________________
३२३
उद्देशकः ५, मूलं-१७७, [भा. ५९५६] 'तानिपुनः' शेषाणि स्थानानि चेष्टां प्रतीत्य कल्पन्ते, नपुनरभिग्रहविशेषम् सूत्राणिपुनरभिग्रह 'प्राप्य' प्रतीत्य प्रवृत्तानि, तत इदमुक्तं भवति-अभिग्रहविशेषादूर्ध्वस्थानादीनिसंयतीनांन कल्पन्ते, सामान्यतः पुनरावश्यकादिवेलायांयानि क्रियन्तेतानि कल्पन्त एव।।परः प्राह-ननुचाभिग्रहादिरूपं तपः कर्मनिर्जरणार्थमुक्तम् ततः किमेवं संयतीनां तत् प्रतिषिध्यते? उच्यते[भा.५९५७] तवो सो उ अनुन्नाओ, जेन सेसं न लुप्पति।
अकामियं पिपेल्लिज्जा, वारिओ तेनऽभिग्गहो॥ वृ-तपस्तदेव भगवद्भिरनुज्ञातं येन शेषं ब्रह्मचर्यादिकं गुणकदम्बकं न लुप्यते। कथं पुनः शेषं लुप्यते? इत्याह-“अकामियं" इत्यादि, दण्डायतादिस्थानस्थितामार्यिका दृष्ट्वा कश्चिदुदीर्णकर्मा ताम् ‘अकामिकाम्' अनिच्छन्तीमपि 'प्रेरयेत्' प्रतिसेवेत । तेन कारणेन वारित एताशस्तासामभिग्रहः ।। किञ्च[भा.५९५८] जेय दंसादओ पाणा, जे य संसप्पगा भुवि ।
. चिट्ठस्सग्गट्ठिया ता वि, सहति जह संजया॥ वृ-इह द्विधा कायोत्सर्ग-चेष्टायामभिभवे च । तत्राभिभवकायोत्सर्गस्तासां प्रतिषिद्ध इति कृत्वाऽभिधीयते-ये च दंश-मशकादयः प्राणिनो ये न भुवि 'संसर्पकाः' सञ्चरणशीला उन्दुरकीटकादयस्तैः कृतानुपद्रवान्यथा संयताः सहन्ते तथा ताअपि' आर्यिकाश्चेष्टाकायोत्सर्गस्थिता आवश्यकादिवेलायांसम्यक्सहन्ते, ततएवंताअपि कर्मनिर्जरांकुर्वन्ति॥आह-यदिउदीर्णकर्मणा तरुणादिना प्रेर्यमाणाऽपि सा संयती न स्वादयति ॥ ततः किमिति येनाभिग्रहविशेषेण बहुतरा कर्मनिर्जरा भवति स वार्यते? उच्यते[भा.५९५९] वसिज्जा बंभचेरंसी, भुजमाणी तुकादितु।
तहावितं न पूयंति, थेरा अयसभीरुणो॥ कृ-यद्यपि काचिद्' आर्यिका धृति-बलयुक्ता भुज्यमाना' प्रतिसेव्यमानाऽपिभावतोब्रह्मचर्ये वसेत् तथापि ‘स्थविराः' गौतमादयः सूरयः प्रवचनापयशःप्रवादभीरवस्ता न पूजयन्ति, न प्रशंसन्तीत्यर्थः । किञ्च[भा.५९६०] तिव्वाभिग्गहसंजुत्ता, थाण-मोणा-ऽऽसने रता।
जहा सुझंति जयओ, एगा-ऽनेगविहारिणो॥ [भा.५९६१] लज्जं बंभंच तित्थं च, रक्खंतीओ तवोरता।
गच्छे चेव विसुझंती, तहा अनसनादिहिं॥ वृ-तीव्रः-द्रव्यादिविषयैरभिग्रहैः संयुक्ताः, स्थान-मौना-ऽऽसनविशेषेषु रताः, “एकाऽनेकविहारिणः केचिद् एकाकिविहारिणो जिनकल्पिकादय इत्यर्थः, केचिचानेकविहारिणः स्थविरकल्पिका इत्यर्थः, एवंविधा यतयो यथा शुध्यन्ति तथा निर्ग्रन्थ्योऽपिलजांब्रह्मचर्यं तीर्थं चसूत्रोक्तविधिनरक्षन्त्यः 'तपोरताः' स्वाध्यायादितपःकर्मपरायणागच्छएववसन्त्योऽनशनादिभिर्यथोचितैस्तपोभि शुध्यन्ति, न तीरैरभिग्रहैः ॥अपिच[भा.५९६२] जो वि दहिंधणो हुन्जा, इत्यिचिंधो तु केवली।
वसते सो वि गच्छम्मी, किमुत्थीवेदसिंधणा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org