरात्रिन्दिवः, अन्यसाम्भोगिकेषु पञ्चदशरात्रिन्दिवः । अवसनेषुगतस्य विंशतिरात्रिन्दिवच्छेदः ॥एवं भिक्षोरुक्तम्।अथोपाध्याया-ऽऽचार्ययोरुच्यते[भा.५७५४] एमेव य होइ गणी, दसदिवसादी उ भिन्नमासंतो। पन्नरसादी तु गुरू, चतुसु वि ठाणेसुमासंतो॥ वृ- एवमेव 'गणिनः' उपाध्यायस्यापि अधिकरणं कृत्वा परगणं सङ्क्रान्तस्य मन्तव्यम् । नवरम्- दशरात्रिन्दिवमादौ कृत्वा भिन्नमासान्तस्तस्य च्छेदः । एवमेव 'गुरोरपि' आचार्यस्य 'चतुर्यु' स्वगण-परगण साम्भोगिका- ऽन्यसाम्भोगिका-ऽवसन्नेषु पञ्चदशरात्रिन्दिवादिको मासिकान्तश्छेदः ॥ एतत् पुरुषाणां स्वगणादिस्थानविभागेन प्रायश्चित्तमुक्तम् । अथैतेष्वेव स्थानेषु पुरुषविभागेन प्रायश्चित्तमाह[भा.५७५५] . सगणम्मि पंचराइंदियाइं भिक्खुस्स तद्दिवस छेदो। दस होंति अहोरत्ता, गणि आयरिए य पन्नरस ॥ वृ- स्वगणे सङ्क्रान्तस्य भिक्षोस्तद्दिवसादारभ्य दिने दिने पञ्चरात्रिन्दिवच्छेदः । 'गणिनः' उपाध्यायस्य दशरात्रिन्दिवः । आचार्यस्य पञ्चदशरात्रिन्दिवः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy