________________
उद्देशक : ४, मूलं- १२८, [भा. ५४६३ ]
विधिरुच्यते ॥ तत्र संविग्नस्यासंविग्नसङ्क्रमणे तावदिमे दोषाः
[ मा. ५४६४ ] सीहगुहं वग्घगुहं, उदहिं व पलित्तगं व जो पविसे । असिवं ओमोयरियं, धुवं से अप्पा परिच्चत्तो ॥
वृ- सिंहगुहां व्याघ्रगुहां 'उदधिं वा' समुद्रं प्रदीप्तं वा नगरादिकं यः प्रविशति, अशिवमवमौदर्य वा यत्र देशे तत्र यः प्रविशति तेन ध्रुवमात्मा परित्यक्तः ॥
[भा. ५४६५ ] चरण-करणप्पहीने, पासत्थे जो उ पविसए समणो । चतमाणए पजहिउं, सो ठाणे परिचयइ तिन्नि ||
वृ- एवं सिंहगुहादिस्थानीयेषु चरण-करणप्रहीणेषु पारश्वस्थेषु यः श्रमणः 'यतमानान्' संविग्नान् 'प्रहाय' परित्यज्य प्रविशति स मन्दधर्मा 'त्रीणि स्थानानि' ज्ञान-दर्शन- चारित्ररूपाणि परित्यजति । अपि च- सिंहगुहादिप्रवेशे एकभविकं मरणं प्राप्नोति, पार्श्वस्थेषु पुनः प्रविशनन्ननेकानि मरणानि प्राप्नोति ॥
[भा. ५४६६ ]
एमेव अहाछंदे, कुसील- ओसन्न-नीय संसत्ते । जं तिन्नि परिच्चयई, नाणं तह दंसण चरितं ॥
२२३
वृ- 'एवमेव' पार्श्वस्थवद् यथाच्छन्देषु कुशीला ऽवसन्न- नित्यवासि संसक्तेषु च प्रविशतो मन्तव्यम् । यच्च त्रीणि स्थानानि परित्यजतीतयुक्तं तद् ज्ञानं दर्शनं चारित्रं चेति द्रष्टव्यम् ॥
गतो द्वितीयभङ्गः । अथ तृतीयभङ्गमाह
[भा. ५४६७ ]
पंचन्हं एगयरे, संविग्गे संकमं करेमाणे । आलोइए विवेगो, दो असंविग्गे सच्छंदो ॥
वृ- पार्श्वस्था ऽवसन्न- कुशील- संसक्त-यथाच्छन्दानामेकतरः संविग्नेषु सङ्क्रमं कुर्वन् प्रथममालोचनां ददाति, तत आलोचितेऽविशुद्धोपधेर्विवेकं करोति । स च यदि चारित्रार्थमुपसम्पद्यते ततः प्रतीच्छनीयः । यस्तु 'द्वयोः' ज्ञान-दर्शनयोरर्थायासंविग्न उपसम्पद्यते तस्य 'स्वच्छन्दः ' स्वाभिप्रायः, नासौ प्रतीच्छनीय इति भावः । अथवा “दोसु असंविग्गे”त्ति 'असंविग्नोऽसंविग्ने सङ्क्रामति' इति रूपे द्विधाऽप्यसंविग्ने चतुर्थभङ्गे 'स्वच्छन्दः' स्वेच्छा, अवस्तुभूतत्वाद् न कोऽपि तत्र विधिरिति भावः ॥ [भा. ५४६८ ]
पंचेगतरे गए, आरुभियवते जयंतए तम्मि । जं वहिं उप्पाए, संभोइत सेसमुज्झति ॥
वृ-तेषां पञ्चानां पार्श्वस्थादीनामेकतर आगच्छन् यदि गीतार्थस्ततः स्वयमेव महाव्रतान्युच्चार्यारोपितव्रतो यतमानः - व्रजिकादावप्रतिबध्यमानो मार्गे यमुपधिमुत्पादयति स साम्भोगिकः, "सेसमुज्झति" त्ति यः प्राक्तनः पार्श्वस्थोपधिरशुद्धस्तं परिष्ठापयन्ति । यः पुनरगीतार्थस्तस्य व्रतानि गुरवः प्रयच्छन्ति, उपधिश्च तस्य चिरन्तनोऽभिनवोत्पादितो वा सर्वोऽपि परित्यज्यते ॥ तेषु चायमालोचनाविधिः
[ मा. ५४६९ ] पासत्थाईमुंडिए, आलोयण होइ दिक्खपभिरं तु । संविग्गपुराणे पुन, जप्पभिई चेव ओसन्नो ।।
वृ- यः पार्श्वस्थादिभिरेव मुण्डितः प्रव्राजितस्तस्य दीक्षादिनादारभ्य आलोचना भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org