________________
३२४
बृहत्कल्प-छेदसूत्रम् -३-५/१७७ वृ-योऽपि ‘दग्धेन्धनः' भस्मसात्कृतवेदमोहनीयकमा ‘स्त्रचिह्नः' बहिःस्त्रीलक्षणलक्षितः केवली भवति सोऽपि गच्छवासे वसति किं पुनर्या संयती स्त्रवेदेन सेन्धना?, सा सुतरां गच्छे वसेदिति भावः ॥ यदप्युक्तम्-'यदि न स्वादयति ततः को नाम तस्या अभिग्रहग्रहणे दोषः?' तदप्ययुक्तम्, प्रतिसेव्यमानाया आस्वादनस्य याद्दछिकत्वात् । कथम्? इति चेद् उच्यते[भा.५९६३] अलायं घट्टियं ज्झाई, फुफुगा हसहसायई।
कोवितो वड्डती वाही, इत्थीवेदे विसो गमो॥ वृ. 'अलातम्' उल्मुकं घट्टितं' चालितं सद् यथा 'ध्यायति' प्रज्वलति, यथा वा फुम्फुका घट्टिता 'हसहसायति' भृशं दीप्यते, यथावाव्याधिरपथ्यासेवनादिनाकोपितोवर्धते, स्त्रीवेदस्यापि स एव गमोमन्तव्यः, सोऽपि घट्टितः प्रज्वलतीत्यर्थः । अतो यादृच्छिकमास्वादनमिति॥आहसंयतीनां प्रतिषिद्धा अमी अभिग्रहाः परं संयतानां का वार्ता ? अत्रोच्यते[भा.५९६४] कारणमकारणम्मि य, गीयत्थम्मिय तहा अगीयम्मि।
एए सब्बे विपए, संजयपक्खे विभासिज्जा ॥ वृ-यानिएतानि व्युत्सृष्टकायिकत्वादीनिपदान्युक्तानितानि 'कारणे सिंहादिभिरभिभूतस्य देवताकम्पननिमित्तंवा गीतार्थस्यागीतार्थस्य वा कल्पन्ते। अकारणे पुनरगीतार्थस्य न कल्पन्ते, गीतार्थस्य तु निष्कारणे पि निर्जरानिमित्तं कल्पन्ते । अचेलत्वादिकमपि गीतार्थस्य जिनकल्पं प्रतिपद्यमानस्य कल्पते। एवंसंयतपक्षे 'एतानि अचेलतादीनि सर्वाण्यपिपदानि विभाषयेत्॥
मू. (१७८) नो कप्पइ निग्गंथीणं आकुंचनपट्टगंधारित्तए वा परिहरित्तए वा। मू. (१७९) कप्पइ निग्गंथाणं आकुंचनपट्टगंधारित्तए वा परिहरित्तए वा ।। वृ-एवं यावद् दारुदण्डकसूत्रम् ॥अथामीषां सूत्राणां सम्बन्धमाह[भा.५९६५] बंभवयपालणट्ठा, तहेव पट्टाइया उ समणीणं ।
बिइयपदेण जईणं, पीढग-फलए विवजित्ता॥ वृ-यथा ब्रह्मव्रतपालनार्थमचेलत्वादीनि न कल्पन्ते तथा ब्रह्मचर्यरक्षणार्थमेव श्रमणीनां पट्टादयोऽपि दारुदण्डकान्ता न कल्पते । द्वितीयपदे तु यतीनां कल्पन्ते परं पीठ-फलकानि वर्जयित्वा, तानि साधूनामपवादमन्तरेणापि कल्पन्त एवेत्यर्थः । अत एतेषां सूत्राणामारम्भः॥ अनेन सम्बन्धेनायातानाममीषां प्रथमसूत्रस्य व्याख्या-नो कल्पते निर्ग्रन्थीनाम् ‘आकुञ्चनपर्ट' पर्यस्तिकापट्टेधारयितुंवा परिहतुवा । कल्पतेनिर्ग्रन्थानामाकुञ्चनपहुंधारयितुंवा परिहर्तुवेति सूत्रार्थः॥
अथ भाष्यम्[भा.५९६६] गव्वो अवाउडत्तं, अनुवधि पलिमंथु सत्युपरिवाओ।
पट्टमजालिय दोसा, गिलाणियाए उ जयणाए॥ वृ-पर्यस्तिकापट्ट परिदधानामार्यिकां दृष्टवा लोको ब्रूयात्-अहो! अस्याः कियान् गर्यो यदेवं महेलाऽपि भवन्ती पर्यस्तिकां करोति ।अपावृतावापर्यस्तिकां कुर्वाणा भवेत्। “अनुवहि"त्ति य उपकारे वर्तते स उपधिरुच्यते, स च तासामुपकारं नायातीति कृत्वाऽनुपधि । उभयकालं प्रत्युपेक्षमाणेच तस्मिन् सूत्रार्थपरिमन्थः । शास्तुश्च-तीर्थकृतः परिवादः, यथा-नूनमसर्वज्ञोऽसौ येनैतासांपर्यस्तिकापट्टोन प्रतिषिद्धः। द्वितीयपदे या संयती स्थविरा ग्लाना वा तया 'यतनया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org