________________
उद्देशक : ४, मूलं-११४, [भा. ५१४८]
१५७ अववादतो उ भइओ, एक्केको दोसु ठाणेसु॥ वृ-इह विवक्षितस्य वस्तुनः कारणनिरपेक्षं सामान्यस्वरूपमुत्सर्ग उच्यते, ततस्त्रयाणामपि वेदानामिदमुत्सर्गलक्षणमेव मन्तव्यम् । यथा-स्त्रीवेदः फुम्फकाग्निसमानः, पुरुषवेदो वनदवाग्निसमानः,नपुंसकवेदोमहानगरदाहसमान इति । अपवदतस्तुत्रिविधोऽपि वेदः 'भक्तः' विकल्पितः । कथम् ? इत्याह-एकैको वेदः स्वस्थानं मुक्त्वा इतरयोरपि द्वयोः स्थानयोर्वर्तते । यथा-स्त्री स्त्रीवेदसमाना वा पुरुषवेदसमाना वा नपुंसकवेदसमाना वा भवेत्, एवं पुरुषनपुंसकयोरपि वक्तव्यम्॥अथ प्रकारान्तरेण पण्डकलक्षणमाह[भा.५१४९] दुविहो उ पंडओ खलु, दूसी-उवधायपंडओ चेव ।
उवधाए विय दुविहो, वेए य तहेव उवकरणे॥ वृ-द्विविधः खलु पण्डकः, तद्यथा-दूषितपण्डक उपघातपण्डकश्च । दूषितण्डको द्विविधःआसिक्त उपसिक्तश्च। एतच्च भेदद्वयमद्व्याख्यातम्। उपघातपण्डकोऽपिद्विविधः-वेदोपघाते उपकरणोपघाते च ।। तत्र दूषितपण्डकं तावद् व्याख्यानयति[भा.५१५०] दूसियवेओ दूसिय, दोसु व वेएसुसज्जए दूसी।
दूसेति सेसए व, दोहि व सेविजए दूसी॥ वृदूषितो वेदो यस्य स दूषितवेदः, एष दूषित उच्यते । 'द्वयोर्वा' नपुंसक-पुरुषवेदयोः अथवा नपुंसक-स्त्रीवेदयोर्यः ‘सजति' प्रसङ्गं करोति स प्राकृतशैल्या दूसी भण्यते । यौ वा 'शेषौ' स्त्री-पुरुषवेदौ ‘दूषयति' निन्दति स दूषी । 'द्वाभ्यां वा' आस्यक-पोसकाभ्यां यः सेव्यते सेवते वस दूषी ॥अस्यैव भेदानाह[भा.५१५१] आसित्तो ऊसित्तो, दुविहो दूसी उ होइ नायव्यो।
आसित्तो सावच्चो, अणवच्चो होइ ऊसित्तो॥ वृ-स दूषी द्विविधो ज्ञातव्यो भवति-आसिक्त उपसिक्तश्च । आसिक्तो नाम ‘सापत्यः' यस्यापतयमुत्पद्यते, सबीजइति भावः । यस्तु 'निरपत्यः' अपत्योत्पादनसामर्थ्यविकलः, निर्वीज इत्यर्थः, स उपसिक्त उच्यते॥ व्याख्यातो दूषिपण्डकः, अथोपघातपण्डकमाह[भा.५१५२] पुट्विं दुच्चिन्नाणं, कम्माणं असुभफलविवागेणं।
तो उवहम्मइ वेओ, जीवाणं पावकम्माणं॥ वृ-पूर्वं 'दुश्चीर्णानां दुराचारसमाचरणेनार्जितानां कर्मणामशुभफलः 'विपाकः' उधयो यदा भवति ततो जीवानां पापकर्मणां वेद उपहन्यते॥ तत्र चायं दृष्टान्तः [भा.५१५३] जह हेमो उ कुमारो, इंदमहे भूणियानिमित्तेणं।
मुच्छिय गिद्धो यमओ, वेओ वि य उवहओ तस्स ॥ वृ-यथा हेमो नाम कुमार इन्द्रमहे समागता या भ्रूणिकाः-बालकास्तासां निमित्तेन ‘मूर्च्छितो गृद्धः' अत्यन्तमासक्तः सन् ‘मृतः' पञ्चत्वमुपगतः, वेदोऽपिच तस्योपहतः सात इत्यक्षरार्थ। भावार्थः कथानकादवसेयः । तच्चैदम्- हेमपुरे नगरे हेमकूडो राया । हेमसंभवा भारिया । तस्स पुत्तो वरतवियहेमसन्निमो हेमो नाम कुमारो । सो य पत्तजोव्वणो अन्नया इंदमहे इंदट्ठाणं गओ, पेच्छइ य तत्थ नगरकुलबालियाणं रूववईणं पंचसे बलि-पुप्फ-धूवकडुच्छयहत्थे । ताओ द8
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org