SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं- १२८, [भा. ५४५३ ] गच्छो नाप्याचार्य ४ इति । अत्र प्रथमो भङ्गो गच्छे सीदति मन्तव्यः । तत्र च गुरुणा स्वयं वा गच्छस्य नोदना कर्तव्या ॥ कथं पुनः स गच्छः सीदेत् ? इत्याह २२१ [भा. ५४५४] पडिलेह दियतुअट्टण, निक्खिव आदान विनय सज्झाए । आलोग-ठवण-भत्तट्ठ-भास- पडल- सेज्जातराईसु ॥ कृ-ते गच्छसाधवः प्रत्युपेक्षणां कालेन कुर्वन्ति, न्यूना ऽतिरिक्तादिदोषैर्विपर्यासेन वा प्रत्युपेक्षन्ते, गरु-ग्लानादीनां वा न प्रत्युपेक्षन्ते । निष्कारणे दिवा त्वग्वर्तयन्ति । दण्डकादिकं निक्षिपन्त आददतो वा न प्रत्युपेक्षन्ते, न वा प्रमार्जयन्ति, दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं वा कुर्वन्ति । यथार्हं विनयं न प्रयुञ्जते । स्वाध्याये - सूत्रपौरुषीमर्थपौरुषी वा न कुर्वन्ति, अकालेऽस्वाध्याये वा कुर्वन्ति । पाक्षिकादिषु आलोचनां न प्रयच्छन्ति, अथवा “आलोय "त्ति "ठाणदिसिपगासणया" इत्यादिकं सप्तविधमालोकं न प्रयुञ्जते, सङ्घडीं वा आलोकन्ते । स्थापनाकुलानि न स्थापयन्ति । 'भक्तार्थं ' मण्डल्यां समुद्देशनं न कुर्वन्ति । गृहस्थभाषाभिर्भाषन्ते, सावद्यं वा भाषन्ते । पटलकेषु आनीतं भुञ्जते । शय्यातरपिण्डं भुञ्जते । आदिग्रहणेन उद्गमाद्यशुद्धं गृह्णन्ति । एतेषु गच्छस्य सीदतो विधिमाह[भा. ५४५५ ] चोयावेइ य गुरुणा, विसीयमानं गणं सयं वा वि । आयरियं सीयंतं, सयं गणेणं च चोयावे ॥ वृ-प्रथमभङ्गे सामाचार्यां विषीदन्तं गच्छं गुरुणा नोदयति, अथवा स्वयमेव नोदयति । द्वितीयभङ्गे आचार्यं सीदन्तं स्वयं वा गणेन वा नोदयति ॥ [ भा. ५४५६ ] दुन्नि वि विसीमाणे, सयं व जे वा तहिं न सीयंति । ठाणं ठाणाSS सज्ज उ, अनुलोमाईहि चोएति ॥ वृ- तृतीयभङ्गे गच्छा-ऽऽचार्यौ द्वावपि सीदन्तौ स्वयमेव नोदयति, ये वा तत्र न सीदन्ति तैर्नोदयति, किंबहुना ? स्थानं स्थानम् ' आसाद्य' प्राप्यानुलोमादिभिर्वचोभिर्नोदयति । किमुक्तं भवति ? - आचार्योपाध्यायादिकं भिक्षु क्षुल्लकादिकं वा पुरुषवस्तु ज्ञात्वा यस्य याध्शी नोदना योग्या यो वा खरसाध्यो मृदुसाध्यः क्रूरोऽक्रूरो वा यथा नोदनां गृह्णाति तं तथा नोदयेत् ॥ [ भा. ५४५७ ] भणमाणे भणाविंते, अयाणमाणम्मि पक्खो उक्कोसो । लज्जा पंच तिन्निव, तुह किं ति व परिणय विवेगो । वृ- गच्छमाचार्यमुभयं वा सीदन्तं स्वयं भणन् अन्यैश्च भाणयन्नास्ते । यत्र न जानाति एते भण्यमाना अपि नोद्यमं करिष्यन्ति तत्रोत्कर्षतः पक्षमेकं तिष्ठति । गुरुं पुनः सीदन्तं लज्जया गौरवेण वा जानन्नपि पञ्च त्रीन् वा दिवसानभणन्नपि शुद्धः । अथ नोद्यमानो गच्छो गुरुरुभयं वा भणेत् तव किं दुःखयति ? यदि वयं सीदामस्तर्हि वयमेव दुर्गतिं गमिष्यामः । एवंविधे भावे तेषां परिणते तेषां ‘विवेकः' परित्यागो विधेयः । ततश्चान्यं गणं सङ्क्रमति । तत्र चतुर्भङ्गी-संविग्नः संविग्नं गणं सङ्क्रामति १ संविग्नोऽसंविग्नम् २ असंविग्नः संविग्नम् ३ असंविग्नोसंविग्नम् ४ ॥ तत्र प्रथमो भङ्गस्तावदुच्यते [भा. ५४५८ ] संविग्गविहाराओ, संविग्गा दुन्नि एज अन्नयरे । आलोइयम्मि सुद्धो, तिविहोवहिमग्गणा नवरिं ॥ वृ- संविग्नविहाराद् गच्छात् संविग्नौ द्वौ 'अन्यतरौ' गीतार्था ऽगीतार्थी संविग्ने गच्छे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy