SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ४०६ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ -अथवा य एष प्रस्तुतशास्त्र प्रलम्बादिकः 'बहधा' अनेकविधः कल्पः समाख्यातः तस्य 'षट्स्थाना' षट्प्रकारा स्थितिर्भवति। स्थितिरिति मर्यादा इति चैकार्थी शब्दौ । भूयोऽपि विनेयानुग्रहार्थं स्थितेरेवैकार्थिकान्याह[भा.६३५६] पतिट्ठा ठावणा ठाणं, निव्विसमाणे तहेव निविटे। अवट्ठाणं अवत्था य, एकट्ठा चिट्ठणाऽऽति य॥ वृ-प्रतिष्ठास्थापना स्थानं व्यव्सथा संस्थिति स्थितिअवस्थानम् अवस्थाच, एतान्येकार्थिकानि पदानि । तथा "चिट्ठणं" ऊर्ध्वस्थानम् आदिशब्दाद् निषदनं त्वग्वर्तनं च, एतानि त्रीण्यपि स्थितिविशेषरुपाणि मन्तव्यानि॥साच कल्पिस्थिति षोढा, तद्यथा[भा.६३५७] सामाइए यछेदे, निव्विसमाणे तहेव निविट्टे । जिनकप्पे थेरेसुय, छव्विह कप्पट्टिती होति ।। कृ-सामायिकसंयतकल्पस्थितिछेदोपस्थापनीयसंयतकल्पस्थिति निर्विशमानकल्पस्थितितथैव निर्विष्टकायकल्पस्थिति जिनकल्पस्थिति स्थविरकल्पस्थितिश्रचेति षड्विधा कल्पस्थितिः॥ अथैनामेव यथाक्रमं विवरीषुः प्रथमतः सामायिककल्पस्थितिं विवृणोति[भा.६३५८] कतिठाण ठितो कप्पो, कतिठाणेहिं अद्वितो। वुत्तो धूतरजो कप्पो, कतिठाणपतिहितो॥ वृ-यः किल 'धुतरजाः' अपनीतपापकर्मा सामायिकसाधूनां कल्पः' आचारोभगवद्भिक्तः स कतिषु स्थानेषु स्थितः ? कतिस्थानप्रतिष्ठितश्चोक्तः? ।। सूरिराह[भा.६३५९] चउठाणठिओ कप्पो, छहिं ठाणेहिं अडिओ। एसोधूयरय क्कप्पो, दसट्ठाणपतिट्ठिओ॥ वृ-चतुःस्थानस्थितः कल्पः, षट्सुच स्थानेष्वस्थितः । तदेवमेष धुतरजाःसामायिकसंयतकल्पो दशस्थानप्रतिष्ठितः, केषुचित् स्थित्या केषुचित् पुनरस्थित्या दशसु स्थानेषु प्रतिबद्धो मन्तव्य इत्यर्थः । इदमेव व्यक्तीकरोति[भा.६३६०]चउहिं ठिता छहिं अठिता, पढमा बितिया ठिता दसविहम्मि। वहमाणा निव्विसगा, जेहि वहं ते उ निविट्ठ॥ वृ-'प्रथमाः' सूत्रकमप्रामाण्येन सामायिकसंयतास्ते चतुर्युस्थानेषुस्थिताः, षट्सुपुनरस्थिताः। गाथायां सप्तम्यर्थे तृतीया।येतु द्वितीयाः' छेदोपस्थापनीयसयतास्तेदशविधेऽपि कल्पे स्थिताः। पञ्चाङ्केन तृतीय-चतुर्थकल्पस्थित्योः शब्दार्थमाह- “वहमाणा" इत्यादि। ये परिहारविशक्तिकं तपोवहन्तितेनिर्विशमानकाः ।यैस्तुतदेव तपोव्यदंते निर्विष्टकायिकाउच्यन्ते॥आह-कानि पुनस्तानि चत्वारिषदवा स्थानानि येषुसामायिकसंयता यथाक्रमंस्थिता अस्थिताश्च? इतिअत्रोच्यते[भा.६३६१] सिञ्जायरपिंडे या, चाउजामे य पुरिसजेडे य । कितिकम्मस्स य करणे, चत्तारि अवट्ठिया कप्पा॥ वृ- “सिज्जातरपिंडे" त्ति “सूचनात् सूत्रम्" इति शय्यातरपिण्डस्य परिहरणं चतुर्यामः पुरुषज्येष्ठश्चधर्म कृतिकर्मणश्च करणम् । एते चत्वारः कल्पाः सामायिकसाधूनामप्यवस्थिताः । तथाहि-सर्वेऽपि मध्यमसाधवो महाविदेहसाधवश्च शय्यातरपिण्ड परिहरन्ति, चतुर्यामं च धर्ममनुपालयन्ति, 'पुरुषज्येष्ठश्च धर्म' इति कृत्वा तदीया अप्यार्यिकाश्चिरदीक्षिता अपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy