________________
उद्देश : ६, मूलं - २१५, [ भा. ६४८० ]
वृ- ये स्थविरकल्पिकास्तेऽष्टादशभिर्मासैः पूर्णे 'पुनर्' भूयोऽपि गच्छं नियच्छन्ति, आगच्छन्तीत्यर्थः । एषा तेषां 'यथास्थिति' यथाकल्पः ।। अथ षड्विधायां कल्पस्थितौ का कुत्रावतरति ? इत्याह
[भा. ६४८१] तइय- चउत्था कप्पा, समोयरंति तु बियम्मि कष्पम्मि । पंचम छठितीसुं, हेट्ठिल्लाणं समोयारो ॥
वृ- 'तृतीय- चतुर्थी' निर्विशमनाक-निर्विष्टकायिकाख्यौ कल्पौ 'द्वितीये' छेदोपस्थापनीयनाम्नि कल्पे समवतरतः । तथा सामायिक-च्छेदोपस्थापनीय-निर्विशमानक-निर्विष्टकायिकाख्या आद्याश्चतस्रः स्थितयोऽधस्तन्य उच्यन्ते, तासांप्रत्येकं 'पञ्चम-षष्ठस्थित्योः ' जिनकल्प स्थविर - कल्पस्थिति-रूपयोः समवतारो भवति ।। गतं निर्विशमानक-निर्विष्टकायिककल्पस्थितिद्वयम्। अथ जिनकल्पस्थितिमाह[ भा. ६४८२ ] निजुत्ति-मासकप्पेसु वन्नितो जो कमो उ जिऩकप्पे । सुय संघयणादीओ, सो चेव गमो निरवसेसो ।
वृ- नियुक्ति - पञ्चकल्पस्तस्यां मासकल्पप्रकृते च यः क्रमः 'जिनकल्पे' 'जिनकल्पविषयः श्रुतसंहननादिको वर्णितः स एव गमो निरवशेषोऽत्र मन्तव्यः ॥ स्थानाशून्यार्थं पुनरिदमुच्यते[ भा. ६४८३] गच्छम्मिय निम्माया, धीरा जाहे य मुनियपरमत्था । अगह जोग अभिग्गहे, उ बिंति जिनकप्पियचरितं ॥
वृ- यदा गच्छे प्रव्रज्या - शिक्षापदादिक्रमेण 'निर्माताः' निष्पन्नाः, 'धीराः' औत्पत्तिक्यादिबुद्धिमन्तः परीषहोपसर्गैरक्षोभ्यावा, 'मुणितपरमार्था' 'अभ्युद्यतविहारेण विहर्तुमवसरः साम्प्रतमस्माकम्' इत्येवमवगतार्था, तथा ययोः पिण्डैषणयोः असंसृष्टा-संसृष्टाख्ययोरग्रहस्ते परिहर्तव्ये, यास्तु उपरितन्यः पञ्चैषणास्तासाम् 'अभिग्रहः' 'एता एव ग्रहीतव्याः' इत्येवंरूपः, तत्राप्येकदैकतरस्यां 'योगः' व्यापारः परिभोग इत्यर्थः । एवं भावितमतयो यदा भवन्ति तदा जिनकल्पिकचारित्रम् 'उपयान्ति' प्रतिपद्यन्ते ॥
[भा. ६४८४ ] धितिबलिया तवसूरा, निंति य गच्छातो ते पुरिससीहा । बल - वरियसंघयणा, उवसग्गसहा अभीरू य ॥
४२७
वृ- धृति-वज्रकुड्यवदभेद्यं चित्तप्रणिधानं तया बलिकाः बलवन्तः, तथा तपः-चतुर्थादिकं पण्मासिकान्तं तत्र शूराः समर्था, एवंविधाः पुरुषसिंहास्ते गच्छाद् निर्गच्छन्ति । बलं शारीरं वीर्यं - जीवप्रभवं तद्धेतुः संहननम् - अस्थिनिचयात्मकं येषां ते तथा । बल-वीर्यग्रहणं च चतुर्भङ्गीज्ञापनार्थम्, साचेयम् धृतिमान् नामैको न संहननवान्, संहननवान् नामैको न धृतिमा, एको धृतिमानपि संहननवानपि, एको न धृतिमान न संहननवान् । अत्र तृतीयभङ्गेनाधिकारः । उपसर्गा-दिव्यादयस्तेषां सहाः सम्यगध्यासितारः, तथा 'अभीरवः' परीषहेभ्यो न बिभ्यति ॥ गता जिनल्पस्थितिः सम्प्रति स्थविरकल्पस्थितिमाह
,
Jain Education International
[भा. ६४८५ ] संजमकरणुज्जोवा, निप्फातग नाण- दंसण चरित्ते । दीहाउ वढवासो, वसहीदोसेहि य विमुक्का ॥
वृ-संयमः पञ्चाश्रविरमणादिरूपः पृथिव्यादिरक्षारूपो वा सप्तदशविधः, तं कुर्वन्ति यथावत् पालयन्तीति संयमकरणाः, नन्द्यादिदर्शनात् कर्तरि अनप्रत्ययः, उद्योतकाः- तपसा प्रवचनस्योज्यालकाः, ततः संयमकरणाश्च ते उद्योतकाश्चेति विशेषणसमासः । यद्वा सूत्रा ऽर्थपौरुषीकरणेन
For Private & Personal Use Only
www.jainelibrary.org