________________
१५६
बृहत्कल्प-छेदसूत्रम् -३-४/११४
[भा. ५१४४] महिलासहावो सर-वन्नभेओ, मेण्ढं महंतं मउता य वाया । ससद्दगं मुत्तमफेणगं च, एयाणि च प्पंडगलक्खणाणि ॥
वृ- पण्डको वक्ष्यमाणनीत्या महिलास्वभावो भवति । स्वर वर्णभेदश्च तस्य भवति । स्वरभेदो नाम - पुरुषस्य स्त्रियाश्च स्वराद् विलक्षणस्तस्य स्वरो भवति । वर्णग्रहणेन गन्ध-र -रस- स्पर्शा अपि गृह्यन्ते, ततो वर्णभेदो नाम वर्णादयः तस्य स्त्र- पुरुषविलक्षणा अन्यादृशा भवन्ति । 'मेढम्' अङ्गादानं तच्च 'महत्' प्रलम्बं भवति । वाक् च 'मृदुका' कोमला भवति । मूत्रं सशब्दमफेनकं च भवति । एतानि षट् पण्डकलक्षणानि मन्तव्यानि ॥ 'महिलास्वभावः' इति पदं व्याचष्टे[भा. ५१४५ ] गती भवे पञ्चवलोइयं च, मिदुत्तया सीयलगत्तया य । धुवं भवे दोक्खरनामधेज्जो, सकारपञ्चंतरिओ ढकारो ॥
वृ- गति स्त्रीवद् मन्दा सविभ्रमा च भवति । पार्श्वतः पृष्ठतश्च प्रत्यवलोकितं कुर्वन् गच्छति । शरीरस्य च त्वग् मृद्वी भवति । 'शीतलगात्रता च' अङ्गोपाङ्गानां शीतलः स्पर्शो भवति । एतानि स्त्रिया इव लक्षणानि दृष्ट्वा मन्तव्यम्- 'ध्रुवं' निश्चितमयं व्यक्षरनामधेयो भवेत् । तच्चाक्षरद्वयं सकारप्रत्यन्तरितो ढकार इति प्रतिपत्तव्यम्, प्राकृत शैल्या 'संढः' संस्कृते तु ‘षण्ढः' इति भावः ।
किञ्च
[ भा. ५१४६ ] गइ भास वत्थ हत्थे, कडि पट्टिभुमा य केसऽलंकारे । पच्छन्न मज्जनानि य, पच्छन्नयरं च नीहारो ॥
वृ- " गइ "त्ति यथा स्त्री तथा शनैः सविकारं गच्छति । स्त्रीवद् भाषां भाषते । तथा वस्त्र यथा स्त्री तथा परिधत्ते, शिरो वा वस्त्रेण स्थगयति । “हत्थे "त्ति हस्तौ कूर्पराधो विन्यस्य कपोलयोर्वा निवेश्य जल्पति । अभीक्ष्णं च कटीभङ्गं करोति, पृष्ठं वा वस्त्रण सुस्थगितं करोत । भाषमाणश्च सविभ्रमं ध्रुयुगलमुत्क्षिपति, भू-रोमाणि वास्त्रसध्शानि । स्त्रवत् केशानामोटयति । महिलानामलङ्कारान् पिनह्यति । प्रच्छन्ने च प्रदेशे 'मज्जनानि' स्नानादीनि करोति । प्रच्छन्नतरं च 'नीहारः ' उच्चार-प्रश्रवणात्मकस्तेन क्रियते ॥
[ भा. ५१४७ ] पुरिसेसुभीरु महिलासु संकरो पमयकम्मकरणो य । तिविहम्मिवि वेदम्मिं, तियभंगो होइ कायव्वो ।
,
वृ- 'पुरुषेषु' पुरुषमध्ये 'भीरु' सभयः शङ्कमान आस्ते । महिलासु 'सङ्करः' सम्मिलनशीलो निशङ्को निर्भयस्तिष्ठति । प्रमदाः स्त्रियः तासां यत् कर्म ण्डन-दलन - पचन- परिवेषणोदकाहरणप्रमार्जनादिकं तत् स्वयमेव करोतिति प्रमदाकर्मकरणः कृत् "बहुलम्" इति वचनात् कर्तरि अनट्प्रत्ययः । एवमादिकं बाह्यलक्षणं पण्डकस्य मन्तव्यम् । आभ्यन्तरं तु लक्षणं तस्य तृतीयवेदोदयः। स च नपुंसकवेदस्त्रविधेऽपि वेदे भवति, यत आह-त्रिविधेऽपि वेदे प्रत्येकं त्रिकभङ्गः कर्तव्यो भवति । कथम् ? इति चेद् उच्यते- पुरुषः पुरुषवेदं वेदयति, पुरुषः स्त्रीवेदं वेदयति, पुरुषो नपुंसक वेदं वेदयति, एवं स्त्री-नपुंसकयोरपि वेदत्रयोदयो मन्तव्यः ॥
आ यद्येवं ततो यदुच्यते 'स्त्र- पुरुष नपुंसकवेदा यथाक्रमं फुम्फका दवाग्नि-महानगरदाहसमानाः' तदेतद् व्या- हन्यते ? अत्रोच्यते
[ भा. ५१४८ ] उस्सग्गलक्खणं खलु, फुंफग तह वनदवे नगरदाहे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org