________________
४२८
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ संयमकरणमुद्योतयन्तीति संयमकरणोद्योतकाः।तथा ज्ञान-दर्शन-चारित्रेषुशिष्याणां निष्पादकास्तेषांवाज्ञानादीनामव्यवच्छित्तिकारकाः, एवंविधाःस्थविरकल्पिका भवन्तीतिशेषः।यदाचतेदीर्घायुषो जङ्घाबलपरिक्षीणाश्चभवन्तितदावृद्धावासमध्यासते।तत्रैकक्षेत्रेवसन्तोऽपि वसतिदोषैः कालातिक्रान्तादिभि चशब्दाद् आहारोपधिदोषैश्च विमुक्ताः' वर्जिता भवन्ति, नतैर्लिप्यन्त इत्यर्थः॥ [भा.६४८६] मोत्तुं जिनकप्पठिई, जा मेरा एस वन्निया हेट्ठा ।
___ एसा तु दुपदजुत्ता, होति ठिती थेरकप्पस्स ॥ वृ-जिनकल्पस्थितिग्रहणेन उपलक्षणत्वात्सर्वेषामपिगच्छनिर्गतानां स्थितिपरिगृह्यते, ततस्तां मुक्त्वा या 'अधस्ताद्' अस्मिन्नेवाध्ययने 'मर्यदा' स्थिति 'एषा' अनन्तरमेव वर्णिता; यद्वा सामायिकाध्ययमादौ कृत्वा यावदस्मिन्नैवाध्ययने इदं षड्विधकल्पस्थितिसूत्रम्, अत्रान्तरे गच्छनिर्गतसामाचारीमुक्त्वा या शेषा सामाचारी वर्णिता सा 'द्विपदयुक्ता' उत्सर्गा-ऽपवादपदद्वययुक्ता स्थविरकल्पस्य स्थितिर्भवति ।। गता स्थविरकल्पस्थितिः । सम्प्रति प्रस्तुतशास्त्रक्तविधिवपरीत्यकारिणामपायान् दर्शयन्नाह[भा.६४८७] पलंबादी जाव ठिती, उस्सग्ग-ऽववातियं करेमाणो।
अववाते उस्सग्गं, आसायण दीहसंसारी॥ वृ- प्रलम्बसूत्रादारभ्य यावदिदं षड्विधकल्पस्थितिसूत्रं तावद् य उत्सर्गा-ऽपवादविधि सूत्रतोऽर्थतश्चोक्तस्तत्रोत्सर्गे प्राप्ते आपवादिकी क्रियां कुर्वाणोऽपवादे च प्राप्ते उत्सर्गक्रियां कुर्वाणोऽर्हतामाशातनायां वर्तते, अर्हप्रज्ञप्तस्य धर्मस्याशातनायां वर्तते,आशातनायांच वर्तमानो दीर्घसंसारीभवति, तस्मात्प्रलम्बसूत्रादारभ्य षड्विधकल्पस्थितिसूत्रंयावद् उत्सर्गेप्राप्ते उत्सर्गः कर्तव्योऽपवादे प्राप्तेऽपवादविधिर्यतनया कर्तव्यः॥ एवंकुर्वतां गुणमाह[भा.६४८८] छव्विहकप्पस्स ठिति, नाउं जो सहहे करणजुत्तो।
पवयणणिही सुरक्खितो, इह-परभववित्थरप्फलदो॥ वृ- षड्विधकल्पस्य' सामायिकादिरूपस्य प्रस्तुतशास्त्रर्थसर्वस्वभूतस्य 'स्थिति' कल्पनीयाचरणाऽकल्पनीयविवर्जनरूपां 'ज्ञात्वा' गुरूपदेशेन सम्यगवगम्य यः 'श्रद्दधीत' प्रतीतिपथमारोपयेत्, न केवलं श्रद्दधीत किन्तु 'करणयुक्तः' यथोक्तानुष्ठानसम्पनो भवेत्, तस्याऽऽत्मा एवं सम्यग्ज्ञानश्रद्धान-चारित्रसमन्वितः साक्षात् प्रवचननिधिर्भवति, यथा समुद्रो रत्ननिधि एवमसावपि ज्ञानादिरत्नमयस्य प्रवचनस्य निधिरित्यर्थः । स च प्रवचननिधि सुष्टुप्रयत्नेनाऽऽत्म-संयमविराधनाभ्यो रक्षितः सन् इह-परभवविस्तरफलदो भवति । इहभवेविस्तरेण चारण-वैक्रियाऽऽमर्पोषधिप्रभृतिविविधलब्धिरूपंफलंददाति, परभवेऽप्यनुत्तरविमानाद्युपपातसुकुलप्रत्यायातिप्रभृतिकं विस्तरेण फलं प्रयच्छति ॥ अथेदं कल्पाध्ययनं कस्य न दातव्यम् ? को वाऽपात्राय ददतो दोषो भवति? इत्यत आह[भा.६४८९] भिन्नरहस्से व नरे, निस्साकरए वमुक्कजोगीय।
छविहगतिगुविलम्मिं, सो संसारे भमति दीहे ॥ वृ- इहापवादपदानि रहस्यमुच्यते, भिन्न प्रकाशितमयोग्यानां रहस्यं येन स भिन्नरहस्यः, अगीतार्थानामपवादपदानि कथयतीत्यर्थः, तत्रैवंविधे नरे।तथा निश्राकरोनाम-यः किञ्चिदपवादपदं लब्ध्वा तदेव निश्रां कृत्वा भणति-यथा एतदेवं करणीयं तथाऽन्यदप्येवं कर्तव्यम्, तत्र।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org