________________
३२२
बृहत्कल्प-छेदसूत्रम् -३-५/१७७
पंचेव निसिजाओ, तासि विभासा उ कायव्वा ।। वृ-स्थानायतं नाम ऊर्ध्वस्थानरूपमायतं स्थानं तद् यस्यामस्तिसा स्थानायतिका । केचित्तु "ठाणाइयाए" इति पठन्ति, तत्रायमर्थ-सर्वेषां निषदनादीनां स्थानानांआदिभूतमूर्ध्वस्थानम्, अतः स्थानानामादौ गच्छतीति व्युत्पत्त्या स्थानादिगं तद् उच्यते, तद्योगाद् आर्थिकाऽपि स्थानादिगति व्यपदिश्यते । प्रतिमाः मासिक्यादिकाः तासु तिष्ठतीति प्रतिमास्थायिनी । "नेसज्जियाय"त्ति निषद्याः पञ्चैव भवन्ति तासां विभाषा कर्तव्या । सा चेयम्-निषद्या नामउपवेशनविशेषाः, ताः पञ्चविधाः,तद्यथा-समपादयुतागोनिषधिकाहस्तिशुण्डिकापर्यङ्काऽर्धपर्यङ्का चेति । तत्र यस्यां समौ पादौ पुतौ च स्पृशतः सा समपादयुता, यस्यां तु गौरिवोपवेशनं सा गोनिषधिका, यत्रपुताभ्यामुपविश्यैकं पादमुत्पाटयति साहस्तिशुण्डिका, पर्याप्रतीप्ता, अर्धपर्यङ्का यस्यामेकंजानुम्तापटयति । एवंविधया निषद्यया चरतीतिनैषधिकी।उत्कटिकासनंतुसुगमत्वाद् भाष्यकृता न व्याख्यातम् ॥ [मा.५९५४] वीरासनं तु सीहासने वजह मुक्कजन्नुक निविट्ठो।
दंडे लगंड उवमा, आयत खुज्जाय दुण्हं पि॥ वृ-वीरासनं नाम यथा सिंहासने उपविये भून्यस्तपाद आस्ते तथा तस्यापनयने कृतेऽपि सिंहासन इव निविष्टो मुक्तजानकु इव निरालम्बनेऽपि यद् आस्ते । दुष्करं चैतद्, अत एव वीरस्य-साहसिकस्यासनंवीरासनमित्युच्यते, तद्अस्याअस्तीतिवीरासनिका।तथा दण्डासनिकालगण्डशायिकापदद्वये यथाक्रमं दण्डस्य लगण्डस्य चायत-कुलताभ्यामुपमाकर्तव्या । तद्यथादण्डस्येवायतं-पादप्रसारणेन दीर्घयआसनंतद्दण्डासनम्, तदअसाय अस्तीति दण्डासनिका। लगण्डं किल-दुःसंस्थितं काष्ठम्, तद्वत् कुब्जतया मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः, यातथाविधाभिग्रहविशेषेण शेते सा लगण्डशायिनी।अवाड्मुखादीनितुपदानि सुगमत्वाद् न व्याख्यातानीति द्रष्टव्यम् । एते सर्वेऽप्यभिग्रहविशेषाः संयतीनां प्रतिषिद्धाः॥
एतान् प्रतिपद्यमानानां दोषानाह[भा.५९५५] जोणीखुब्मण पेल्लण, गुरुगा भुत्ताण होइ सइकरणं।
गिरुगा सवेंटगम्मी, कारणे गहणं व धरणं वा ॥ वृ-उर्ध्वस्थानादौ स्थानविशेषे स्थितायाआर्यिकायायोनेः क्षोभोभवेत्, तरुणावा तथास्थितां दृष्ट्वा 'प्रेरयेयुः' प्रतिसेवेरन् । अत अवैतानभिग्रहान् प्रतिपद्यमानायास्तस्याश्चतुर्गुरु । भुक्तभोगिनीनां च येन कारणेन स्मृतिकरणमितरासां कौतुकं च जायते । तथा वक्ष्यमाणसूत्रे प्रतिषेधयिष्यमाणं सवेण्टकं तुम्बकं यदि निर्ग्रन्थी गृह्णाति तदा चतुर्गुरु, स्मृतिकरणादयश्चत एव दोषाः । कारणेतु तस्यापि ग्रहणंधारणंचानुज्ञातम् । एतच्चाप्रस्तुतमपि लाघवार्थं स्मृतिकरमादिदोषसाम्यादत्र भाष्यकृताऽभिहितमिति सम्भावयामः, अन्यथा वा सुधिया परिभाव्यम्। [भा.५९५६] वीरासन गोदोही, मुत्तुंसव्वे वितान कपंति ।
ते पुन पडुच्च चेटुं, सुत्ता उ अभिग्गहं पप्पा॥ वृ-अनन्तरोक्तासनानां मध्याद् वीरासनं गोदोहिकासनं च मुक्त्वा शेषाण्यवंस्थानादीनि सर्वाण्यपि तासां कल्पन्ते । आह-सूतरे तान्यपि प्रतिषिद्धानि तत् कथमनुज्ञायन्ते ? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org