SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं - ११४, [भा. ५१३८] १५५ पण्डकादिर्द्विविधेऽपि द्रव्य-भावलिङ्गे यो न स्थाप्यते स प्रतिपाद्यते । एष 'योगः ' सम्बन्धः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-त्रयो नो कल्पन्ते प्रव्राजयितुम् । तद्यथा- 'पण्डकः' नपुंसकः । 'वातिको नाम' यदा स्वनिमित्ततोऽन्यथा वा मेहनं काषायितं भवति तदा न शक्नोति वेदं धारयितुं यावन्न प्रतिसेवा कृता । 'क्लीबः' असमर्थः, स च दृषिट्क्लीबादिलक्षणः । एष सूत्रार्थः । अथ भाष्यविस्तरः [ भा. ५१३९] वीसं तु अपव्वज्जा, निजुत्तीए उ वन्निया पुव्विं । इह पुन तिहि अधिकारी, पंडे कीवे य वाईया ॥ वृ- 'विंशतिः' बाल-वृद्धादिभेदाद् विंशतिसङ्ख्याः अप्रव्राज्याः 'पूर्वं' नामनिष्पन्ने निक्षेपे 'निर्युक्तौ ' पञ्चकल्पे सप्रपञ्चं वर्णिताः । इह पुनस्त्रभिरेवाधिकारः- पण्डकेन क्लीबेन वातिकेन चेति, गुरुतरदोषदुष्टा अमी इति कृत्वा ।। अथ प्रव्राजनाविधिमेव तावदाह [भा. ५१४०] गीयत्थे पव्वावण, गीयत्थे अपुच्छिऊण चउगुरुगा । तम्हा गीयत्थस्स उ, कप्पइ पव्वावणा पुच्छा || वृ- गीतार्थेनैव प्रव्रजना कर्तव्या नागीतार्थेन यद्यगीतार्थ प्रव्राजयति तदा चतुर्गुरुकम् । गीतार्थोऽपि यदि 'अपृष्ट्वा' पृच्छामन्तरेण प्रव्राजयति तदा तस्यापि चतुर्गुरुकाः । तस्माद् गीतार्थस्य पृच्छाशुद्धं कृत्वा प्रव्रजना कर्तुं कल्पते । पृच्छाविधिश्चायतम् - कोऽसि त्वम् ? को वा ते निर्वेदो येन प्रव्रजसि ? ॥ एवं पृष्टे सति [ भा. ५१४१] सयमेव कोति साहति, मित्तेहि व पुच्छिओ उवाएणं । अहवा वि लक्खणेहिं, इमेहि नाउं परिहरेज्जा | वृ-स्वयमेव 'कोऽपि' पण्डकः कथयति, यथा-सद्दशे मनुष्यत्वे ममेद्दशः त्रैराशिकवेदः समुदीर्ण इति । यद्वा मित्रैस्तस्य निर्वेदकारणमभिधीयेत । प्रब्राजकेन वा स एवोपायपूर्वं पृष्टः कथयेत् । अथवा 'लक्षणैः' महिलास्वभावादिभि 'एभि' वक्ष्यमाणैर्ज्ञात्वा तं परिहरेत् ॥ तत्र पृच्छां तावद् भावयति [भा. ५१४२ ] नज्जंतमनज्जंते, निव्वेयमसड्ढे पढमयो पुच्छे । अन्नाओ पुन भन्नइ, पंडाइ न कप्पई अम्हं ।। वृ- यः प्रव्रजितुमुपस्थितः स ज्ञायमानो वा स्यादज्ञायमानो वा । ज्ञायमानो नामअमुको मुकपुत्रोऽयम्, तद्विपरीतोऽज्ञायमानः । तत्र यो ज्ञायमानः स यदि श्राद्धः - श्रावको न भवति ततः प्रथमतस्तं निर्वेदं पृच्छेत् । यः पुनरज्ञातः स समासेन भण्यते न कल्पतेऽस्माकं पण्डकादि प्रव्राजयितुम् ॥ स च यदि पण्डकस्तत एवं चिन्तयति [भा. ५१४३] नाओ भित्ति पणासइ, निव्वेयं पुच्छिया व से मित्ता । साहंति एस पंडो, सयं व पंडो त्ति निव्वेयं ॥ वृ-ज्ञातोऽस्म्यमीभिरिति मत्वा प्रणश्यति । अथवा यानि “से” तस्य मित्रामि तानि पृच्छयन्तेएष तरुण ईश्वरो नीरोगश्च विद्यते ततः केन निर्वेदेन प्रव्रजति ? । एवं पृष्टानि तानि ब्रुवते - एष पण्डक इति । स्वयं वा सः 'पण्डकोऽस्म्यहम्' इति निर्वेदं कथयति ॥ अथ पूर्वोल्लिङ्गितानि पण्डकलक्षणानि निरूपयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy