________________
उद्देशक ः ६, मूलं-२१५, [भा. ६३६१]
४०७ तद्दिनदीक्षितमपि साधुं वन्दन्ते, कृतिकर्म च यथारालिकं तेऽपि कुर्वन्ति । अत एते चत्वारः कल्पा अवस्थिताः॥इमे पुनः षडनवस्थिताः[भा.६३६२] आचेलक्कुद्देसिय, सपडिक्कमणे य रायपिंडे य ।
मासंपजोसवणा, छऽप्पेतऽनवहिता कप्पा ।। वृ-आचेलक्यमौद्देशिकंसप्रतिक्रमणोधर्मो राजपिण्डो मासकल्पः पर्युषणाकल्पश्चेतिषडप्येते कल्पामध्यमसाधूनां विदेहसाधूनांचानवस्थिताः। तथाहि-यदि तेषां वस्त्रप्रत्ययो रागो द्वेषो वा उत्पद्यते तदा अचेलाः, अथ न रागोत्पत्तिस्ततः सचेलाः, महामूल्यं प्रमाणातिरिक्तमपि च वस्त्रं गृह्णन्तीति भावः 'औद्देशिकं नाम' साधूनुद्दिश्य कृतं भक्तादिकम् आधाकर्मेत्यर्थः, तदप्यन्यस्य साधोराय कृतं तेषां कल्पते, तदर्थं तु कृतं न कल्पते । प्रतिक्रमणमपि यदि अतिचारो भवति ततः कुर्वन्ति अतिचाराभावेन कुर्वन्ति। राजपिण्डे यदि वक्ष्यमाणा दोषा भवन्तिततः परिहरन्ति अन्यथा गृह्णन्ति । मासकल्पे यदि एकक्षेत्रे तिष्ठतां दोषा न भवन्ति ततः पूर्वकोटीमप्यासते, अथ दोषा भवन्ति ततो मासे पूर्णेऽपूर्णे वा निर्गच्छन्ति । पर्युषणायामपि यदि वर्षासु विहरतां दोषा भवन्ति तत एकत्र क्षेत्रे आसते, अथ दोषा न भवन्ति ततो वर्षारात्रेऽपि विहरन्ति ।। गता सामायिकसंयतकल्पस्थितिः। अथ च्छेदोपस्थापनीयसाधूनां कल्पस्थितिमाह[भा.६३६३] दसठाणठितो कप्पो, पुरिमस्स य पच्छिमस्स य जिनस्स।
एसोधुतरत कप्पो, दसठाणपतिहितो होति।। वृ-दशस्थानस्थितःकल्पःपूर्वस्यचपश्चिस्यचपश्चिमस्यचजिनस्यतीर्थे छेदोपस्थापनीयसाधूनां मन्तव्यः । तदेवमेष धुतरजाः कल्पोदशस्थानप्रतिष्ठितो भवति॥तान्येव दशस्थानानिदर्शयति[भा.६३६४] आचेलक्कुद्देसिय, सिज्जायर रायपिंड कितिकम्मे ।
वत जेट्ट पडिक्कमणे, मासं-पजोसवणकपे। वृ-आचेलकस्यम् १ औद्देशिकं २ शय्यातरपिण्डो ३ राजपिण्डः ४ कृतिकर्म ५ व्रतानि ६ "जे?" त्ति पुरुषज्येष्ठो धर्मः ७ प्रतिक्रमणं ८ मासकल्पः ९ पर्युषणाकल्पश्च १० इति द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवरीषुराह[भा.६३६५] दुविहो होति अचेलो, संताचेलो असंतचेलोय ।
तित्थगर असंतचेला, संताचेला भवे सेसा ॥ वृ-द्विविधो भवत्सचेलः-सदचेलोऽसदचेलश्चातत्रतीर्थकराअसदचेलाः, देवदूष्यपतनानन्तरं सर्वदैव तेषां चीवराभावात्। शेषाः' सर्वेऽपि जिनकल्पिकादिसाधवः सदचेलाः, जघन्यतोऽपि रजोहरण-मुखवस्त्रिकासम्भवात् ।। आह-यद्येवंततः कथममी अचेला भण्यन्ते? उच्यते[भा.६३६६] सीसावेढियपुत्तं, नदिउत्तरणम्मि नग्गयं बेति।
जुन्नेहि नग्गिया मी, तुर सालिय! देहि मे पोतिं । वृ-जलतीमनभयात् शीर्षे-शिरसिआवेष्टितं पोतं-परिधानवस्त्रं येन स शीर्षावेष्टितपोतस्तम्, एवंविधंसचेलमपि 'नद्युत्तरणे' अगाधायाः कस्याश्चिद् नद्या उत्तरणं कुर्वन्तं दृष्टवा नग्नकंब्रुवते, 'नग्नोऽयम्' इति लोके वक्तारो भवन्तीत्यर्थः। यथा वा काचिदविरतिका परिजीर्णवस्त्रपरिधाना प्राक्समर्पितवेतनंतन्तुवायंशाटिकानिष्पादनालसंब्रवीति, यथा-जीर्णैर्वस्त्र परिहितैनग्निकाऽहमस्मिततस्त्वरस्व हे शालिक!' तन्तुवाय! देहि मे पोतिका' शाटिकाम्॥अथात्रैवोपनयमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org