________________
उद्देशकः ४, मूलं-१२२, [भा. ५२९९]
१८९ 'इहापि' गच्छवासेतरुणा भिक्षवो वीर्यसम्पन्ना उत्साहवन्तोबाह्यग्रामे हिण्डमानाआत्मनः परेषां च-बाल-वृद्धादीनां सुखावहा भवन्ति ।। कथम्? इति चेद् उच्यते[भा.५३००] खीर-दहीमादिण य, लंभो सिग्घतर पढम पइरिक्के ।
उग्गमदोसा विजढा, भवंति अनुकंपिया चितरे । वृ-यथा तेऽलसाश्चेटकास्तथा बाल-वृद्धादयोऽपि कुब्जबदरीकल्पे तस्मिन् मूलग्रामे प्रत्यहमुद्वेज्यमानतया चिरमपि हिण्डमानाः कोद्रव-कूरादिकमेव लभन्ते, तदपि न पर्याप्तम् ।ये तुतरुणाबहिमि गच्छन्तितेऽनलसचेटकल्पाः, ततः क्षीर-दध्यादीनांप्रायोग्यद्रव्याणां लाभस्तेषां बहिमि भवति, शीघ्रतरंच ते स्वगरामे आगच्छन्ति । “पढम" तिप्रतमालिकांचस्वयं कुर्वन्ति, बालादिभ्यःप्रथमतरंवासमागच्छन्ति। “पइरिकं"तिप्रचुरं भक्त-पानमुत्पादयन्ति।उद्गमदोषाश्च 'विजढाः' परित्यक्ता भवन्ति। इतरेच' बालादयोऽनुकम्पिताभवन्ति॥अमुमेवार्थसविशेषमाह[भा.५३०१] एवं उग्गमदोसा, विजढा पइरिक्कया अनोमानं।
मोहतिगिच्छा य कता, विरियायारो य अनुचिन्नो॥ वृ- ‘एवं' बहिग्रामे गच्छद्भिस्तैः 'उद्गमदोषाः' आधाकर्मादयः परित्यक्ता भवन्ति । "पइरिक्कय" त्ति प्रचुरस्य भक्त-पानसय लाभो भवति । 'अनपमानं' स्वपक्षापमानं न भवति । 'मोहचिकित्सा च' परिश्रमा-ऽऽतप-वैयावृत्यादिभिर्मोहस्य निग्रहः कृतो भवति । वीर्याचारश्च 'अनुचीर्णः' अनुष्ठितो भवति ।। अथ परः प्राह[भा.५३०२] उज्जानतो परेणं, उवातिणंतम्मिपुव्व जे भणिता।
भारादीया दोसा, ते चेव इहंतु सविसेसा॥ वृ-ननुशोभनमिदम् यद् अर्योजनंगम्यते, किन्तुतेषां भरितभाराणामाचार्यसकाशमागच्छतां ये पूर्वमुद्यानात् परेण 'उपानाययति' अतिक्रामयति भारादयो दोषा भणितास्त एवेह सविशेषा भवन्ति॥ ततः किं कर्तव्यम् ? इत्याह[भा.५३०३] तम्हा तुनगंतव्वं, तहि भोत्तव्वं न वा वि भोत्तव्वं ।
इहरा भे ते दोसा, इति उदिते चोदगंभणति॥ वृ-तस्मादाचार्यसमीपे भक्त-पानेन गृहीतेन न गन्तव्यं किन्तु 'तत्रैव' बहिमि भोक्तव्यम्, एवं भारादयो दोषाः परिहृता भवन्ति । “न वा विभोत्तव्वं" ति वाशब्दः पक्षान्तरद्योतकः, अथ भवन्तो भणिष्यन्ति-नैव बहिग्रामे भोक्तव्यम्, तत एवमितरथा "भे" भवतां 'तएव' भारादयो दोषाः । एवं 'उदिते' भणिते सति सूरि!दकं भणति-यदि तत्र समुद्दिशन्ति ततो मासलघु, भवतोऽप्येवं भणतो मासलघु, तैश्च तत्रप्रायोग्यं समुद्दिशद्भिराचार्यादयः परित्यक्तामन्तव्याः, तेषां प्रायोग्यमन्तरेण परितापनादिसम्भवात् ॥
आह किमिवाचार्यमन्तरेण न सिध्यति यदेवं तदर्थं प्रायोग्यमानीयते? इत्याह[भा.५३०४] जइ एयविप्पहूणा, तव-नियमगुणा भवे निरवसेसा।
आहारमाइयाणं, को नाम कहं पि कुव्वेज्जा ।। वृ-यदि एतेन-आचार्येण विप्रहीणाः-एनमन्तरेणेत्यर्थः तपो-नियमगुणा निरवशेषा भवेयुः तत आचार्यप्रायोग्याणामाहारादीनामन्वेषणे को नाम कथामपि कुर्वीत?, न कश्चित् । इदमत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org