________________
उद्देशकः ३, मूलं-९७, [भा. ४४६४] संयमाभिमुखेन साधुना मोक्तव्योऽसौ, नाश्रयणीय इति भावः । गाथायां प्राकृतत्वाद् इकारस्य दीर्घत्वम् ।। प्रकारान्तरेण प्रायश्चित्तमभिधित्सुः प्रस्तावनामाह[भा.४४६५] अयमपरो उ विकप्पो, पुव्वावरवाहय त्ति ते बुद्धी।
लोए वि अनेगविहं, ननु भेसज मो रुजोवसमे॥ वृ-'अयम्' अग्रेतनगाथायां वक्ष्यमाणोऽपरः प्रायश्चित्तस्य 'विकल्पः' प्रकारः । अत्र परः प्राह-'पूर्वापरव्याहतमिदं' पूर्वमन्याशं प्रायश्चित्तमुक्त्वा यदिदानीमन्याशमभिधीयते तदेतत् पूर्वापरविरुद्धम् इति 'ते' तवबुद्धि स्यात् तत्रोच्यते-ननुलोकेऽपिरुजोपशमे विधातव्येतथाविधे त्रिफला-त्रिकटुकादिभेदादनेकविधं भेषजं “मो" इति पादपूरणे प्रयुज्यमानं दृष्टमेव, एवमत्राप्येकस्यैवानभ्युत्थानस्य तथातथाक्षेत्र-महाजनादिभेदेनानेकविधंप्रायश्चित्तमभिधीयमानं न विरुध्यते ।। इत्थं पराभिप्रायं परिहत्य प्रायश्चित्तमाह[भा.४६६] वीयार-साहु-संजइ-निगम-घडा-राय-संघ-सहिते तु।
लहुगो लहुगा गुरुगा, छम्मासा छेद मूल दुगं॥ कृ-आचार्यविचारभूमेरागतंनाभ्युत्तिष्ठन्तिमासलघु, साधुभिसममायामनभ्युत्तिष्ठतांचतुर्लघवः, संयतीभिः समं चतुर्गुरवः, निगमैः-पौरवणिग्विशेषैः षड्लघवः, घटया-महत्तरा-ऽनुमहत्तरादिगोष्ठीपुरुषसमवायलक्षणया समं छेदः, सङ्घन समं मूलम्, राज्ञा सममनवस्थाप्यम्, “सहिए तु"त्ति सङ्कसहितेन राज्ञा सममायातमनभ्युत्तिष्ठतां पाराञ्चिकम् ॥
गतमभ्युत्थानम् । अथ वन्दनकमभिधित्सुराह[भा.४६७] देसिय राइय पक्खिय, चाउम्मासे तहेव वरिसे य ।
लहुगुरु लहुगा गुरुगा, वंदनए जानि य पदाणि ॥ वृ-दैवसिके रात्रिकेवा आवश्यके वन्दनकंन ददतिमासलघु। पाक्षिके वन्दनकंन प्रयच्छन्ति मासगुरु । चातुर्मासिके वन्दनकमददतां चतुर्लघु । सांवत्सरिके वन्दनकादाने चतुर्गुरु । चशब्दाद् विपरीतं न्यूनाधिकं च कुर्वतां लघुमासः । यानि च वन्दनके व्यवनत-यथाजातादीनि पदानि तेषामप्यकरणेऽसामाचारीनिष्पन्नं मासलघु ॥अथैतदेव प्रायश्चित्तं विशेषयन्नाह[भा.४६८] आयरियाइचउण्हं, तव-कालविसेसियं भवे एयं ।
अहवा पडिलोमेयं, तव-कालविसेसओ होइ॥ वृ-आचार्यादीनां चतुर्णामपि 'एतद्' अनन्तरोक्तं प्रायश्चित्तं तपः-कालविशेषितं भवतितत्राचार्यस्य द्वाभ्यामपि तपः-कालाभ्यां गुरुकम्, वृषभस्य तपोगुरुकम्, भिक्षोः कालगुरुकम्, क्षुल्लकस्यतपसा कालेन च लघुकम् । अथवा तपः-कालविशेषत एतदेव 'प्रतलोम पश्चानुपूर्व्या वक्तव्यम्-आचार्यस्य द्वाभ्यामपि लघुकम्, वृषभस्य कालगुरुकम्, भिक्षोस्तपोगुरुकम्, क्षुल्लकस्य द्वाभ्यामपि गुरुकम् ॥अथ “देसिय-राइय"त्ति पदद्वयं विशेषतो भावयति[भा.४६९] दुगसत्तगकिइकम्मस्स अकरणे होइ मासियं लहुगं।
आवासगविवरीए, ऊणऽहिए चेव लहुओ उ॥ वृ"दुगसत्तग"त्तिद्वेसप्तके चतुर्दश भवन्तीति कृत्वापूर्वाह्ना-ऽपरालयोश्चतुर्दशवन्दनकानि भवन्ति। कथम्? इति चेद्उच्यते-इह रात्रिप्रतिक्रमणेचत्वारि वन्दनकानि-तत्रैकमालोचनायाम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org