________________
४०५
उद्देशकः ६, मूलं-२१५, [भा. ६३४९] कसंयतकल्पस्थिति' समः-राग-द्वेषरहितस्तस्य आयः-लाभो ज्ञानादीनां प्राप्तिरित्यर्थः, समाय एव सामायिकं-सर्वसावद्ययोगविरतिरुपम् तप्रधाना ये संयताः-साधवस्तेषां कल्पस्थितिः सामायिकसंयतकल्पस्थितः १ । तथा पूर्वपर्यायच्छेदेनोपस्थापनीयम्-आरोपणीयं यत् तत् छेदोपस्थापनीयम्, व्यक्तितो महाव्रतारोपणमित्यर्थः, तप्रधाना ये संयतास्तेषां कल्पस्थिति छेदोपस्थापनीयसंयतकल्पस्थिति२। निर्विशमानाः-परिहारविशुद्धिकल्पंवहमानास्तेषांकल्पस्थिति निर्विशमानकल्पस्थिति ३ । निर्विष्कायिका नाम-यैः परिहारविशुद्धिकं तपो व्यूढम्, निर्विष्ट:आसेवितो विधिक्षितचारित्रलक्षणः कायो यैस्ते निर्विष्टकायिका इतिव्युत्पत्तेः तेषां कल्पस्थितिः निर्विष्टकायिककल्पस्थिति ४ जिनाः-गछनिर्गताःसाधुविशेषास्तेषांकल्पस्थिति जिनकल्पस्थितिः ५ । स्थविराः-आचार्यादयो गच्छप्रतिबद्धास्तेषां कल्पस्थिति स्थविरकल्पस्थितिः ६ । 'इति' अध्ययनपरिसमाप्तौ । 'ब्रवीमि' इति तीर्थकर-गणधरोपदेशेन सकलमपि प्रस्तुतशास्त्रक्तंकल्पाऽकल्पविधि भणामि, न पुनः स्वमनीषिकया इति सूत्रसक्षेपार्थः ॥ सम्प्रति विस्तरार्थं बिभणिषुर्भाष्यकारः कल्पस्थितिपदे परस्याभिप्रायमाशङ्कय परिहरन्नाह - [भा.६३५०] आहारो त्ति य ठाणं, जो चिट्ठति सो ठिइत्ति ते बुद्धी।
ववहार पडुच्चेवं, ठिइरेव तुनिच्छए ठाणं ॥ वृ-सक्रियस्यजीवादिद्रव्यस्यतावदेतावदेव क्रियाद्वयं भवति-स्थानं वागमनंवा।तत्रस्थानस्य गमनं प्रतिपक्षो भवति, तत्परिणतस्य स्थानाभावात् । एवं स्थितेरपि गति प्रतिपक्षो भवति ॥ ततः किम् ? इत्याह[मा.६३५२] ठाणस्स होति गमनं, पडिपक्खो तह गती ठिईएउ।
नय गमनं तु गतिमतो, होति पुढो एवमितरं पि॥ वृ-स्थानस्य गमनंप्रतिपक्षोभवतिन स्थिति, स्थितेरपि गतिप्रतिपक्षोन स्थानम्, एवं स्थितिस्थानयोरेकत्वम् । तथा 'नच' नैव गमनं गतिमतो द्रव्यात् 'पृथग्' व्यतिरिक्तं भवति, एवम् 'इतरदपि' स्थानं स्थितिमतो द्रव्यादव्यतिरिक्तं मन्तव्यम् ॥ इदमेव व्यतिरेकद्वारेण द्रढयति[भा.६३५३] जय गमनं तु गतिमतो, होज पुढो तेन सो न गच्छेज्जा ।
जह गमनातो अन्ना, न गच्छति वसुंधरा कसिणा॥ .. वृ-यदि गमनं गतिमतः पुरुषादेः पृथग्भवेत् ततः 'असौ' गतिमान् न गच्छेत् । दृष्टान्तमाहयथा गमनात् 'अन्या' पृथग्भूता ‘कृत्स्ना' सम्पूर्णा वसुन्धरा न गच्छति । कृत्स्नाग्रहणं लेष्टुप्रभृतिकस्तदवयवो गच्छेदपि इति ज्ञापनार्थम् । एवं स्थानेऽपि भावनीयम्॥
यत एवमतः स्थितमेतत्[भा.६३५४] ठाण-ट्ठिइनाणत्तं, गति-गमनानं च अत्थतो नत्थि।
वंजणनाणत्तं पुन, जहेव वयणस्स वायातो।। कृस्थान-स्थित्योर्गति-गमनयोश्रचार्थतोनास्ति नानात्वम्, एकार्थत्वात्; व्यञ्जननानात्वंपुनरस्ति। यथैव वचनस्य वाचश्च परस्परमर्थतो नास्ति भेदः, शब्दतः पुनरस्तीति । अथवा नात्र स्थितिशब्दोऽवस्थानवाची किन्तु मर्यादावाचकः । तथा चाह[भा.६३५५] अहवा ज एस कप्पो, पलंबमादि बहुधा समक्खातो। ___छट्ठाणा तस्स ठिई, ठिति त्ति मेर ति एगट्ठा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org