________________
उद्देशकः ५, मूलं-१४७, [भा. ५७५६]
२७९
[भा.५७५६] अन्नगणे भिक्खुस्सा, दसेव राइंदिया भवे छेदो।
पन्नरस अहोरत्ता, गणि आयरिए भवे वीसा ।। वृ- अन्यगणे साम्भोगिकेषु सङ्क्रान्तस्य भिक्षोर्दशरात्रिन्दिवच्छेदः, उपाध्यायस्य पञ्चदशरात्रिन्दिवः,आचार्यस्य विंशतिरात्रिन्दिवः । एवमन्यसाम्भोगिकेषु अवसन्नेषुच प्रागुक्तानुसारेण नेयम् ।। अथैवं प्रतिदिनं छिद्यमाने पर्याये पक्षण कियन्तो मासाअमीषां छिद्यन्ते? इति जिज्ञासायां छेदसङ्कलनामाह[भा.५७५७] अड्डाइजा मासा, पक्खे अट्ठहि मासा हवंति वीसं तू।
पंच उ मासा पक्खे, अट्ठहि चत्ता उ भिक्खुस्स।। वृ-स्वगणेसङ्क्रान्तस्य भिक्षोःप्रतिदिनंपञ्चकच्छेदेनच्छिद्यमानस्य पर्यायस्य पक्षणअर्द्धतृतीया मासाश्छिद्यन्ते । तथाहि-पक्षे पञ्चदश दिनानि भवन्ति, तैः पञ्च गुण्यन्ते चाष्टौ स्पर्द्धकानि, तेषु पक्षे पक्षे सञ्चरतः पञ्चकभिर्गुणितं जातानि षट् शतानि, तेषां त्रिंशता भागे हृते विंशतिर्मासा लभ्यन्ते। एवमुत्तरत्रपि गुणकार-भागाहारप्रयोगेण स्वबुध्या उपयुज्यमासाआनेतव्याः। परगणे सङ्क्रान्तस्य भिक्षोर्दशकेनच्छेदेन च्छिद्यमानस्य पर्यायस्य पक्षेण पञ्च मासाश्छिद्यन्ते, दशकेनैव च्छेदेनाष्टभि पक्षैश्चत्वारिंशद् मासाश्छिद्यन्ते ॥ एवं भिक्षोरुक्तम् । उपाध्यायस्य पुनरिदम्[भा.५७५८] पंच उमासा पक्खे, अट्टहि मासा हवंति चत्ता उ।
अद्धऽट्ठ मास पक्खे, अट्ठहि सद्धिं भवे गणिणो॥ वृ- उपाध्यायस्यापि स्वगणे दशकेन च्छेदेन पक्षेण पञ्च मासाः, अष्टभिः पक्षश्चत्वारिंशद मासाश्छिद्यन्ते। तस्यैव परगणेपञ्चदशकेनच्छेदेनार्द्धाष्टममासाः पक्षणच्छिद्यन्ते।परगणएवाष्टभिः पक्षैः षष्टिसा गणिनश्छिद्यन्ते। [भा.५७५९] अद्धट्ठ मास पक्खे, अट्ठहि मासा हवंति सहिंतु।
दस मासा पक्खेणं, अहहऽसीती उ आयरिए॥ वृ-आचार्यस्य स्वगणे सङ्क्रान्तस्य पञ्चदशकेनच्छेदेनच्छिद्यमाने पर्याये पक्षणार्धाष्टमासाः, अष्टभिः पक्षैः षष्टिर्मासाश्चिद्यन्ते । तस्यैव परगणे सङ्क्रान्तस्य विंशेन छेदेन पक्षण दश मासाः अष्टभिः पक्षरशीतिर्मासाश्छिद्यन्ते॥ एवंस्वगणेपरगणेचसाम्भोगिकेषुसङ्क्रान्तस्यच्छेदसङ्कलनाऽभिहिता । अन्यसाम्भोगिकेषु अवसनेषु च सङ्क्रान्तस्य भिक्षोरुपाध्यायस्याचार्यस्य चानयैव दिशा छेदसङ्कलना कर्तव्या[भा.५७६०] एसा विही उ निग्गए, सगणे चत्तारि मास उक्कोसा।
चत्तारि परगणम्मिं, तेन परं मूल निच्छुभणं॥ वृ-एष विधिर्गच्छाद् निर्गतस्योक्तः ।अत्रच स्वगणेऽष्टसुस्पर्द्धकेषु पक्षेपक्षे सञ्चरतश्चत्वारो मासा उत्कर्षतो भवन्ति, परगणेऽप्येवं चत्वारोमासाः, अवसन्नेष्वपि चत्वारोमासाः। ततः परं यदि उपशान्तस्ततो मूलम् । अथ नोपशान्तस्तदा निष्काशनं कर्तव्यम्, लिङ्गमपहरणीयमित्यर्थः। [भा.५७६१] चोएइ राग-दोसे, सगण परगणे इमं तु नाणतं ।
पंतावण निच्छुभणं, पर-कुलधर घाडिए न गया। वृ-शिष्यःप्रेरयति-राग-द्वेषिणोयूयम्, यत्स्वगणेस्तोकंछेदप्रायश्चित्तंदत्तपरगणेतुप्रभूतम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org