SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १९० बृहत्कल्प-छेदसूत्रम् -३-४/१२२ हृदयम्-सर्वोऽपि तपो-नियमादिकः प्रयासोऽस्माकंसंसारनिस्तरणार्थम्, तेच तपःप्रभृतयो गुणा गुरूपदेशमन्तरेण न सम्यगवगम्यनते, न वा निरवशेषा अपि यथावदनुष्ठातुं शक्यन्ते, अतः संसारनिस्तरणार्थमाचार्याणां प्रायोग्यानयनादिना कर्तव्यमेव वैयावृत्यमिति ॥ अपिच[भा.५३०५] जति ताव लोइय गुरुस्स लहुओ सागारिओ पुढविमादी। . आनयने परिहरिया, पढमा आपुच्छ जतणाए॥ वृ- यदि तावल्लौकिका अपि यो गुरु-पिता ज्येष्ठाबन्धुर्वा कुटुम्बं धारयति तस्मिन्नभुक्ते न भुञ्जते, यच्चोत्कृष्टं शाल्योदनादिकंतत्तस्य प्रयच्छन्ति; ततःकिंपुनर्यस्यप्रभावेन संसारोनिस्तीर्यते तस्य प्रायोग्यमदत्त्वा एवमेव भुज्यते? । यस्तु भङ्केतस्यमासलघु वसतेरभावाच तत्र भुआनान् सागारिको यदि पश्यति तदा चतुर्लघु, आज्ञादयश्च दोषाः । अस्थण्डिलेच समुद्दिशतां पृथिव्यादिविराधना।आनयनेतु सर्वेऽप्येतेदोषाः परिहता भवन्ति, अतोगुरुसमीपमानेतव्यम्।द्वितीयपदे प्रथमालिकां कुर्वन्तो गुरुमापृच्छय गच्छन्ति।यतनयाच यथा संसृष्टं न भवति तथा प्रथमालिका कर्तव्या॥ [भा.५३०६] चोगवयणं अप्पाऽनुकंपिओ ते य भे परिचत्ता। आयरिए अनुकंपा, परलोए इह पसंसणया॥ -'नोदकवचननाम परःप्रेयति-यावत्तेततोग्रामात्प्रत्यागच्छन्तितावत्तृष्णाक्षुधाक्लान्ता अतीव परिताप्यन्ते, एवं प्रस्थापयद्भिर्भवद्भिरात्मा अनुकम्पितः 'ते च साधवः परित्यक्ता भवति । गुरुराह-ननु मुग्ध ! त एवानुकम्पिताः, कथम् ? इत्याह-"आयरिए" इत्यादि, यद् आचार्यवैयावृत्ये नियुक्ता एषापारलौकिकी तेषामनुकम्पा; इहलोकेऽपितेऽनुकम्पिताः, यतो बहुभ्यः साधु-साध्वीजनेभ्यः प्रशंसामासादयन्ति॥परः प्राह- . [भा.५३०७] एवं पिपरिचत्ता, काले खमए य असहुपुरिसे य। कालो गिम्हो उ भवे, खमओ वा पढम-बितिएहिं॥ वृ-यतस्ते बुभुक्षित-तृषिता भाराक्रान्ताः शीत-वाता-ऽऽतपैरभिहताः पन्थानं वहन्ति, यूयं तुशीतलच्छायायांतिष्ठथ, ततएवमपितेपरित्यक्ताः।सूरिराह-तेषामपिकालंक्षपकमसहिष्णुपुरुषं च प्रतीत्य प्रथमालिकाकरणमनुज्ञातम् । तत्र कालः-ग्रीष्मलक्षणस्तस्मिन् प्रथमालिकां कृत्वा पानकं पिबन्ति, क्षपको वा प्रथम-द्वितीयपरीषहाभ्यामतीव बाधितः प्रथमालिकां करोति, एवमसहिष्णुरपि बुभुक्षातः प्रथमालिकां कुर्यात् ॥अत्र परः प्राह[भा.५३०८] जइ एवं संसहूं, अप्पत्ते दोसियाइणं गहणं। लंबण भिक्खा दुविहा, जहन्नमुक्कोस तिय पनए॥ वृ- यद्येवमसौ बहिरेव प्रथमालिकां करोति ततो भक्तं संसृष्टं भवति, संसृष्टे च गुर्वादीनां दीयमानेऽभक्ति कृता भवति । गुरुराह-अप्राप्ते देश-काले दोषान्नादेहणं कृत्वा येषु वा कुलेषु प्रभाते वेला तेषु पर्यटय प्रथमालिकां कुर्वन्ति, भाजनस्य चकल्पं कुर्वन्ति।प्रथमालिकाप्रमाणंच द्विधा-लम्बनतो भिक्षातश्च । तत्र जघन्येन त्रयः ‘लम्बनाः' कवलास्तिस्रश्च भिक्षाः, उत्कर्षतः पञ्च लम्बनाः पञ्च वा भिक्षाः। शेषं सर्वमपि मध्यमं प्रमाणम् ।। अथ तैः कुत्र किंग्रहीतव्यम् ? इति निरूपयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy